मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 738, कुल 804 में से
संदर्भ में पढ़ें५८४ मीमांसादर्शनम् [ सू० स्यात् । सत्यां च गतौ प्रतिषिद्धाऽनेकश्येनव्यक्तिहिंसा जायते, तेन करणत्वानु- पपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थः । अतश्चोक्तेन न्यायेनाऽस्य वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति । नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते, व्यक्तिप- क्षेऽप्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या व्यक्तेरेव पदार्थत्वमवसीयते । अथाकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त इत्युच्यते, तदैतदपि¹ शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता चैकत्र लक्षणा, नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये करिष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते अभिधीयते जातिरभिधेयेति । कुतः—पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् । गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥ १०८२ गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकार- ज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते अतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तरा- भावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुः ततः तासां चित्रखण्डमुण्डादिविशेष- स्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । तेनाप्या- कृतिः शब्दार्थ इति निश्चीयते । सामान्यस्य वाच्यत्वसमर्थनम् गामानयेति चोदितेऽर्थप्रकरणाभावे यां कांचित्सामान्ययुक्तां व्यक्तिमानयति, न सर्वाम्, न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वम्, ततः सर्वासां युगपदभिहि- तत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत, यतस्त्वविशेषेण जाति- मात्रयुक्ताऽऽनीयते । तेनापि सामान्यस्य पदार्थत्वं विज्ञायते । व्यक्तेर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम् व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन्, व्यक्तिविशिष्टो वा समु- दायः, काचिद्ध्येका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचक- शक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसम्बन्धापत्तेरशेषव्यक्तिग्रहणशक्तेश्च सम्बन्धा- ग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद् बहुविषयत्वादेक- १. क. तदेतदपि ।