मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 737, कुल 804 में से
संदर्भ में पढ़ें३३ ] प्रथमाध्याये तृतीयपादः ६८३ विशेषणभूताऽभिधेया भविष्यति । अतश्च तत्प्रतीतिरचोद्या । तेन केवला, विशिष्टा वा व्यक्तिः शब्दार्थः । तथा च 'षड् देया' इत्येवमादिषु षडादिका संख्योपपत्स्यते अन्यं तद्गुर्णमिति१ च व्यक्त्यन्तरेऽन्यशब्दोपपत्तिस्तद्धर्मता च भविष्यति । अन्यथा व्यक्त्यन्तरानयनेऽपि जातेरन्यत्वादगुणत्वाच्चोभयमनुप- पन्नम् । तस्माद् व्यक्तिः शब्दार्थ इति प्राप्ते । सिद्धान्तः अभिधीयते । नैतत् शब्दवाच्येति; किं त्वाकृतिः पदार्थ इति विज्ञायते, 'श्येनचितं चिन्वीत' इति श्रवणात् । अत्र हि श्येनव्यक्तिं चयनेन कुर्यादाकृतिं वेति वाक्यार्थी स्याताम् । यावदिष्टकाभिः२ श्येनव्यक्तेः कर्तुमशक्यत्वात्, स्नाव्या- दिभिरप्यनिर्वृत्तेरिष्टकाबाधाच्छ्येनव्यक्तेः प्रयोजनकल्पनाच्चिनोतेर्मुख्यार्थत्वात् 'कर्मण्यग्न्याख्यायाम्३ इति स्मृतिपरित्यागप्रसङ्गाच्च । चयनेन श्येनव्यक्तिं कुर्यादित्येवं तावन्नोपपद्यते । तथाऽऽकृतेरपीष्टकाभिः कर्तुमशक्यत्वात् दैवनिर्मित- त्वात्, प्रयोजनकल्पनाच्चिनोतेर्यथार्थत्वप्रसङ्गात्स्मृतिबाधाच्चाऽऽकृतिं कुर्या- दित्यपि नोपपद्यते । परिशेषाच्छ्येनमिव चितमग्निस्यलं चयनेन निर्वर्तयेदिति वाक्यार्थः । ततश्च यया कयाचिच्छ्येनव्यक्त्या सदृशस्याग्नेश्चेतुमशक्यत्वात् । सर्वव्यक्तिसादृश्यासम्भवात्, अतीतानागतव्यक्तिसादृश्यानुपपत्तेश्च श्येनाकृति- सादृश्यसंपत्तिसंभवाच्चाकृतिः शब्दार्थ इति निश्चीयते । अथ कस्माच्छ्येनव्यक्तिभिश्चयनचोदनेयं नाऽऽश्रीयते 'श्येनचितं चिन्वीत' इति । तत्र भाष्यकारेणोत्तरं दत्तम् 'ईप्सिततमो ह्यसौ४ श्येनशब्देन निर्दिश्यते' इति । तदयुक्तम् । न ह्यत्र श्येनशब्दः स्वार्थः, न च सकलश्येनचिच्छब्दोत्तरकालं श्रुतत्वाद् द्वितीयायास्तदन्तो५, येनेप्सिततमार्थप्रतिपादकः स्यात् । तेन कर्मण्यग्न्या- ख्यायामिति स्मृतेः श्येनशब्दार्थस्य करणत्वं निषेद्धव्यम् । कर्मणि हि कारके चिनोतेः क्विप्प्रत्ययः स्मर्यते । यदि चिनोतिरग्न्याख्या भवति । न च चिनोतेः केवल- स्याग्निवचनत्वं संभवति । तेन क्विबन्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकल- स्याग्निवचनत्वं निश्चीयते, न श्येनशब्दस्य पृथगर्थता । तेन न श्येनशब्दार्थं करणतया विज्ञायते । यदि वासौ करणं स्यात्ततो लक्षणाभावात्तृतीयासमास- वचनानुपपत्तिर्भवेत् । तृतीया चाश्रुता कल्पनीया । श्रुतकरणत्वे इष्टकापरित्यागश्च १. क. तद्गुर्णामिति । २. क. दिष्टकादिः । ३. पा० सू० ( ३-२-९२ ) । - ४. क. न ह्यसौ । ५. नच श्येनशब्दो द्वितीयान्त इत्यर्थः ।