मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 739, कुल 804 में से
संदर्भ में पढ़ें· ३३ ] प्रथमाध्याये तृतीयपादः ६८५ वचनद्विवचनश्रुत्यसम्भवाद् गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः शुक्ल इति सामानाधिकरण्यासम्भवात् । 'पशुना यजेत' इति च पशुशब्दोपात्ताभिः सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदप्रामाण्यप्रसक्तिः । समुदायस्य वाच्यत्वनिरासः एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभि- धातव्याः ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च व्यवहाराभावादभिधानानानर्थक्यम्, समुदायिविनाशे च तस्याप्यनित्यत्वादनित्य- शब्दार्थसम्बन्धप्रसङ्गः । समुदायस्य चैकत्वाद् द्विवचनबहुवचनानुपपत्तिः सामाना- धिकरण्यासम्भवश्च चामूर्तेन यागाद्यसम्भवाद् वेदस्याप्रामाण्यम् । अथैका व्यक्तिरभिधीयत इत्युच्यते ? तत्रापि सम्बन्ध्यानित्यत्वम् । काऽसाव- भिधीयत इत्यज्ञानाद्व्यवहाराणामसम्भवः । सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहु- वचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासम्भवः । समाने च गोत्वे प्रतीतौ चेयमभिधीयते, नेयमिति विशेषकारणं नास्ति । एतावता वार्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः समर्थितः अपरभाष्यव्याख्यायाम् अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेत्, व्यक्त्यन्तरे प्रयोगो न स्यात् अभिधेयव्यक्तेस्तत्राभावादत्यन्तविलक्षणत्वाच्च । सामान्यविशेषविनि- र्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति, येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता, तथा द्वितीया, यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिः एवमविशेषा- दितरत्रापि भविष्यति । यदि सामान्यरूपम्, विशेषरूपं वा व्यक्त्यन्तरं स्यात् ततो विलक्षणत्वाच्छब्दो न प्रवर्तेत. यदा तु तदप्युभयविनिर्मुक्तं रूपम्, तदा तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वा- देकत्रैतरत्र च शब्दो वर्तते; हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं भवतः प्रद्वेष इति । पूर्वपक्षवाद्याह नेवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्तौ शब्दो वर्तते व्यक्त्यन्तरे वेति, किन्तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्व्यक्तिः कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते । यो ह्यर्थः सामान्यस्य