मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 734, कुल 804 में से
संदर्भ में पढ़ें६८० मीमांसादर्शनम् [ सू० वेदे तावेव विज्ञेयाविति सिद्धं प्रमाणवत् । प्रकारान्तरोपन्यासेन प्रकृतस्यानुसन्धानम् यद्वा चैवं यदा युक्ता चिन्तेयं क्रियतेऽधुना ॥ १०७२ किमाकृतेः पदार्थत्वं किं व्यक्तेः किं द्वयोरिति । बहवः प्रतिभान्त्यत्र पक्षाः प्रतिपदं च ये ॥ १०७३ ते च सर्वेऽभिधीयन्ते व्यामोहविनिवृत्तये । गौरित्युच्चरिते सप्त वस्तूनि प्रतिभान्ति नः ॥ १०७४ जातिर्व्यक्तिश्च सम्बन्धः समूहो लिङ्गकारके । संख्या च सप्तमी तेषामष्टपक्षी द्वयोर्द्वयोः ॥ १०७५ किं जातिरेव शब्दार्थो व्यक्तिरेवाथ वोभयम् । किं विकल्पोऽथ सम्बन्धः समुदायो निरूप्यताम् ॥ १०७६ जातिर्व्यक्तिविशिष्टा वा व्यक्तिर्जातिविशेषिता । जातिसम्बन्धयोरेवं सामान्यसमुदाययोः ॥ १०७७ जातिकारकयोश्चैवं संख्यासामान्ययोरपि । लिङ्गसामान्ययोरेवमेकैकस्येतरैः सह ॥ १०७८ अष्टौ पक्षा नियोक्तव्याः षड्भिः प्रत्येकमुक्तवत् एवमानन्त्यमेतेषां पक्षाणामिह गम्यते ॥ १०७९ पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयवर्णनम् । पूर्वपक्षेऽपि चत्वारो भाष्ये चैते प्रदर्शिताः । व्यक्तेरेवाभिधेयत्वं द्वयोर्वा स्वप्रधानयोः ॥ १०८० व्यक्तेर्जातिविशिष्टाया विपरीतमथापि वा । उपन्यासेन चैतेषां ज्ञेयाः सर्वे प्रपञ्चिताः ॥ १०८१ निराकरणयुक्त्या च निषिद्धा इति नोदिताः । तेनाऽऽद्यौ द्वावेव पक्षौ विचार्येते किमाकृतिः शब्दार्थो व्यक्तिरिति । भाष्यकारेण च संशयकारणमुक्तं सामान्यप्रत्ययाद्व्यक्तौ च क्रियासंभवा- दिति । एतदयुक्तम् ! व्यक्तेरपि प्रतीयमानत्वात्कथं जातेरेव प्रतीतिरुपन्यस्यते ? यदि च व्यक्तिर्न संप्रतीयेत, ततः संशय एव न स्यात्किमभिधीयतेऽनेनेति । न च क्रियासंभवोऽभिधेयत्वे कारणं व्यक्त्यन्तराणामपि प्रसङ्गात् । तेन पूर्वोक्तमेव संशयकारणं मन्तव्यम् । प्रयोजनप्रतीत्योः साधारणत्वात् शास्त्रान्तरे व्यक्तिपक्षाभ्यु पगमात्संशयः ।