भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

५८४ मीमांसादर्शनम् [ सू० स्यात् । सत्यां च गतौ प्रतिषिद्धाऽनेकश्येनव्यक्तिहिंसा जायते, तेन करणत्वानु- पपत्तेः श्येनमिव चितमग्निं चिन्वीतेति वाक्यार्थः । अतश्चोक्तेन न्यायेनाऽस्य वाक्यस्याऽऽकृतिपक्षे संभवादाकृतिः पदार्थ इति । नैतदेवम् । न हि चयनक्रियासंभवमात्रेणाऽऽकृतेरभिधेयत्वं लभ्यते, व्यक्तिप- क्षेऽप्युपलम्भनादिक्रियासंभवात् । बहुत्वाच्चालम्भनादिवाक्यानां तदन्यथानुपपत्त्या व्यक्तेरेव पदार्थत्वमवसीयते । अथाकृतिपक्षेऽपि व्यक्तिलक्षणया तान्युपपत्स्यन्त इत्युच्यते, तदैतदपि¹ शक्यमेव वक्तुं श्येनवाक्ये व्यक्तिराकृतिलक्षणार्थेति । युक्ता चैकत्र लक्षणा, नेतरेषु बहुषु । अगत्या वा तृतीयासमासाश्रयणं श्येनवाक्ये करिष्यते । संख्याकारकाद्युपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते अभिधीयते जातिरभिधेयेति । कुतः—पूर्वं सामान्यविज्ञानाच्चित्रबुद्धेरनुद्भवात् । गामानयेतिवाक्याच्च यथारुचिपरिग्रहात् ॥ १०८२ गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदाकार- ज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते अतश्चाऽऽकृतिप्रत्ययस्य निमित्तान्तरा- भावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वादाकृतिः शब्दार्थ इति विज्ञायते । यदि च व्यक्तयोऽभिधेया भवेयुः ततः तासां चित्रखण्डमुण्डादिविशेष- स्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् । एकाकारा तूत्पद्यते । तेनाप्या- कृतिः शब्दार्थ इति निश्चीयते । सामान्यस्य वाच्यत्वसमर्थनम् गामानयेति चोदितेऽर्थप्रकरणाभावे यां कांचित्सामान्ययुक्तां व्यक्तिमानयति, न सर्वाम्, न विशिष्टाम् । यदि च व्यक्तेरभिधेयत्वम्, ततः सर्वासां युगपदभिहि- तत्वादशेषानयनं स्यात् । या वाऽभिधेया सैवैकाऽऽनीयेत, यतस्त्वविशेषेण जाति- मात्रयुक्ताऽऽनीयते । तेनापि सामान्यस्य पदार्थत्वं विज्ञायते । व्यक्तेर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम् व्यक्तिपक्षे च सर्वा वा स्वतन्त्रा व्यक्तयोऽभिधीयेरन्, व्यक्तिविशिष्टो वा समु- दायः, काचिद्ध्येका व्यक्तिरिति । तत्र सर्वव्यक्त्यभिधानं तावदयुक्तम् । अनेकवाचक- शक्तिकल्पनाप्रसङ्गादनित्यशब्दार्थसम्बन्धापत्तेरशेषव्यक्तिग्रहणशक्तेश्च सम्बन्धा- ग्रहणे सति व्यवहारानुपपत्तेः । नित्यवद् गोशब्दस्याष्टशब्दवद् बहुविषयत्वादेक- १. क. तदेतदपि ।

· ३३ ] प्रथमाध्याये तृतीयपादः ६८५ वचनद्विवचनश्रुत्यसम्भवाद् गोशब्दाभिहितासु च सर्वव्यक्तिषु शुक्लगुणाभावे गौः शुक्ल इति सामानाधिकरण्यासम्भवात् । 'पशुना यजेत' इति च पशुशब्दोपात्ताभिः सर्वव्यक्तिभिर्यागस्य कर्तुमशक्यत्वात्ततश्च वेदप्रामाण्यप्रसक्तिः । समुदायस्य वाच्यत्वनिरासः एवं समुदायपक्षोऽपि न संभवति । तत्रापि हि विशेषणत्वेन व्यक्तयोऽभि- धातव्याः ततश्चोक्तदोषप्रसङ्गः । व्यक्तिव्यतिरिक्तसमुदायकल्पना, तेन च व्यवहाराभावादभिधानानानर्थक्यम्, समुदायिविनाशे च तस्याप्यनित्यत्वादनित्य- शब्दार्थसम्बन्धप्रसङ्गः । समुदायस्य चैकत्वाद् द्विवचनबहुवचनानुपपत्तिः सामाना- धिकरण्यासम्भवश्च चामूर्तेन यागाद्यसम्भवाद् वेदस्याप्रामाण्यम् । अथैका व्यक्तिरभिधीयत इत्युच्यते ? तत्रापि सम्बन्ध्यानित्यत्वम् । काऽसाव- भिधीयत इत्यज्ञानाद्व्यवहाराणामसम्भवः । सामान्यप्रत्ययानुपपत्तिर्द्विवचनबहु- वचनाभावप्रसङ्गः । प्राक् चाभिधेयव्यक्त्युत्पत्तेरुत्तरकालं च प्रयोगासम्भवः । समाने च गोत्वे प्रतीतौ चेयमभिधीयते, नेयमिति विशेषकारणं नास्ति । एतावता वार्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः समर्थितः अपरभाष्यव्याख्यायाम् अतः परं भाष्यार्थः । यदि चैका व्यक्तिरभिधेया भवेत्, व्यक्त्यन्तरे प्रयोगो न स्यात् अभिधेयव्यक्तेस्तत्राभावादत्यन्तविलक्षणत्वाच्च । सामान्यविशेषविनि- र्मुक्ता हि व्यक्तिरित्युच्यते । न च सामान्यविशेषौ मुक्त्वा व्यक्त्यन्तरेऽन्यदस्ति, येन शब्दप्रयोगः स्यात् । ननु च यथैवैका सामान्यविशेषविनिर्मुक्ता, तथा द्वितीया, यतश्च यथैवैकस्यां सामान्यविशेषविनिर्मुक्तायां शब्दस्य प्रवृत्तिः एवमविशेषा- दितरत्रापि भविष्यति । यदि सामान्यरूपम्, विशेषरूपं वा व्यक्त्यन्तरं स्यात् ततो विलक्षणत्वाच्छब्दो न प्रवर्तेत. यदा तु तदप्युभयविनिर्मुक्तं रूपम्, तदा तुल्यरूपत्वादयुक्ता शब्दस्य प्रवृत्तिरिति । यद्येवं सामान्यविशेषविनिर्मुक्तत्वा- देकत्रैतरत्र च शब्दो वर्तते; हन्त तर्हि सामान्यविशेषविनिर्मुक्तत्वमेव सामान्यं शब्दस्याभिधेयं स्यादिति सिद्धो नः पक्षः । तस्याऽऽकृतिशब्दवाच्यत्वे केवलं भवतः प्रद्वेष इति । पूर्वपक्षवाद्याह नेवं मयोच्यते सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्तौ शब्दो वर्तते व्यक्त्यन्तरे वेति, किन्तु सामान्यविशेषव्यतिरेकेणान्यापोहवद्व्यक्तिः कथ्यते । तत्र कथं सामान्यमेव तर्हि वाच्यमित्युच्यते । यो ह्यर्थः सामान्यस्य

६८६ मीमांसादर्शनम् [ सू० विशेषाणां चाऽऽश्रयः, सा व्यक्तिः न सामान्यविशेषौ ततश्च यथैकस्यां सामान्य- विशेषव्यतिरिक्तायां व्यक्तौ शब्दस्य वृत्तिः तथाऽन्यस्यापि भविष्यति । सिद्धान्तवाद्याह—यदि तावत्सामान्यविशेषविनिर्मुक्तत्वाच्छब्दो वर्तते, ततः सामान्यमेव वाच्यम् । अथ समानं निमित्तं नास्ति, तदा व्यक्त्यन्तरे वृत्तिर्न प्राप्नोति , तदभावेऽपि चेद्वर्तेत, ततोऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः स्यादिति । नैवम् । सामान्यनिरपेक्षायामेव शब्दप्रवृत्तौ प्रयोगकृतव्यवस्थाश्रयणा- न्न'तिप्रसङ्गो भविष्यति । यद्येवं प्रयोगवशेन शब्दो वर्तेत, ततोऽद्य जातायां गवि न दृष्ट इति शब्दो न प्रवर्तेत । तेन प्रयोगकृता चेद् व्यवस्था, क्वचिदप्रसङ्गः न चेदतिप्रसङ्ग इति । यत्तु भिन्नासु व्यक्तिषु सामान्यप्रत्ययो न प्राप्नोत्ययमपि गौः, अयमपीति तदिहातिप्रसङ्गापादनेन न संबध्यत इति व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीत्यस्मिन्न- वसरे वक्तव्यम् । शक्त्या र्तार्ह व्यवस्था भविष्यति । यत्र शक्तः शब्दः तत्र वर्तिष्यते प्रयोक्ष्यते च, यत्र तु शक्तिर्नास्ति, तत्र प्रयोगप्रवृत्ती न भविष्यतः ततश्च गोव्यक्तिष्वेव शक्तेः प्रयोगव्यवस्था भविष्यति । नैवमपि व्यवस्था लभ्यते । प्राक् प्रयोगाच्छब्दशक्तेरविज्ञानात्प्रयोगप्रतीत्य- धीनं हि शब्दशक्तिज्ञानम् । तत्कथमिवाऽनुत्पन्नं प्रयोगकालेन व्यवस्थाकारण- त्वेनाऽऽश्रयितुं युक्तम् । यद्यपि प्रयोगाच्छक्तिं जानाति, तथाऽपि प्रयोक्त्रा कथं ज्ञातं गोव्यक्तावयं शक्तः शब्दः नाश्वव्यक्ताविति, तेनाश्वव्यक्तावपि प्रयोगः प्राप्नोति । जात्या किमिति व्यवस्था नाऽऽश्रीयते यत्र गोत्वमुपलक्षणम्, तत्र शब्दो वर्तिष्यते, यत्र तन्नास्ति, तत्राश्वव्यक्तादौ वृत्तिर्न भविष्यति ततश्च व्यवस्था- सिद्धिरिति । सत्यमेवं सिध्यति, किं त्वापन्नो भवानस्मत्पक्षमाकृतिर्वाच्येति । न ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते, तच्चेदमभिहितं सिद्धमाकृतिशब्दार्थत्वमिति । पूर्वपक्षवादी तु द्वितीयं पूर्वपक्षमुपन्यस्यति सत्यमाकृतिरभिधीयते, किं तु गुणत्वेन स्थिता, व्यक्तिः प्राधान्येन शब्दार्थः । न चाऽऽवयोरुभयं नाभिधीयत इति प्रतिज्ञा । कस्यचित्प्राधान्येन किंचिदभिधेयतया विवक्षितम्, किंचिद् गुणत्वेन, तदुक्तं व्यक्तिः प्राधान्येनाभिधेयेति । एवं सति प्रयोगव्यवस्थोभय- प्रतीतिश्च तथाऽऽलम्भनादिक्रियोपपत्तिश्च भविष्यति ।

३३ ] प्रथमाध्याये तृतीयपादः ६८७ इतरस्त्वाह---नैवं लभ्यते । जातिश्चेत्पूर्वमभिधेयत्वेनाभ्युपगताऽत्रैव शब्द- स्योपक्षीणशक्तित्वान्न व्यक्तिवचनता लभ्यते । न चाऽऽकृतिसंवेदनेनापि व्यक्ति- प्रतीतेरन्यथाऽप्युपपन्नत्वात्सत्यां गतावनेकार्थता युज्यतेऽभ्युपगन्तुम् । अर्थापत्त्या च शब्दस्य वाचकशक्तिः कल्प्यते । सा च यदा व्यक्तिप्रतीतेरन्यथाऽप्युपपन्नत्वात् क्षीणा, तदा वाचकशक्तिकल्पनायां प्रमाणं नास्ति । न च सामान्यविशेषवचनत्वं शब्दस्य दृष्टम्, अक्षादिशब्दानामनेकसामान्यवचनत्वात् । अन्वयव्यतिरेकाभ्यां च व्यक्तेरशब्दार्थत्वं निश्चीयते । अनुच्चरितेऽपि शब्दे प्रतीतसामान्यस्य व्यक्तिप्रतीतेः श्रुतशब्दस्य चाऽगृही- सामान्यस्य व्यक्तिप्रत्ययाभावात्तेनाऽऽकृतिरेव शब्दार्थ इति । साम्प्रतं पक्षान्तरमुपन्यस्यति अथ व्यक्तिविशिष्टायामाकृतौ किमिति न वर्तते । तदेतत् प्रयोगप्रतीतिक्रियासंभवत्वेन वा पक्षान्तरमुपन्यस्तम् । यद्वा व्यक्तेरेव शब्दार्थत्वं साधयितुमिदमुच्यते । अनेनाभिप्रायेण कदाचित्सिद्धान्तवाद्याकृतेः शब्दार्थत्वमनेनाभ्युपगतमेवाऽऽलम्भनादिक्रियासंभवश्च भविष्यतीत्यनेनाभिप्रायेण व्यक्तेरपि गुणत्वेनाभिधानमिच्छति । ततोऽहं पूर्वं तावद्विशेषणे वर्तितुमर्हंतीति व्यक्तिवचनत्वमेव साधयिष्यामीति । इतरस्तु—तदभिप्रायं ज्ञात्वोत्तरं वदति व्यक्त्यन्तरविशिष्टायां प्रयोगो न प्राप्नोति । यदि हि व्यक्तिविशिष्टा जातिरभिधीयते, ततो व्यक्त्यभिधानपक्षोक्त- दोषप्रसङ्गः, अनेकशक्तिकल्पनादिरूपो व्यक्त्यन्तरे प्रयोगश्च न प्राप्नोति, विशेषणस्यान्यत्वादिति, तेन जातिरेव शब्दार्थः । ननु गुणभूता प्रतीयते, अतश्चान्येन प्रधानेनाभिधेयेन भवितव्यमिति । नैवं शब्देन तावत्सैवाऽभिधीयते । यदि विवक्षावशेनार्थाद् गुणत्वम्, प्राधान्यं वा भवति, भवतु नाम । न तावता शब्दाभिधेयत्वं व्याहन्यते । यदा चासौ शब्देना- भिधीयते, तदा गुणत्वं नैव प्रतीयते । तेनार्थाद् गुणत्वप्रतीतिरदोषः । नन पूर्व- पक्षोक्तैः कारणैर्व्यक्तेरेव शब्दार्थत्वं युक्तम्, व्यक्त्यन्तरे प्रयोगो न प्राप्नोतीति चेत् ? आकृतिचिह्नभूता भविष्यति । यथाऽनभिधीयमानमपि काकनिलयनं देवदत्तगृहशब्दस्य स्वार्थमभिदधतश्चिह्नभूततां प्रतिपद्यते, तद्वदाकृतिश्चिह्नं व्यक्त्यभिधाने भविष्यति । भाष्यकारेण तु दण्डिशब्दो दृष्टान्तत्वेनोपात्तः । यथा तेन न नाम किल दण्डोऽभिधीयते । अथ च दण्डविशिष्टः पुरुषः प्रत्याय्यते, तद्वदाकृतावपीति । ननु दण्डिशब्दे प्रकृत्या दण्डोऽभिधीयत एव । कथमुच्यते न च तावद्दण्डोऽभिधीयत

६८८ मीमांसादर्शनम् [ सू० इति ? कथं चोपलक्षणत्वेनाऽऽकृतावुपन्यस्तायां विशिष्टः प्रत्याय्यत इति विशेषणं दृष्टान्ततयोपन्यस्तमिति ? नायं दोषः । विशेष्याभिधायकप्रत्ययाभिप्रायत्वा- द्दण्डानभिधानस्य, यथा प्रत्ययेन, न च तावद् दण्डोऽभिधीयते । अथ च तद्विशिष्टः पुरुषः प्रत्याय्यत, तथेहापि भविष्यतीत्यभिप्रायः । यत्तूपलक्षणोपन्यासे विशेषणस्य दृष्टान्तता न युक्तेति । तदुपलक्षणस्यापि विशेषकत्वान्न चोद्यम् । यद्वा केनचित्सा- मान्येन दृष्टान्तता भविष्यत्यनभिधेयत्वेन विशेषकत्वेन चेत्यदुष्टम्, ततश्च सम्यग- भिहितं यथा दण्डिशब्दे, तद्वदत्रापि भविष्यतीति । एवं चाप्रसङ्गातिप्रसङ्गौ न भविष्यत इति । तदेतन्न युज्यते । युक्तं देवदत्तगृहस्य, पुरुषस्य च केवलस्याभिधानम्, विशिष्ट- प्रतीतावपि काकनिलयन-दण्डयोः प्रत्यक्षदण्डशब्दावगतयोर्विशेषणत्वोपपत्तेः । न तु गोत्वस्यासंनिहितस्येहोपलक्षणत्वं युज्यते । अप्रतीतविशेषणं विशेष्याप्रतीतेनं च दण्डिशब्दवत्तदवयवेन गोत्वाभिधानं प्रतीमः, येन द्वितीयावयवेन व्यक्तेरेवा- भिधानं स्यात् । अतश्च यदि तावद्गोत्वमभिधीयते, ततस्तदेवोक्तेन न्यायेन वाच्यं भवेत् । अप्रतीतस्य विशेषणत्वासंभवात् । उक्तवदतिप्रसङ्गः शब्दप्रयोगस्य प्राप्नोति । न च यथा दण्डिशब्दः केवले दण्डे न प्रयुज्यत इति विशिष्टवचनोऽव- धायंते, तद्वदाकृतौ प्रयोगाभावाद्विशिष्टवचनोऽवधारयितुं शक्यते । श्येनचित्यादा- वाकृतौ प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां च जातिरेव वाच्येत्यवधार्यते । श्येन- चिद्वाक्ये केवलायामाकृतौ प्रयुक्तत्वात् । क्वचिदपि चाऽऽकृत्या विना व्यक्तिमात्रे प्रयोगादर्शनात् । एवं येऽपि सम्बन्धसमुदायादयः पूर्वपक्षाः । तेऽप्युक्तेन न्यायेन निराकृताः । तेनाऽऽकृतिरेव शब्दार्थ इति ॥ ३३ ॥ न्या० सु०—अन्यदर्शनाच्चेति पूर्वपक्षसूत्रान्तर्गतभाष्यं स्पष्टत्वादुपेक्ष्य, आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रव्याख्यानार्थं वचनमाकृतौ सम्भवतोति भाष्यं दुष्टत्वसामान्येन बुद्धिस्थमपठित्वैव दूषयति—किं चेति । न केवलमेतदेव भाष्यमुपेक्षितव्यं किं त्वन्यदपीति किं च शब्दार्थः यद्वा कस्मै देवाय हविषा विधेमेत्येकशब्दार्थे किमो व्याख्यानात्, एक- शब्दस्य चापो भूयिष्ठा इत्येको अन्नवोदित्यन्यार्थदर्शनादन्यच्च भाष्यमुपेक्षितव्यमित्यर्थं- लाभः । किमित्युपेक्षितव्यमित्यपेक्षायाम् नैवेत्युक्तम् । नैवाकृतिस्तु क्रियार्थत्वादिति वदता सूत्रकृतेष्टकामिश्राकृतिसम्पादनमभ्युपगतम्, येन च यत्र साऽऽकृतौ सम्भवतीत्येवं सूत्रव्याख्या युज्येतेत्यर्थः । किमिति नाभ्युपगतमित्याशङ्कयाह—यत इति । स्वरूपेण जाते- र्नित्यत्वात्स्वव्यक्तिभूतद्रव्यसमवायित्वेन सम्पादनं वाच्यम् । तदपि नित्येष्वात्मादिषु नित्य- सिद्धत्वान्न सम्पादनमपेक्षते । कृतकेष्वप्यारम्भकहेतुस्वभावादेव यदारब्धे द्रव्ये जातिसम-

३३ ] प्रथमाध्याये तृतीयपादः ६८९ वायाच्छ्येनत्वजातीयव्यक्त्यनारम्भिकाभिरिष्टकाभिः श्येनत्वजातिसम्पादनमयुक्तमित्येवंरूप- स्योपालम्भस्य दोषस्येष्टकाभिः श्येनत्वाकृतिसम्पादनाभ्युपगमे प्रसङ्गानेदमभ्युपगत- मित्यर्थः । कस्तर्हि श्येनवचनचोदनार्थ इत्याशङ्कयाह—पिष्टेति । अमी पिष्टपिण्डाः सिंहाः कार्या इत्युक्ते पिष्टपिण्डेन सिंहाकृतिव्यक्त्योः सम्पादनाशक्तेर्यथा पिष्टपिण्डानामेव सिंहा- कृतिसादृश्यसम्पादनं चोदनार्थः तथात्रापीत्यर्थः । प्रयोज्यव्यापारवाचिना सम्पत्तिशब्देन प्रयोजकव्यापारः सम्पादनं लक्ष्यते । नन्वाकृतेर्नित्यत्वे सम्पाद्यत्वाभावात्तद्वाचित्वे श्येन- शब्दस्य सादृश्यपरत्वेन गौणत्वापत्तेस्तत्परिहाराय व्यक्तिपक्ष एवात्राश्रीयते । श्येनव्यक्तेश्च यत्नेनानुत्पाद्यत्वेऽपि श्येनस्त्रीपुंसयोगेनोत्पादयितुं शक्यत्वात्प्रथमश्रुतश्येनशब्दानुरोधेन च पश्चाच्छ्रुतस्य चिनोतेस्तल्लक्षणार्थतया व्याख्यातुं शक्यत्वादित्याशङ्क्य—पक्षद्वयेऽपोत्यु- क्तम् । श्येनस्त्रीपुंसयोगेनोत्पादिताया अपि श्येनव्यक्तेरग्न्यनाधारत्वायोगानाग्न्याधारानु- पपत्तेः । 'कर्मण्यन्वाख्यायामिति स्मृतिबाधप्रसङ्गाददृष्टार्थत्वापत्तेश्च तत्परिहाराय गौणत्वा- श्रयणमप्युचितमित्याशयः । नन्वेवं सति व्यक्तिसादृश्यस्यापि सम्पादयितुं शक्यत्वात्कथ- मस्य श्येनशब्दस्याकृतित्वाचित्वेन निश्चय इत्याशङ्कयाह—सा त्विति । सा सादृश्यसम्पत्तिः श्येनाकृत्यास्या आकृत्यन्तरमात्रविलक्षणत्वात्, तस्य च कतिपयविशेषोपादानेन सम्पाद- यितुं शक्यत्वात् सकलव्यक्त्यन्तरविलक्षणेन श्येनविशेषेण व्यक्तिशब्दाभिलप्येन सादृश्य- सम्पादनं सकलविशेषोपादानेन स्यान्न चेष्टकाभिरन्ततःकुशलेनापि सम्पादयितुं शक्यमिति भावः । अथ सामान्यविशेषाश्रयभूतमसाधारणं व्यक्तिशब्देनाभिप्रेतम्, ततस्त्वस्यैवंविधमिति निरूपणरूपविकल्पगोचरत्वाभावाज्ञानेन सह विकल्पगोचरस्य सादृश्यसम्पादनं कथञ्चिच्छ- क्यमित्यर्थः । ननु यद्यपि सामान्यविशेषाश्रयस्य व्यक्त्याख्यस्यासाधारणस्य रूपेणैवंविध- मिति विकल्पगोचरत्वात्सा दृश्यप्रतियोगित्वं न सम्भवतीति विशेषावच्छिन्नेन च तेन सादृश्यमिष्टकाभिरशक्यसम्पादं सामान्यावच्छिन्नेन च सादृश्यमुच्यमानं विशेषणे पूर्वनिपा- तात्सामान्येनेवोक्तं स्यात् तथापि सामान्यविशेषाभ्यामन्यदित्येवंरूपविकल्पगोचरत्वोपपत्तेर- साधारणशब्दाभिलप्यया व्यक्त्या सह सादृश्यं सम्पादयिष्यत इत्याशङ्कयानिर्धारितविशेषया यया कयाविद्वयक्त्या सादृश्यं (विधीयेत निर्धारितविशेषया वा यया कयाचिदिति विकल्प्याद्यपक्षे तावद् दूषणमाह--सामान्येति । सामान्यविशेषावच्छेदकत्वेन यज्ञापेक्षते सादृश्यं१) तत्तयोक्तम् । तच्च व्यक्तिमात्रेऽपि नित्यप्राप्तं सर्वस्य येन केनचित्सा दृश्यावश्यं भावादित्यर्थः । श्येनव्यक्त्या यया कयाचिदपि तु विशेषणे श्येनत्वाकृतिव्यतिरिक्तस्य १. अयं पा० २ पु० ना० । ४४

६९० मीमांसादर्शनम् [ सू० श्येनव्यक्तिमात्रस्याभावाच्छ्येनत्वाकृतिसादृश्यमेवोत्पद्यते इति भावः । द्वितीयपक्षे तु यद्व्यक्तिसादृश्यं विहितम्, तद्धि शिष्टैस्तत्साहश्यस्याशक्यसम्पाद्यत्वाद्व्यक्त्यन्तरसादृश्यस्य चाविहितत्वात्सर्वपुरुषविषयत्वं शास्त्रस्य व्याहन्येतेत्याह — एकेति । सूत्रार्थमुपसंहरति — तस्मादिति । ननु चेति भाष्येण श्येनव्यक्तेश्चयनोत्पाद्यत्वायोगेऽपि चयनोत्पादकत्वेन विधिः सम्भ- वति, एकव्यक्त्यनुत्पाद्यत्वेऽपि चयनस्य बह्वीभिरुत्पादयितुं शक्यत्वादित्याशङ्क्य न साध- कतम इत्यनेन श्येनशब्दार्थस्येप्सिततत्वावगतेः साधनत्वेन विधानं सम्भवतीत्युक्तम् । तदुपपादयति — न हीति । यद्यप्ययं कर्मशब्दः क्तिन्प्रत्ययवाच्यविशेषणत्वान्नौपपदविशे- षणम्, तथापि कर्मणि हन इत्यतः सूत्रादनुवर्त्तमानस्य कर्मशब्दस्योपपदविशेषणत्वान्न शब्दार्थस्य कर्मतावसीयत इत्याशयः । अतश्चयनेनेति विध्यर्थप्रतिपादकं भाष्यं व्याचष्टे — श्येनेमिति । ननु श्येनाकृतिव्यक्त्योश्चयनेनोत्पादयितुमशक्यत्वात्कथमेष विध्यर्थः स्यादित्या- शङ्क्योक्तमेव सादृश्यलक्षणार्थत्वं भाष्यकाराभिप्रेतत्वप्रदर्शनार्थं पुनराह — तत्रापीति । श्येनसदृशं चीयमानमिष्टकासमूहं चयनेन भावयेदिति विध्यर्थोऽनेन दर्शितः । चयनमाकृतौ सम्भवतीत्याद्यस्यापि भाष्यस्य सादृश्यविषयत्वेन समर्थनोरपत्तेर्यथाश्रुतस्यैव पूर्वोक्तं दूषणं दर्शितम् । उभयत्रेत्यादिना क्रियार्थत्वस्योभयत्र साम्येनानिश्चायकत्वमाशङ्क्य, किं पुनरत्रेत्यनेन पूर्वपक्षहेतोरनिश्चायकत्वापादनायैवाकृतेः क्रियार्थत्वमुक्तम्, नाकृतिवाच्यत्व- निश्चयायेति सूचितम् । तत्स्पष्टत्वादव्याख्याय कथं तह्यीकृतिवाच्यत्वनिश्चय इत्यपेक्षाया- माकृतिस्त्विति तुशब्दसूचितोपपत्तिप्रदर्शनार्थमाकृतिरित्यादिभाष्यमाकृतिवाच्यत्वं प्रतिज्ञाय व्यक्तिवाच्यत्वपारिशेष्यादनिराकरणाद् युक्तमाशङ्क्य संक्षेपेण व्याचष्टे — असाधारण इति । व्यक्त्याकृत्योर्मध्ये का वाच्येति विचारणायां व्यक्तिवाच्यत्वे निराकृते पारिशेष्यादाकृति- वाच्यत्वं निश्चीयत इति भावः । ग्रन्थस्त्वेवं योज्यः असाधारणे व्यक्त्त्याख्ये यदा शब्दप्रवृत्तिर्न सम्भवति, तदा पारि- शेष्यादाकृतिः शब्दार्थ इति परिग्रह इति पूर्वग्रन्थगतं परिग्रहपदमनुवक्तव्यं शब्दार्थपदं चाध्याहार्यं कथं व्यक्तौ शब्दस्य प्रवृत्त्यसम्भव इत्याशङ्कानिराकरणार्थत्वेन यदिद्भिभाष्यं व्याख्यातुमसाधारणे वाच्येऽङ्गीक्रियमाणे शब्दस्य प्रभृतेष्वनेकेष्वर्थेषु वृत्त्यसम्भवादित्येत- देवावृत्त्या योज्यम् । असाधारणत्वाच्च व्यक्तेरेकस्यामपि शब्दप्रवृत्तिर्न सम्भवतीति भाष्यसूचितार्थप्रदर्शनायासाधारणशब्दः । सर्वसामान्यविशेषैर्मुक्ता हीत्यनेनैकापि व्यक्तिर्न शब्दार्थ इत्युक्तमिति व्याख्यानार्थत्वेन चैतद्योज्यम् । किंचिद्धि सामान्यरूपं किंचिद्धि विशेषरूपं वावलम्ब्य शब्देन प्रवर्त्तितव्यं तद्वियुक्ते रूपं कथं प्रवर्त्तेतेत्याशयः । ननु सामान्यविशेषरूपशब्दप्रवृत्तिनिमित्ताभावेऽपि तदुभयरूपरहितत्वमेव निमित्तं भविष्यति । न च तदेव सामान्यम् वस्तुरूपत्वादिति 'नैष दोष इत्यादिना न हि तत्सामान्यमित्यन्तेन

३३ ] प्रथमाध्याये तृतीयपादः ६९१ भाष्येणाशङ्क्य सामान्यविशेषरपरहितत्वस्य तदाश्रयाव्यपदेश्यत्वापरपर्यायस्याश्वादिव्यक्ति- ष्वापि भावाद् गोशब्दप्रवृत्तिः प्रसज्येतेति प्रतिपादनाथं यदीति भाष्यं व्याख्यातुम्— अव्यपदेश्यत्वेन चेत्युक्तम् । ननु सामान्यविशेषविमुक्तत्वाविशेषेऽप्युगादिशब्दवत्प्रयोगतो व्यवस्था भविष्यतीत्याहेतिभाष्येणाशङ्क्य तथा सत्यद्यजातायाङ्गव्यदृष्टप्रयोगत्वात्प्रथमः प्रयोगो न स्यादिति यदीत्यनेन दूषणमुक्त्वा कथंचित्प्रयोगसम्भवेऽपि व्यवहारकालीनस्य प्रयोगस्य निर्द्धारितैकव्यक्तिविषयत्वेनानेकव्यक्तिसाधारण्याभावाद् गौर्न पदा स्पृष्टव्येत्यादौ शाबलेया बाहुलेया वेति विकल्पबुद्धिः स्यान्न गोमात्रमिति सामान्यबुद्धिरित्येतदर्थंप्रतिपादकं सामान्यप्रत्ययश्चेति भाष्यं व्याख्यातुम्—सामान्याकारेण वेत्युक्तम् । गौर्न पदा स्पृष्ट- व्येत्यादौ यत्र सामान्याकारेण व्यक्तिविशेषमनाश्रित्य शब्दः प्रयुज्यते, तत्र विकल्पः प्रसज्ये- तेत्यर्थः । ननु व्यक्तिवाचिनोऽपि शब्दादभिधेयाविनाभावेन सामान्यप्रत्ययोपपत्तिरित्या- शङ्क्य—व्यापकेत्युक्तम् । गोत्वैकार्थसमवायिनां शावलेयत्वाद्यवान्तरसामान्यरूपाणां विशे- षाणां गोत्वव्याप्यत्वाच्चव्यापकगोत्वापेक्षामात्रेणेतरत्र तदाश्रयभूतमसाधारणं व्यक्तिशब्दा- भिलप्यं नैव गोत्वापेक्षं भवति । इतरेति पाठे त्वसाधारणशब्देनोक्तत्वात् व्यक्तिः परामृश्यते । ननु विशेषाणां गोत्वापेक्षत्वे तदाश्रयस्यासाधारणस्याप्यव्यभिचाराद् गोत्वा- पेक्षाबलादापद्येतेत्याशङ्क्य व्याप्यस्य धूमत्वसामान्यस्य व्यापकत्वाग्न्यपेक्षत्वेऽपि तदाश्रयस्या- साधारणस्याग्न्यपेक्षा नास्ति । वाक्यादिभावेन सन्दिग्धे धूमे असाधारणनिश्चयेऽप्यनिश्चया- दिति प्रतिपादयितुम् व्याप्यसामान्यस्य नैवं विशेषव्याप्यापेक्षेत्युक्तम् । नन्वसाधारण- रूपेण व्यक्तेः शब्दार्थत्वासम्भवेऽपि शावलेयत्वाद्यवान्तरसामान्यात्मकविशेषावच्छिन्नत्व- रूपेण शब्दार्थत्वोपत्तेः कथं पारिशेष्यादाकृतेः शब्दार्थत्वावधारणेत्याशङ्कयाह - तत्रेति । तत्रैवं साधारणरूपेण शब्दप्रवृत्त्यसम्भवे सति विशेषावच्छिन्नत्वरूपेण व्यक्तेरभिधेयं वाच्यम्, तस्मिंश्च पक्षे सम्बन्धकथनासम्भवादयो दोषाः स्युरित्यर्थः । वाच्यवाचकनियमहानिः, सम्बन्धानित्यत्वापत्तिः विकल्पप्रसङ्गः, शेषव्यक्त्यानयनापत्तिः । नित्यबहुवचनप्रसङ्ग- शुक्लादिशब्दसामानाधिकरण्यासम्भवश्चादिशब्देनोपात्ताः । एते च व्यक्त्यभिधानपक्षे, सर्वव्यक्त्यभिधानपक्षे च यथासम्भवं योज्याः । अनिश्चीयमानत्वादपि न विशेषाणां वाच्यतेत्याह—न चेति । नन्वेवमपि विकल्पसमुच्चयाद्यनेकपक्षसम्भवान्नाकृतेः परिशेषसिद्धिरित्याशङ्क्य स्वतन्त्रयोर्विशेषणविशेष्यभावरहितयोस्तावद्व्यक्त्याकृत्योर्विकल्पेन, समुच्चयेन वाभिधान- निरासेनैव निरस्तमित्याह एतेनेति । व्यक्तिविशिष्टाकृतिपक्षोऽपि व्यक्तेर्विशेषणत्वेन पूर्वाभिधानापत्तेस्तन्निरासेनैव निरस्त इत्याह—व्यक्तीति । एतेन प्रयुक्त इत्यनुषङ्गः । आकृतिरिति पाठे प्रयुक्तेति विपरिणतानुषङ्गः सम्बन्धसमुदायाभिधानपक्षैन्निराकर्तुमाह— सम्बन्धेति । सम्बन्धसमुदायोरपि वाच्यत्वाभ्युपगमेऽवश्यवाच्यभूतसम्बन्धिसमुदायिविशे- षणताऽभ्युपगन्तव्या भवतीत्यन्वयः । कस्मादित्यपेक्षिते—स्वरूपेत्युक्तम् । सम्बन्धोऽयम्, समुदायोऽयमिति स्वतन्त्ररूपेणाप्रतीते। सम्बन्धिसमुदायिनिरपेक्षस्य सम्बन्धसमुदायिनिरूपण-

६९२ मीमांसादर्शनम् [ सू० स्यादावविभागेन सर्वशब्दानां पर्यायत्वापत्तेरित्यर्थः । तथा सति को दोष इत्यपेक्षाया- माह—तत्रापीति । व्यक्त्यंशे च व्यक्त्यभिधानपक्षोक्ताः सर्वे दोषाः स्युरित्याह— व्यक्त्यंशे चेति । समुदायस्य यस्य स्पृष्टंमानैककार्यपरार्थविषयत्वात्साक्षात् क्रियानिष्पत्तिः क्रियासाधनविशेषाणात्मकभिन्नकार्ययोर्विशेषणत्वेन विशेष्यत्वेन वा स्पृष्टंमानयोर्व्यक्त्या- कृत्योर्न्नास्त्येवेत्याह—न चेति । जातिव्यक्त्योश्चात्यन्तभेदाभावादुभावपि न स्त इत्याह— अनन्त्यन्तेति । आकृतिविशिष्टव्यक्तिपक्षेऽपि व्यक्तिविशिष्टो वा, आकृतिविशिष्टो वा व्यक्ति- मात्रं वा विकल्प्य आद्यपक्षं तावद् दूषयति—आकृतीति । द्वितीयपक्षे त्वाकृतिव्यतिरिक्त- तद्विशिष्टव्यक्तिमात्राव्यक्त्यभावात्सिद्धान्तापत्तिरिति स्वयमेवाशङ्क्याह—व्यक्त्यैौति । एव- माकृतिव्यतिरिक्तायास्सपक्ष्या निरस्तत्वात् । तन्निरासेनेव च व्यतिकीर्णपक्षनिराससिद्धे- र्लिङ्गकारकसंख्यानां च प्रत्ययार्थत्वेन प्रातिपदिकवाच्यत्वासिद्धेः शब्दस्वरूपस्य च प्रत्यक्ष- सिद्धत्वेनाऽवाच्यत्वस्य । नात्मानमभिधत्ते हि शब्दः कश्चित्कदाचनेति शून्यवाद्रवार्त्तिकपाठनिरस्तत्वात्पारि- शेष्यादाकृतिवाच्यत्वसिद्धिरित्युक्तम्---इदानीम् । 'तत्र प्रयोगबाहुल्यात्द्विशेषेषु सत्स्वपि । प्रयोगात्परसामान्ये सति वाऽप्यप्रयोगतः ॥ सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकः । गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् ॥' इत्यनेन न्यायेनान्वयव्यतिरेकाभ्यामपि गोत्वस्यैव गोशब्दवाच्यताऽवसीयत इत्याह— नानेति । गोत्वाकारविषयं व गोशब्दस्य वाच्येन सह सम्बन्धे वाचकत्वरूपे शक्तिरन्वय- व्यतिरेकाभ्यां गम्यत इत्यर्थः । कृत्तद्धितसमासैः सम्बन्धाभिधानं भावप्रत्ययेनेति स्मृतेः । सम्बन्धवाची वाच्यत्वशब्दः । शब्दशक्तिजन्यज्ञानकर्मत्वमेव वा शक्तिशब्देनाभिप्रेत्य, गोत्वाकाराश्रितैव गोशब्दं प्रति वाच्यत्वरूपा शक्तिरिति योज्यम् । ननु वृद्धव्यवहारावसेयत्वाच्छक्तेः, तस्य च सन् द्विष्टवस्तुविषयत्वात् कथं निष्कृष्टैका- कारविधया शक्तिरवसीयत इत्याशङ्क्य तद्भूदेत्युक्तम् । सर्वात्मकवस्तुविषयत्वे शब्दशक्ते- रेकेनैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यप्रसङ्गात् तद्भेदा- द्वस्तुगतान् भिन्नाकारांश्छन्दशक्तयोऽनुसरन्तीत्यर्थः । भिद्यन्त इति भेदा इति व्युत्पत्त्या वस्तुगता भेदा इति विग्रहीतव्यं वस्तुगतभिन्नाकारानुसार्यभावेनैकशब्दव्यक्त्यानर्थक्य- प्रसङ्गाद् बहुवचनेन सूचितः । निरंशवस्तुवादिंन निराकर्तु -नानाकारेष्वित्युक्तम् । नानेकाकारेष्विति पाठे व्यावृत्तानुवृत्ताकारेष्वित्यर्थः । ननु गोमात्रविषयत्वे गोशब्दशक्तेः कथं गोशब्दात्पशुत्व-प्राणित्व-पार्थिवत्व-द्रव्यत्व- सत्त्वावगतिः । एकार्थसमवायमात्रेण तन्निश्चयाभ्युपगमे शावलेयत्वादीनामपि निश्चयः

३३ ] प्रथमाध्याये तृतीयपाद। ६९३ स्यादित्याशङ्कयाह—तदेकेति । सामान्यान्तरादवगतिर्निश्चयस्तैः सामान्यान्तरैर्गोशब्दार्थस्य गोत्वस्य व्याप्तेर्विशेषैश्च साहचर्यं सत्यप्यव्याप्तेस्तेषां सन्देहनिवृत्तयेऽन्यतोऽवधारणा- काङ्क्षेत्यर्थः । एवं सिद्धान्तमुपपाद्य, पूर्वोक्तान् दोषान्परिहर्तुमाह—अत्यन्तेति । आदिशब्दादनित्य- त्वम् । ननु वस्तुतोऽत्यन्तव्यतिरेकाभावेऽपि शब्दान्निकृष्टावगतेः कथं दोषप्रसङ्गाभावोऽत आह—सा हीति । कैवल्याभिप्रायो निकृष्टशब्दो न स्वनिष्ठत्वाभिप्रायः । यद्यप्याकृतिः शब्दाच्छुद्धा प्रतीयते, तथापि क्रियान्वयस्यापि प्रतीतेस्तदन्यथानुपपत्त्या व्यक्तितादात्म्या- वगमात्सम्भवत्येव क्रियान्वय इत्यर्थः । प्रोक्षणादि तु व्यतिरेकेऽपि सम्भवतीत्याह— प्रोक्षणेति । क्षरणार्थसिञ्चतिधात्वर्थवाचित्वादुक्षतेः क्षारणस्य चोदकादेरूर्ध्वाधोदेशविभाग- संयोगमात्रेण सिद्धेराभिमुख्यमात्रेण क्षरणसिद्धेराभिमुख्यमात्रेण च जातेरपि द्रव्यवतत्कर्म- त्वोपपत्तेः । सिच्यमानस्योदकादेः कर्मीभूतव्रीह्यादिसंयोगानपेक्षणादुञ्जीकृतेषु च व्रीह्य्- परिस्थितब्रीहितिरोहितानामधःस्थितानां व्रीहीणां सिच्यमानोदकसंयोगाभावेऽपि शास्त्रार्थ- निष्पत्तिप्रसिद्धेः व्रीह्यादिसंयोगापेक्षायामनुपपत्तेः प्रोक्षणमाकृतेः स्वतोऽपि सम्भवति । अवेक्षणं चाकृतेश्चक्षुःसंयुक्तद्रव्यसमवायात्प्रसिद्धमेव । आदिशब्देन ध्यानोपादानम् । किमर्थं तर्ह्यत्यन्तव्यतिरेकोपन्यास इत्याशङ्कयाह—विशसनेति । प्रतीतिसिद्धत्वाद्राकृतेर्विशसनादि- योगो न स्वमनीषिकामान्रकल्पित इत्याह--तथा हीति । पश्चादिष्वपनीताङ्गेषु विच्छिन्ना- वयवेषु या विशसनादिविशिष्टा बुद्धिः सामान्यविषयैव विभक्तैरवयवैः सामान्यमात्रानुमा- नोपपत्तेः । न तु व्यक्तिविषया व्यक्तिविशेषानुमानासम्भवे तत्तद्बुद्ध्यभावादित्यर्थः । नन्वाकृतेर्विशसनादियोगे सत्यत्वप्रसङ्गादनिष्टापत्तिः स्यादित्याशङ्कते—नन्विति । विनष्टव्यक्त्यात्मकरूपेणाकृतेरपि विनाशाभ्युपगमान्नानिष्टापत्तिरिति परिहरति—तेनेति । नन्वेवं सत्याकृतिपक्षेऽपि सम्बन्ध्नित्यत्वं न सिद्ध्येदित्याशङ्कयाह—आश्रयान्तरेति । अत्यन्तव्यतिरेकवादिनाप्युत्तरालेऽनुपलम्भात् स्वपिण्डमात्राश्रिताकृतिरेष्टव्या । तस्याश्चाश्रय- विनाशे स्थातुमशक्तेरन्यत्र च गमनायोगादवश्याङ्गीकरणापत्तेराश्रयान्तरविनाशादेव नित्यत्वमेष्टव्यमिति—सर्वैरित्यनेनोक्तम् । एतदेव विवृणोति—तेनेति । नन्वत्यन्तव्यति- रेकेऽप्याकृतिलक्षितव्यक्तिद्वारेण प्रयोगचोदनोपपत्तेरित्यन्तक्लिष्टभेदाभेदपक्षाश्रयणमित्या- शङ्कयाह—अत्यन्तेति । अव्यवस्थामुपपादयितुमाह—न चेति । ननु पशुनोपलक्षितं द्रव्यं पशुं विशास्तीत्यादि- धर्म्मविधीनां विषयो भविष्यत्यत आह—तदुपलक्षितं त्विति । द्रव्यरूपताया द्रव्यत्वाप्रति- पादनं विना प्रतिपादयितुं शक्तेस्तदेव प्रतिपाद्यं स्यात् तत्र स स एव दोष इत्यर्थः । ननु द्रव्यत्वप्रतिपादनद्वाराप्याश्रयोपलक्षणोपपत्तेर्नापूर्त्तंत्वदोषापत्तिरित्याशङ्कयाह—आश्रयेति । ननु पशुत्वेन स्वाश्रयोपलक्षणाद्वाक्यलमात्रेण द्रव्यत्ववदाश्रयपक्षदोषात्तत्त्वनिर्णयफलवादेन युक्तमित्याशङ्क्य, पशुत्वाश्रयमात्रोपलक्षणे तस्य पश्वाकृतितोऽन्यत्वेनानिरूपणादाकृतेरेव बलाद्धर्म्मविषयत्वापत्तेराश्रयविशेषस्योपलक्षणं वाच्यम् । तत्त्वव्याप्ते न सम्भवतीत्याह—

विशेषस्त्विति । परानभ्युपगतत्वादनाशङ्क्यत्वाच्च द्रव्यत्वस्येति दृष्टान्ततया व्याख्येयम् । अगम्यः ज्ञातुमशक्य इत्यर्थः । आगमगम्य इति पाठस्त्वव्यापकत्वेन लक्षयितुं शक्यत्वादयदि परमागमगम्यः स्यात् चासावस्तीत्युपहासाथंत्वेन व्याख्येयः । ननु निर्विशेषसामान्यानुपपत्तेः कस्यचिद्विशेषस्यावसायाद्धर्मविधिविषयत्वं भविष्यत्यत आह-न चेति । प्रत्येकरूपेण निर्धारितरूपेणानवगतं विधिना न सम्बध्यत इत्यर्थः । ननु पशुत्वाश्रयो यो विशेष इत्येवं निर्धारणाद्विधिविषयतोपपत्स्यत इत्याशङ्क्याह— न चेति । पशुत्वाश्रयाणामनेकत्वात्सर्वेषां चोपादानानाशक्तेरयं वोपादेयः, अयं वेति सन्देहा- निवृत्तेर्न निर्धारणोपपत्तिरित्यशयः । ननु सामान्यमात्रे पर्यवसितेऽपि शास्त्रेऽनुष्ठानवेलायां विशसनादेस्तत्रासम्भवात्तदाश्रयविशेषे प्रत्यक्षोपनयनेन निर्धारिते अनुष्ठानं भविष्यतीत्या- शङ्क्याह—न चेति । यस्मादन्यत्रोक्तो धर्मस्तत्रासम्भवमात्रेणान्यत्र न कार्यतया शास्त्रेणा- नुज्ञातः तस्मान्न .सामान्ये कृतो विहितो विशेषेषु कत्तुं युक्त इत्यर्थः । किं च प्रत्यक्षैक- समधिगम्यस्यासाधरणस्य शब्दव्यवहाराविषयत्वान्छुक्लादिरूपो विशेषो वाच्यः यस्तस्य चामूत्तंत्वात्पशुत्ववदेव विधिविषयत्वासम्भव इत्याह—विशेष इति । उपसंहरति— तस्मादिति । अत्यन्तव्यतिरेकपशे च गौः शुक्ल इति सामानाधिकरण्यं पशुनेति लिङ्गकारक- संख्यान्वयश्च लक्षणया स्यात् सा च लोके मुख्यत्वप्रसिद्धेरयुक्तेत्याह—सामानाधिकरण्यादि चेति । ननु यदि पशुं विशस्तीत्यादावन्वयसव्यतिरेकपशे धर्मविधि विषयत्वयोग्या व्यक्तिनं प्रतीयते, कथं तर्हि भाष्यकृताऽऽकृतिर्व्यक्त्या नित्यसम्बद्धा सम्बन्धिन्ध्यां च तस्यामवगतायां सम्बन्ध्यन्तरमवगम्यत इति, व्यतिरेकमभ्युपगम्य तदेतदात्मप्रत्यक्षं शब्द उच्चरिते व्यक्तिः प्रतीयत इति वदत आकृतिवाचिशब्दोच्चारणे व्यक्तिप्रतीतिरुक्तेत्याशङ्क्याह—भाष्येति । व्यतिरेकाभ्युपगमेऽनया व्यक्तेर्गतिः प्रतीतिरुक्ता साश्रयत्वमात्रेण, न विशेषरूपेण । न हि विशेषरूपा व्यक्तिः शब्दात्प्रतीयत इत्यर्थः । अभ्युपगमशब्देन परमताभ्युपगममात्रेण व्यति- रेकोऽभिहितः न स्वमताभिप्रायेणेति सूचितम् । ननु व्यतिरेकस्यानभिमतत्वे योऽर्थः सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिरित्याश्रयाश्रयिभावोक्तिनं युज्येतेत्याशङ्कथाह— योऽपीति । नन्वाकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेषेष्यतीति भाष्याद्विशेषलक्षणप्रतीतेः कथमाश्रयमाश्रयमात्रगति सत्तेत्युक्तम । शङ्कयाह—सामान्याच्चेति । सामान्याद्विशेषस्य लक्षणं यद्भाष्यकृतोक्तम्, तन्नाश्रयितव्यम् । आश्रयणमादरशं न कत्तंव्यमिति भावे कृत्यं व्युत्पाद्य व्याख्येयम् । लक्षणानाश्रयितव्येति पाठे साऽनादर्त्तव्या, आक्षेपमात्रस्य भावाद्दि- शेषस्य त्वाक्षेप्यस्य गम्यस्याव्यभिचारिलिङ्गाभावेनाभावादित्यर्थः । यद्वा यच्छब्द उच्चरिते व्यक्तिः प्रतीयत इत्ययं प्रपञ्चो न व्यक्तिप्रतीतिसद्भावविषयः किं तु किं शब्दात्, आकृतेर्वेत्येतद्विचारविषयत्वेन यथा सिद्धव्यक्तिप्रतीत्यनुवादोऽयमित्याह- अथ वेति । प्रसङ्गादादितः सोऽन्वयव्यतिरेकाभ्यामिति भाष्यं व्याचष्टे—अन्वयेति । शब्द- व्यतिरेकेऽप्याकृत्यन्वये व्यक्तिप्रत्ययान्वयप्रतिपादनार्थमन्तरेणापीति भाष्यमुदाहरणनिष्ठतया

३३ ] प्रथमाध्याये तृतीयपादः। ६९५ व्याचष्टे—यो हीति। आकाङ्क्षाशब्देन निर्विशेषसामान्यायोगात् कश्चिदत्र तीक्ष्णमन्दादि- रग्निविशेषः स्यादिति प्रमाणतो विशेषनिर्धारणाकाङ्क्षा भवतीत्येवम्परत्वेनाबुद्ध्यतेवाऽसौ व्यक्तिमिति भाष्यं व्याख्यातम् । शब्दान्वयेऽप्याकृतिव्यतिरेके व्यक्तिप्रत्ययव्यतिरेकप्रतिपाद- नार्थं ‘यस्त्विति’ भाष्यं मनो वै यग्योच्छन्दायंसम्बन्धास्मृती सहकार्यभावाच्छब्दस्यापि व्यतिरेकापत्तेः । स्मृतौ वा मनो वै अग्य्राभावादाकृतेरप्यन्वयापत्तेरयुक्तमाशङ्क्य द्वेधा व्याचष्टे—मानसादिति । निष्कृष्टकृतित्वाचित्वनिश्चयात्सामर्थ्यात्मकजाड्यरूपेणापचारेण सम्बन्धस्मृतावप्याकृत्यप्रतीतिः शीघ्राप्रतीतिर्वा विवक्षितेति भावः । ननु यदि गोशब्दात्स्वतन्त्राकृतिः प्रतीयते ततः केन हेतुना गोशब्दस्य शाबलेयादि- शब्दसामानाधिकरण्यं प्रतीयते, न गोत्वशब्दस्येत्याशङ्कते—केनेति । गोत्वमित्यत्र प्राति- पदिकवाच्याया जातेर्भावप्रत्ययेन व्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्याप्रतीतिः । गोरित्यत्रान्वयव्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्यप्रतीतिरिति विशेषहेतुमाह— व्यतिरेकांशस्येति । ननु भावप्रत्ययेन व्यतिरेकांशस्य विवक्षायां गोतवांश्छावलेय इत्यपि सामानाधिकरण्यं न स्यादित्याशङ्क्याह—गोत्ववानिति । यद्यप्यत्र स्फुटो व्यतिरेको विवक्षितः तथापि प्रकृतिप्रत्ययविभागोपपत्तेर्मतुप् प्रत्ययेन जातिमदभिधानात्तद्वाचिना शावलेयादिशब्दस्य सामाधिकरण्यं युक्तमिति भावः । स्फुटमितिपाठे स्फुटमिति क्रियाविशेषणं स्फुटं निष्कृष्टत्वेन गोत्ववाचिनि गोत्वशब्दे यत्र परतो मतुप्प्रत्ययो भवति, तत्र तेन जातिमदभिधानमित्यर्थः । ननु मतुप्प्रत्ययेनापि व्यक्त्यभिधाने व्यक्त्यभिधानपक्षोक्ताः सम्बन्धानाख्यातादयो दोषाः प्रसज्येरन्नित्याशङ्क्याह— सामान्यस्य वेति । जातिमदभिधाने प्रमेयान्तर्गतत्वेन व्यावर्तकत्वाज्जातेर्विशेषणत्वेऽपि विशिष्टवाचिना प्रत्ययेनानुपादानादुपलक्षणत्वोक्तिः । ननु गौरित्यत्राव्यतिरेकांशविवक्षायां जातिव्यक्त्योरभेदात् व्यक्तैर्वा गोशब्दो वाचको जातेर्वेति चिन्ता न युज्येतेत्याशङ्क्याह— भेदानामिति । अयं विचार्यत्वेन प्रकृतो गोशब्दः पक्षद्वये भेदानां व्यक्तीनामेव वाचकः । सामानाधिकरण्याद्यन्यथानुपपत्तेरिष्यते । स्वरूपेण व्यक्तिर्वाच्या नान्यात्मना वेत्येतावत्तु विचारार्थः । व्यक्तिवाचित्वेऽपि व्यक्त्यन्तरे प्रयोगोपपादनार्थम्—सर्वेषामित्युक्तम् । नन्वेवं सत्यानन्त्यात्सम्बन्धग्रहणानुपपत्तिरित्याशङ्क्य—प्रत्येकमित्युक्तम् । समुदितानां वाच्यत्वे सम्बन्धग्रहणासम्भवः स्यात् नान्योन्यनिरपेक्षाणां वाच्यत्वे जात्यात्मना चैकेन नित्येन रूपेण वाच्यत्वान्न शक्त्यानन्त्याद्यापत्तिरिति भावः । ननु गोशब्दोच्चारणे व्यक्ति- विशेषानिर्धारणाच्च व्यक्तेर्वाच्यत्वं युक्तमित्याशङ्क्याह- यस्त्विति । व्रीहीन्प्रोक्षतीत्यादा- वुद्दिश्यमानेषु व्रीह्यादिषु प्रकृतापूर्वसाधनव्यक्तिविशेषनिर्णयान्न सन्देहाशङ्का व्रीहिभिर्य- जेतेत्यादावुपादीयमानत्वेऽप्यन्यजातीयव्यक्तिभ्यो व्रीहिजातीयानां व्यावृत्तिप्रतीतेर्व्रीहि- जातीयैव व्यक्तिरित्यस्त्येव निर्णयः । सर्वासां तूपादानायोगात्कियतीनामुपादेयतेति संख्या- श्रयमात्ररूपसन्देहः न व्यक्तिरूप इत्यर्थः । अधिकरणोपक्रमे जातिशब्दा एवाऽत्र विद्यन्त इति यदुक्तम् तत्परमतेनेति द्योतयितुं तस्माद् गौरश्व इत्येवमादय इत्युपसंहारभाष्यं स्वमतेन नामाख्यातरूपद्विविधपदविषयत्वेन

६१६ मीमांसादर्शनम् [ सू० व्याचष्टे—गवादीति । गुणक्रियाशब्दोपसंग्रहार्थः सर्वशब्दः विचारप्रयोजनमाह—प्रयोजन- मिति । पूर्वपक्षविशेषणसामर्थ्यात् सिद्धान्ते बाध इत्युक्तं भवति । वर्णकान्तरस्वाभावेऽपि पूर्वव्याख्याप्रकारे केनचिद्दूषणक्षेपदोषेणाप्रसन्नाभिधानाच्छिष्यक्लेशपत्तेः । सुखप्रतिपत्त्यर्थं प्रकारान्तरमारभते—एवं वेति । प्रासङ्गिकत्वेन तावत्सङ्गतिमाह—गौरिति । विचार- विषयं बोधयति—चतुर्विध इति । संशयोत्पत्तिरित्यनेन यावकादिद्रव्यशब्दानां देवदत्तादि- यदृच्छाशब्दानां सर्वादीनां च सर्वनामशब्दानां व्यक्तिवाचित्वेन निश्चयात्संशयानुपपत्ते- र्निपातोपसर्गवद्विचारविषयत्वमस्तीति सूचितम् निपातोपसर्गयोर्जातिव्यक्तिवाचित्वसंशया- नुपपत्तौ हेतुमाह—तयोरिति । अभ्युपगम्यापि वाचकत्वमन्वित्यादिषूपसर्गेषु पश्चादित्यादिषु च निपातेषु पदान्तरान्वयात् पूर्वं कस्यचिद्गार्थंस्याऽप्रतीतेः पदान्तरान्वये च विशेषस्यैव प्रतीतेः । सन्देहानुपपत्तिमाह—वाचकत्वेऽपीति । पाश्चात्यशब्दान्तर्गतः पश्चाच्छब्दोऽत्रोदा- हरणं संशयेन ज्ञाप्यते न विषयीक्रियत इत्यर्थः । एतदेव विवृणोति—यदोति । ननु पौनरुक्त्यापत्तेर्नैतस्यातं विचार्यमित्याशङ्कते—आख्यातव्यापीति । अत्र प्रकृत्यर्थः तत्र प्रत्ययार्थ इति पुनरुक्ति-परिहारः ननु द्वितीयाध्याय्याद्येऽधिकरणे द्रव्यादिशब्देभ्योऽपूर्व मावशब्देभ्यो वेति विचारान्नाख्या- तार्थविचारणेत्याशङ्कयाह—कः पुनरिति । अन्यार्थेऽप्यधिकरणप्रसङ्गाद्भाष्यकृतार्थ- निरूपणात्पौनरुक्त्यं भवतीत्याशयः । तत्र प्रत्ययार्थचिन्तेव प्रकृत्यर्थचिन्तेति परिहरति— प्रत्ययार्थस्येति । आश्रयं तु प्रत्ययार्थविचारे पौनरुक्त्यं परिहर्तुमशक्नुवतां परिहारे इत्यपरितोषादन्यथा स्वमतेन परिहरति -- प्रकृत्यर्थेति ! प्रत्ययार्थस्य प्रकृत्यर्थाद्विवेकायेह सिद्ध एव प्रकृत्यर्थस्तत्र वक्ष्यत इत्यर्थः । ते च यागदानहोम सम्बद्धा इत्यादिना प्रकृत्यर्थस्य यागस्य भाष्यकृता स्पष्टीकृतत्वात् भाष्यकारेणेत्युक्तम् । ननु सूत्रकारानुक्तिसूचनार्थं तेनापि कर्मशब्दपदेन प्रकृत्यर्थस्योक्तत्वात् । अयमपि विषयभेदं वक्तुमशक्नुवतां परिहार इत्य- परितोषात्स्वमतेनान्यथा परिहरति--यज्याद्यर्थेऽपि वेति । सामान्यविशेषयोर्मध्ये इति निर्धारणे षष्ठी प्राप्तेतीहावसरप्राप्त्युक्त्या तत्रासङ्गतत्वात्सामान्यविशेषविचाराभावः सूचितः । प्रासङ्गिककथया चैतत्पौनरुक्त्यं परिहृतम् । प्रधानचिन्तया तु पौनरुक्त्यशङ्कव नास्तीत्याह—अपूर्वमिति । अतोऽत्र युक्ता द्विविधस्य पदस्यार्थचिन्तेत्युपसंहरति-नामेति । गोसदृशो गवयः इति जातौ गोशब्दप्रयोगाद् गौरानय इति च व्यक्तौ प्रयोगाच्च गोशब्दो- च्चारणाच्चोभयप्रतीतेर्वृद्धव्यवहारस्योभयत्र तुल्यत्वं शब्दलक्षणे महाभाष्यकारेण किं पुनराकृतिः पदार्थः, आहोस्विविद् द्रव्यमिति पृष्ट्वोभयमित्याहेत्याकृतिपक्षवद्व्यक्तिपक्षस्याप्य- भिधानाच्च शास्त्रस्याप्युभयत्र तुल्यतेति, द्वेधा सन्देहहेतुमाह -- प्रयोगस्येति । भाष्योक्त- सन्देहहेतुनिरासार्थमस्माद्धेतुद्वयादेव—संशयो न प्रतिभातीत्युक्तम् । ननु यदि सामान्य- प्रत्ययाद्व्यक्तौ च क्रियासम्भवात्सन्देहः स्याद्, ततः प्रतीयमानाया आकृतेरक्रियार्थत्वात् क्रियार्थायाश्च व्यक्तेरप्रतीतेर्वाक्यार्थौपयिकपदार्थासम्भवाद्द्द्यक्तिवाच्यत्वपूर्वपक्षस्याकृतिवाच्य-

३३ ] प्रथमाध्याये तृतीयपादः ६९७ त्वासम्भवप्रतिपादनमात्रपरत्वात्पूर्वपक्षे वेदाप्रामाण्यम्, सिद्धान्ते चाकृतेरपि क्रियार्थत्वा- द्दाक्यार्थौपयिकत्वोपपत्तेर्वेदप्रामाण्यमिति प्रामाण्याप्रामाण्यफलत्वात्प्रमाणलक्षणसङ्गतेयं चिन्ता स्यात् । व्यक्त्याकृत्योस्तु प्रतीतिप्रयोगतुल्यत्वे पक्षद्वयेऽपि प्रामाण्याविशेषात्कथं तल्लक्षण- सङ्गतिः । प्रतीतिप्रयोगतुल्यत्वेनैव च व्यक्तिवाच्यत्वस्मृतेरपि समूलत्वोपपत्तेरेतत्पादगतेन स्मृतिमूलविचारेणापि कथं सङ्गतिः स्यादित्याशङ्कते-कथमिति । पादानामेकार्थ्य- नियमाभावान्नावश्यं सर्वत्र पादसङ्गतिरपेक्षणीया एकप्रकरणगतानां त्वधिकरणानां प्रकरण- प्रतिपाद्यैकार्थान्वयाय प्रकरणसङ्गतिरवश्यापेक्षणीयेति मत्वा-प्रकृते न वेत्युक्तम् । स्मृति- मूलविचारो ह्यस्मिन्पादे प्रकरणार्थः । तथा हि- स्मृतीनां श्रुतिमूलत्वं विरोधे भ्रान्तिमूलता । उक्तोपवीतस्मृत्यादवविरोधं निरूप्य च ॥ आर्यैर्विरोधे म्लेच्छानां शब्दार्थविषयस्मृतेः । भ्रान्तिमूलमसत्त्वेऽस्य पिकादौ लोकमूलता ॥ मूलापेक्षां च कल्पादेरव्यवस्थितगोचरम् । होलाकादिस्मृतेर्मूलमुक्तं शब्दस्मृतेरपि तत्प्रामाण्यमूलत्वप्रासङ्गिकत्वेनास्याश्चिन्तायाः पूर्वचिन्ताया लक्षणप्रकरणप्रसङ्गस्यैवास्या अपि तद्द्वारेण सङ्गतिलाभान्न पृथक्सङ्गत्य- पेक्षेति परिहरति-द्वयमिति । ननु यदि कस्मिन्नर्थे गोशब्दस्य साधुवेत्यनेन प्रसङ्गेनास्य विचारस्यावान्तरस्तुतेरर्थनिरपेक्षस्य साधुत्वस्य निरूपयितुमशक्यत्वाद्द्द्व्यक्त्याकृतिचिन्तैव पूर्वं प्रसज्येतेत्याशङ्कते - वक्तव्य इति । सास्नादिना शब्दस्य साधुवाच्ये इत्येतावति ज्ञाते व्यक्त्याकृतिविवेकाज्ञानेऽपि साधुत्वं निरूपयितुं शक्यमिति परिहरति-अनिश्चितेऽपीति । एतदेवं विवृणोति-वाच्येति । पूर्वापवादत्वेन चास्य सङ्गतिरिति परिहारान्तरसापेक्षत्वेऽपि किं विचार्यत इत्यपेक्षायामाह - व्यक्तिरिति । अस्मिंश्च पक्षे त्रिविधापि सङ्गतिः साक्षादेवेत्याह-- स्मृतेरिति । प्रयोजनाभावेनाधिकरणारम्भमाशङ्कते - ननु चेति । शब्दार्थशब्देनाकृतिर्विवक्षिता, प्रोक्षणादेः क्रिया, ब्रह्महत्यादेश्चाक्रिया पक्षद्वयेऽप्याकृतावसम्भवाद्द्द्व्यक्तावेवेत्यर्थः । वेदे प्रयोजनाभावेऽपि, लोके प्रयोजनं भविष्यतीति तावत्परिहरति - यद्यपीति । किं फलमित्य- पेक्षायामाह - व्यक्तीति । लोकव्यवहारस्य प्रमाणान्तरानुसारित्वात्तदर्थं शब्दार्थतत्त्व- चिन्तानर्थक्यापत्तेर्वेदार्थनिर्णयानौपयिकत्वाच्च शास्त्रसङ्गत्यभावापत्तेरपरितोषात्स्वमतेन प्रयोजनमाह-वेदेऽपि चेति । हेत्वपेक्षायामुदाहरणद्वयमाह - व्रीहीति । भेदो-विशेषः । आद्योदाहरणे विशेषं विवृणोति-प्रोक्षणमिति । सन्निधिरूपं क्रमं बाधित्वेत्यर्थः । द्विती- योदाहरणं विवृणोति-एवमिति । 'यदाहवनीये जुहोति, पदे जुहोतीत्यादिसामान्यविशेष- शास्त्रयोः पूर्वपक्षे विकल्पः, सिद्धान्ते सामान्यशास्त्रस्य विशेषशास्त्रेण बाध इत्याद्यपि प्रयोजनमित्याह-सोपपत्तिकमिति । उपसंहरति-कृतं ध्येति ।

पौनरुक्त्यमाशङ्कते-नन्विति । गौरिति शब्द आदिर्यस्य, तस्य गौरित्यस्य शब्दस्य कोऽर्थ इत्यस्य भाष्यस्य, तस्मिन्नित्यर्थः । आद्यपादस्थे भाष्ये विचारितमित्यर्थः । तत्र प्रतिज्ञायामिहानुपपत्तिरिति तावत्परिहरति आकृतिरिति । यथा चाकृतिश्शब्दार्थः तथा- कृतिस्तु क्रियार्थत्वादित्यत्र निपुणतरमुपपादयिष्याम इत्याकृतिवादान्ते भाष्यकृताप्येव- मेवोदितमित्याह-यथा चेति । विषयप्रदर्श नार्थत्वात्प्रतिज्ञाया हेतुं विनानर्थक्यापत्तेरि- हापि चाकृतिः शब्दार्थ इति प्रतिज्ञायाः पौनरुक्त्यापत्तेरेतत्परिहारेष्वपरितोषात्स्वमते- नान्यथा परिहरति-यद्वेति ।

नन्वेवं सत्याकृतेः शब्दार्थत्वोक्तिस्तत्रत्या कथमित्याशङ्क्य सद्भावप्रतिपादनायैव । प्रकृतानुपयोगप्रसङ्गाच्च साक्षाद्वाच्यत्वोपक्रमस्तत्रेत्याह-या त्विति । चिन्ताविषयत्वेन नोक्तेत्यर्थः । प्रतिज्ञामात्रेणाकृतिवाच्यत्वासिद्धेरनभिमतमपि परिहारान्तरं विभवार्थमाह- उक्ते वापीति । व्यक्त्याकृतिचिन्तामुपक्रम्य भाष्यकृता लौकिकवैदिकशब्दार्थभेदाभेदचिन्ता कृता । तस्याः प्रकृतोपाद्घाताथंत्त्वेन सङ्गतिमाह-एतद्विति । ननु संख्याभावादित्यनेन न्यायेनाभेदस्य सिद्धत्वात्पुनः कोऽयं विचारः स्यादित्याशङ्कय, लौकिकशब्दाभेदेऽपि, वैदि- कानां रूपभेदाद्व्यपदेशभेदाच्च भेदशङ्कोपपत्तेस्तन्निराकरणार्थोऽयमारम्भ इति । संशय्यते अस्मिन्नित्यधिकरणव्युत्पत्त्या संशयविपर्यंयप्रतिपादकेन-संशयशब्देनोक्तम् । उपोद्घात- त्वमेव विवृणोति - एकत्वे सतीति । लौकिकवैदिकयोः शब्दयोर्वाच्ययोश्चैकत्वे सति लोक- व्युत्पन्नाद्वैदिकाद् गोशब्दाद् व्यक्त्याकृतिरूपत्वादिपदार्थप्रत्ययोत्पत्तौ कोऽर्थो वाच्यः, को वा गम्य इति सन्देहाद्विचारः कार्यः । भेदे व्युत्पत्त्यभावेन वैदिकाच्छब्दादर्थप्रतीतेः सन्देहा- भावान्न चिन्तावसर इत्यर्थः ।

ननु लोके सन्देहसम्भवाच्चिन्ता भविष्यतीत्याशङ्क्याह-शब्दार्थनेति । वेदे तु शब्दविषये, अर्थविषये च 'य एव लौकिकः शब्दोऽर्थश्च स एवायमिति प्रत्यभिज्ञाने सति लोकव्युत्पन्नाद्वैदिकाच्छब्दार्थप्रतीतेः कोऽर्थो वाच्यः, को वा गम्य' इति विवेक्तुं शक्यम् । अलौकिके तु वैदिके शब्देऽर्थे वाचकत्वाज्ञानाद्वाच्यविषयः सन्देह एव न स्यादिति पूर्वोक्त- मेव विवृणोति-वेदे त्विति । उपसंहरति-तेनेति ।

संशयशब्दसूचितं पौनरुक्त्यपरिहारं वक्तुमाशङ्कते-तावत्संख्येति । न हेवन्तरा- भिधित्सया पुनरारम्भस्तस्यानुक्तत्वादित्याह-अभेदेति । ननु न 'प्रयोगचोदनाभावादिति हेवन्तरमप्युक्तमित्याशङ्कयाह-अन्येष्विति । शङ्कामुपसंहरति - तेनेति । परिहरति - लौकिकेष्वेवेति । ननु वैदिकेषु काऽधिका शङ्केत्यपेक्षायामाह-व्यपदेशादेरिति । रूपभेदो लिङ्गं चादिशब्देनोपात्तम् । अर्थभेदाभेदचिन्तायास्तु पौनरुक्त्याशङ्कव नास्तीत्याह - एकत्वेऽपि चेति । न च शब्दैक्यमात्रेण प्रकृतचिन्तासिद्धिर्येनार्थैक्यमचिन्त्यं स्यादित्याह- अर्थेति । शब्दाभेदे सत्यपि यद्यर्थभेदः स्यात् ततो व्यक्त्याकृत्योर्द्वयोर्मध्ये कस्य वाच्यतेतीयं चिन्ता घटते, न शब्दैक्यमात्रेणेत्यर्थः । सन्देहहेतुमाह-व्यपदेशादीति । उभयविषय-

३३ ] प्रथमाध्याये तृतीयपादः ६९९ प्रतिज्ञापूर्वकं शब्दभेदामवाहहेतूनाह—किं प्राप्तमिति । आख्यायाः शब्दस्य यल्लक्षणम्, तस्य भाषायाम्, छन्दसीति चोपबन्धेन भिन्नत्वादित्यर्थः । अर्थभेदे हेतुमाह—अश्व- बालादिति । नन्वग्निवृत्राणीति भाष्ये वृत्रहननादिक्रियाभेदो हेतुः प्रतीयते, स किमित्युपेक्षित इत्यपेक्षायामर्थभेदे हेतुत्वं तावन्न सम्भवतीत्याह—अग्न्यादीनां चेति । नन्वग्निसरूपा- भेदेऽपि वृत्रहन्तृत्वविशिष्टस्य वैदिकाग्निपदवाच्यत्वादर्थभेदो भविष्यतीत्याशङ्क्याह— हन्तीति । वृत्रहन्तृत्ववैशिष्ट्यस्य वाक्यार्थत्वेनाऽशब्दवाच्यत्वान्न वैदिकाग्निशब्दवाच्यता युक्तेत्यर्थः । हन्तृत्वे च प्रमाणाभावान्न तेनापि रूपेणान्यत्वं युक्तमित्याह—हननमिति । न च यो वृत्रहन्ता, सोऽग्निरिति वचनव्यक्त्यार्थान्यत्वसिद्धिर्वृत्रशब्दार्थस्य जघ्ननदिति च क्रियाशब्दस्यालीकत्वेनैवंविधवचनव्यक्त्यसम्भवादित्याह—अपूर्वमिति । देवतायाश्च विग्रहाभावस्य नवमे वक्ष्यमाणत्वेन क्रियया वृत्रहननायोगान्मन्त्रस्य स्तुतिमात्रार्थत्वावगतेनं वृत्रहन्तृत्वानुवादेनाग्निशब्दवाच्यत्वविधियुक्त इत्याह—स्तुतीति । कथमक्रियेत्यपेक्षायाम्— भाष्योक्तेरित्युक्तम् । कानि तानि वाक्यानीत्यपेक्षायां नावमिकदेवताधिकरणोक्त-- युक्तिपरामर्शार्थमितीत्युक्तम् । अतोऽश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनादित्येवैवार्या- न्यत्वे युक्तिरित्युपसंहरति—तेनेति । शब्दभेदहेतुत्वं तु क्रियाभेदहेतुत्वेऽप्यनाशङ्कय- मेवेत्याह तच्चेति । अथ भेदकारितोऽपि शब्दभेदो न भवति, किमुत तद्गुणभेदकारित इत्यर्थः भाष्यस्य र्तिह का गतिरित्यपेक्षायां भाष्योक्तं रूपान्यत्वं स्वशब्दिभेदामिप्रायं व्याख्येयमित्याह—तेनेति । पूर्वपक्षोपसंहारपूर्वकं सिद्धान्तप्रतिज्ञां करोति तस्मादिति । प्रतिज्ञाक्षिप्तमेव तावद्धेतुमाह—वेदस्यैवेति । प्रसज्यतामित्येवं वादिनम्—प्रति प्रसज्येतेत्युक्तम् । प्रयोगचोदनाभावादिति सौत्रं हेतुं प्रयोगस्य, चोदनायाश्चाभावादित्येवं व्याचष्टे— प्रयोगस्येति । चोदनायाः कथमभाव इत्यपेक्षायाम्—प्रत्ययार्थस्येत्युक्तम् । अर्थान्तरे शब्दप्रयोगविषयायाश्चोदनाया विधेरभावादित्येवमन्यथा व्याचष्टे—अर्थान्तरे चेति कस्माद्वेदे- नाऽर्थान्तरे शब्दप्रयोगो न विधीयते इत्यपेक्षायां, गुणाद्वाप्यभिधानं स्यात् सम्बन्धस्याशास्त्र- हेतुत्वादिति३-२-४त्यैन्द्राधिकरणसूत्रावयवोऽर्थः पठितः । वचनान्वयार्थमैन्द्री स्यादिति सूत्रेणेन्द्रचा गार्हपत्यमुपतिष्ठत इति श्रुतिबलेनेन्द्रचा गार्हपत्योपस्थानाङ्गत्वे विहिते श्रुत्या- प्यशक्तविनियोगासम्भवात्कथमिन्द्रशब्देन गार्हपत्याविधानमित्यपेक्षायां गुणयोगेनेति पूर्वावयवेनोक्तम् । नन्विन्द्रशब्दस्य गार्हपत्याभिधानशक्तिप्रदर्शनाथमेवैतद्वचनं कस्मान्न भवतीत्याशङ्क्य, शब्दार्थसम्बन्धस्य वृद्धव्यवहारावसेयत्वेन शास्त्रहेतुत्वाभावादित्यने- नोक्तम् । अविभागादिति सूत्रावयवो न तेषामेषां विभागमुपलभामह इति भाष्येण शब्दप्रत्यभिज्ञा- भिधानार्थत्वेन तांश्चार्थानवगच्छाम इत्यनेन चार्थप्रत्यभिज्ञानाधानार्थत्वेन व्याख्यातः । तदु- मयमपि यथाक्रममनुसन्धत्ते—किं चेति । शब्दलक्षणाविभागादित्येवं स्वयमन्यथा व्याचष्टे-

७०० मीमांसादर्शनम् [ १ सू० लक्षणस्येति । ननु कतिपयलक्षणाविभागेऽपि भाषायां छन्दसीत्युपबन्धेनोक्तानां लक्षणानां भेदात्कथं सर्वशब्दैक्यसिद्धिरित्याशङ्क्याह - सर्वथेति । भिन्नलक्षणानां शब्दानाम्, अश्वबालाद्यर्थानां च भेदस्य सिद्धान्तिनाऽपीष्टत्वादितरशब्दार्थानामैक्यं साध्यम्, तेषां चोक्तैर्हेतुभिर्न भेदः शक्यो वक्तुमित्यर्थः । याज्ञिकानां च गवादिविधौ लौकिकैरेव सास्ना- दिमदर्थैर्व्यवहारान्मीमांसायां च लोकव्युत्पत्त्यनुसारेण वेदार्थनिर्णयादुभयानुग्रहार्थं लौकिकवैदिकशब्दार्थानामैक्यमाश्रयणीयमित्याह - एकत्वेति । मीमांसा चानुगृह्यत इत्यनु- षङ्गः । अविभागशब्देनोक्तं प्रत्यभिज्ञानमेव पूर्वपक्षोक्तानां हेतूनां कालात्ययापदिष्टत्व- लक्षणदोषाभिधानार्थत्वेन व्याचष्टे - व्यपदेशादेरिति । आदिशब्देनाख्यालक्षणस्वरोपादानम् । ननु व्यपदेशादिभेदेन तदवच्छिन्नात्मनां भेदस्यावश्यकत्वात्कथं न भेदानुमानमित्याशङ्कया- न्यरूपतेत्युक्तम् । रूपिणः स्वरूपतोऽन्यता, रूपान्यता । अत्र भेदानुभेदे विचारे यो व्यपदेशा- दिभेदैरैक्यरूपतालक्षणो भेदोऽनुमीयते स तु न युक्तः वैदिकशब्दे प्रत्यक्षप्रत्यभिज्ञानादित्यर्थः । भेदादेरिति पाठे द्वितीयेनादिशब्देन लोपागमव्यत्ययोपादानम् । अन्यनिबन्धनत्वादपि व्यपदेशभेदो रूपभेदो वा न भेदानुमानायालमित्याह व्यपदेशादेरिति । नन्वेवमपि पदावधारणोपायतत्प्रकृतिश्छन्दसि स्मृतयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यस्मृतिश्रुती ॥ इत्यनेन न्यायेनाऽऽचारादिभेदेन च भेदो भविष्यतीत्याशङ्क्य आह-स्वरादयश्चेति । अभिधानाङ्गभूतस्वरादिभेदोऽभिधायकपदभेदहेतुत्वेन तत्रोक्तः । अग्निवृत्राणि जङ्घन- दित्यादिषु तु स्वरनियमस्य, व्योमन्नित्यादिषु च वर्णलोपस्य, देवास इत्यादिषु आगमस्य, अगृभ्णन्नित्यादिषु विकारस्य, स्वाध्यायविध्यपेक्षितवेदत्वसिद्धयर्थं त्वदृष्टार्थो- पयोगितयाऽभिधानाङ्गत्वभावात्राभिधायकभेदावधारणोपायताऽस्तीत्यर्थः । यत्तु स्वरयूपादिसपष्टभेदशब्दसाहचर्यं गवादिशब्दे भेदहेतुत्वेनोपन्यस्तम्, तन्निराकरणार्थं विभागशब्दोक्तशब्दप्रत्यभिज्ञानं योजयति - सर्वत्रेति । अनध्यायादिधर्मभेदस्य शूद्रोच्चरण- वर्जनस्य च वाचनिकत्वेनाऽप्युपपत्तेर्न भेदहेतुतेत्याह-वचनादिति । उच्चारणधर्मत्वाद- प्येषां न भेदहेतुतेत्याह - धर्मादिति । यत्त्वाश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनाद् गवादि- शब्दानार्माप भिन्नार्थतेत्युक्तम्, तन्निराकरणेऽप्यविभागशब्दोक्तमर्थप्रत्यभिज्ञानं योजयति -- अश्वबालादीति । वाक्यशेषात्मकवचनवशात्तत्रार्थभेदे जातेऽपि प्रत्यभिज्ञायमानार्थेषु गवादिशब्देष्वर्थान्यत्वद्योतकत्वाभावान्नार्थान्यता युक्तेत्यर्थः । नन्विहाप्युत्तानवहनादिवचनकारितोऽर्थभेदो भविष्यतीत्याशङ्क्याह -- उत्तानानां चेति । उत्तानवहनासिद्धेस्तदनुवादेन गोशब्दवाच्यत्वविध्ययोगात्सर्वेषां च वैदिकानामन्यत्वे सम्बन्धज्ञानाभावेनैकस्यापि पदार्थस्याग्रहणाद्वाक्यार्थानवगतेर्नातो वाक्यार्थान्यत्वावसाय इत्यर्थः । किमर्थं तर्ह्युत्तानवाक्यम् इत्यपेक्षायामाह--विधेरिति । सिद्धान्तमुपसंहरति- तस्मादिति ।

३३ ] प्रथमाध्याये तृतीयपादः ७०१ प्रकृतिविचारमनुसन्धत्ते—यद्वा चेति । अतोऽधुना क्रियत इत्यध्याहारेण योज्यम् । पक्षान्तराणामप्यभिधानं प्रतिजानाति—बहव इति । अभिनवे पक्षे केनचिदुपन्यस्ते निराकरणोपपत्त्या ज्ञानाच्छिष्याणां व्यामोहापत्तेः तन्निवृत्त्यर्थं सर्वैऽभिधेया इत्यर्थः । बहु- पक्षप्रतिभाने कारणमाह—गौरिति । शब्दस्वरूपस्य प्रत्यक्षग्राह्यत्वेन तद्विषयाभिधान- शक्तिकल्पनानुपपत्तेर्नव्यानभिधानो हिंशब्दः कश्चित्कदाचनेति शून्यवादे वृहट्टीकायां स्वरूपाभिधानस्य निरस्तत्वाच्छब्दवाच्यत्वशङ्कानुपपत्ति—सूचनार्थं तद्युक्तम् । सहवस्तु- प्रतिभानेऽपि कथं बहुपक्षप्रतिभानमित्याह—तेषामिति । पक्षानुद्दिशति—किं जातिरेवेति । जातिव्यक्त्योः सामानाधिकरण्यबुद्धिहेतुभूतस्य । 'आश्रयी येन भिन्नोऽपि सम्बन्धेनाऽऽश्रये धियम् । स्वानुरूपां सदा कुर्यात्समवायः स कीर्त्यते ॥' इत्येवं लक्षणसमवायाख्यस्य सम्बन्धस्य जात्या सहाधाराधेयसम्बन्धसद्भावाज्जाति- सम्बन्धयोः सच्छब्दवचः सम्बन्धः शब्दार्थ इत्यस्यापि पक्षस्योपपत्तेर्वस्तुगतस्य जात्या- ख्याया अनुवृत्ताकारस्य, व्यावृत्ताकारस्य च व्यक्तित्वेनाभिप्रेतस्यैव वस्तुगतत्वादेकदेश- स्थवृक्षवद्यः समुदायस्तस्याकारद्वयाकारद्वयाधारे धर्मिभूते वस्तुनि प्रतीतेः तदाश्रितया जात्या सहैकवस्तुगतत्वादेव समुदायोपपत्तेः । सर्वत्राऽष्टपक्षीसम्भवः । यथा जातेर्व्यक्त्यादिभि षड्भिः सह प्रत्येकमष्टौ पक्षाः कृताः । तथा व्यक्तादेरप्ये- कैकस्येतरैः सह कार्या इत्याह-एवमेकैकस्येति । ननु व्यक्त्यादिभिः सह सम्प्रधारितया जात्या सह व्यक्त्यादेः सम्प्रधारणे पक्षभेदो नास्तीत्याशङ्क्य—उक्तवदित्युक्तम् । (एकाद्वित्रिचतुः- पञ्चषट्कैः सह विकल्पने) त्युक्तद्विकादिप्रकारभेदात्पक्षाविवेक इत्याशयः । ततश्च व्यक्ति- सम्बन्धः व्यक्तिसमुदाययोर्व्यक्तिलिङ्गयोः, व्यक्तिकारकयोः, व्यक्तिसंख्ययोः, सम्बन्धसमु- दाययोः, सम्बन्धलिङ्गयोः, सम्बन्धकारकयोः, सम्बन्धसंख्ययोः, समुदायलिङ्गयोः, समुदाय- कारकयोः, समुदायसंख्योलिङ्गकारकयोः, लिङ्गसंख्ययोः, कारकसंख्ययोः, पञ्चदशाऽष्टपक्षीः पूर्वाभिः षड्भिः सहैकविंशतिं कृत्वा । १. जातेर्व्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धसमु- दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग- कारकलिसंख्याकरसंख्याद्विकैः पञ्चदश । व्यक्तेर्जाति-सम्बन्ध-जातिसमुदाय-जातिलिङ्ग-जातिकारक-जातिसंख्या-सम्बन्धसमु- दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग- संख्याकारकसख्याद्विकैः पञ्चदशसम्बन्धस्य जातिव्यक्तिजातिसमुदाय-जातिलिङ्गजाति- कारक-जातिसंख्याव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारक-व्यक्तिसंख्यासमुदायलिङ्गसमुदाय- कारकसमुदायसंख्यालिङ्गकारकलिसंख्याकारकसख्याद्विकैः पञ्चदश ।

७०२ मीमांसादर्शनम् [ सू० समुदायस्य जातिव्यक्तिजातिसम्बन्धजातिलिङ्गजातिकारकजातिसंख्याव्यक्तिसम्बन्ध- व्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसंख्यासम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यालिङ्गसंख्या - द्विकैः पञ्चदश । लिङ्गस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिकारकजातिसंख्याव्यक्तिसम्बन्ध- व्यक्तिसमुदायव्यक्तिकारकव्यक्तिसंख्यासम्बन्धसमुदायसम्बन्धकारकसम्बन्धसंख्यासमुदायकारक- समुदायसंख्याकारकसंख्यायुगलैः पञ्चदश । कारकस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिसंख्याव्यक्तिसम्बन्ध- व्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिसंख्यासम्बन्धसमुदायलिङ्गसम्बन्धसंख्यासमुदायलिङ्गसमु - दायसंख्यालिङ्गसंख्याद्विकैः पञ्चदश । संख्याया जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिकारकव्यक्तिसम्बन्ध- व्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकसम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसमुदायलिङ्ग- कारकद्विकैः पञ्चदश । २. जातेर्व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गकारकव्यक्तिकारकसंख्यासम्बन्धसमु- दायलिङ्गसम्बन्धलिङ्गकारसंख्यासमुदायलिङ्गकारक.समुदायकारकसंख्या.लिङ्गकारकसंख्या- त्रिकैर्दश : व्यक्तेर्जातिसम्बन्धसमुदायसंख्याजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसंख्या- सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकसख्यासमुदायलिङ्गकारकसमुदायकारक- संख्यात्रिकैदश । सम्बन्धस्य जातिव्यक्तिसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसंख्या- व्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसंख्यासमुदायलिङ्गकारकसमुदायकारक - संख्यालिङ्गकारकसंख्यात्रिकैर्दश । समुदायस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धलिङ्गजातिलिङ्गकारकजातिकारकसंख्या- व्यक्तिसम्बन्धलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसंख्यासम्बन्धलिङ्गकारकसम्बन्धकारक - संख्यात्रिकैर्दश । लिङ्गस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायकारकजातिकारकसंख्या- व्यकिनसम्बन्धसमुदायकारकव्यक्तिकारकसंख्यासम्बन्धसमुदायकारकसम्बन्धकारकसंख्यासमु- दायकारकसंख्यात्रिकैर्दश । ३. कारकस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गसंख्या- व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गसंख्यासम्बन्धसमुदायलिङ्गकारकव्य - क्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकसम्बन्धसमुदायलिङ्गसम्बन्धलिङ्ग - कारकसम्बन्धलिङ्गकारकसंख्यासमुदायलिङ्गकारकसंख्याचतुष्कः षट् । व्यक्तेः जातिसम्बन्ध- समुदायलिङ्गजातिसमुदायलिङ्गकारकजातिलिङ्गकारकसंख्यासम्बन्धसमुदायलिङ्गकारक - सम्बन्धलिङ्गकारकसंख्यासमुदायलिङ्गकारकसंख्याचतुष्कः षट् । सम्बन्धस्य जातिव्यक्ति-

<!-- Page 757: Content rendered in scan -->