मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 754, कुल 804 में से
संदर्भ में पढ़ें७०० मीमांसादर्शनम् [ १ सू० लक्षणस्येति । ननु कतिपयलक्षणाविभागेऽपि भाषायां छन्दसीत्युपबन्धेनोक्तानां लक्षणानां भेदात्कथं सर्वशब्दैक्यसिद्धिरित्याशङ्क्याह - सर्वथेति । भिन्नलक्षणानां शब्दानाम्, अश्वबालाद्यर्थानां च भेदस्य सिद्धान्तिनाऽपीष्टत्वादितरशब्दार्थानामैक्यं साध्यम्, तेषां चोक्तैर्हेतुभिर्न भेदः शक्यो वक्तुमित्यर्थः । याज्ञिकानां च गवादिविधौ लौकिकैरेव सास्ना- दिमदर्थैर्व्यवहारान्मीमांसायां च लोकव्युत्पत्त्यनुसारेण वेदार्थनिर्णयादुभयानुग्रहार्थं लौकिकवैदिकशब्दार्थानामैक्यमाश्रयणीयमित्याह - एकत्वेति । मीमांसा चानुगृह्यत इत्यनु- षङ्गः । अविभागशब्देनोक्तं प्रत्यभिज्ञानमेव पूर्वपक्षोक्तानां हेतूनां कालात्ययापदिष्टत्व- लक्षणदोषाभिधानार्थत्वेन व्याचष्टे - व्यपदेशादेरिति । आदिशब्देनाख्यालक्षणस्वरोपादानम् । ननु व्यपदेशादिभेदेन तदवच्छिन्नात्मनां भेदस्यावश्यकत्वात्कथं न भेदानुमानमित्याशङ्कया- न्यरूपतेत्युक्तम् । रूपिणः स्वरूपतोऽन्यता, रूपान्यता । अत्र भेदानुभेदे विचारे यो व्यपदेशा- दिभेदैरैक्यरूपतालक्षणो भेदोऽनुमीयते स तु न युक्तः वैदिकशब्दे प्रत्यक्षप्रत्यभिज्ञानादित्यर्थः । भेदादेरिति पाठे द्वितीयेनादिशब्देन लोपागमव्यत्ययोपादानम् । अन्यनिबन्धनत्वादपि व्यपदेशभेदो रूपभेदो वा न भेदानुमानायालमित्याह व्यपदेशादेरिति । नन्वेवमपि पदावधारणोपायतत्प्रकृतिश्छन्दसि स्मृतयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यस्मृतिश्रुती ॥ इत्यनेन न्यायेनाऽऽचारादिभेदेन च भेदो भविष्यतीत्याशङ्क्य आह-स्वरादयश्चेति । अभिधानाङ्गभूतस्वरादिभेदोऽभिधायकपदभेदहेतुत्वेन तत्रोक्तः । अग्निवृत्राणि जङ्घन- दित्यादिषु तु स्वरनियमस्य, व्योमन्नित्यादिषु च वर्णलोपस्य, देवास इत्यादिषु आगमस्य, अगृभ्णन्नित्यादिषु विकारस्य, स्वाध्यायविध्यपेक्षितवेदत्वसिद्धयर्थं त्वदृष्टार्थो- पयोगितयाऽभिधानाङ्गत्वभावात्राभिधायकभेदावधारणोपायताऽस्तीत्यर्थः । यत्तु स्वरयूपादिसपष्टभेदशब्दसाहचर्यं गवादिशब्दे भेदहेतुत्वेनोपन्यस्तम्, तन्निराकरणार्थं विभागशब्दोक्तशब्दप्रत्यभिज्ञानं योजयति - सर्वत्रेति । अनध्यायादिधर्मभेदस्य शूद्रोच्चरण- वर्जनस्य च वाचनिकत्वेनाऽप्युपपत्तेर्न भेदहेतुतेत्याह-वचनादिति । उच्चारणधर्मत्वाद- प्येषां न भेदहेतुतेत्याह - धर्मादिति । यत्त्वाश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनाद् गवादि- शब्दानार्माप भिन्नार्थतेत्युक्तम्, तन्निराकरणेऽप्यविभागशब्दोक्तमर्थप्रत्यभिज्ञानं योजयति -- अश्वबालादीति । वाक्यशेषात्मकवचनवशात्तत्रार्थभेदे जातेऽपि प्रत्यभिज्ञायमानार्थेषु गवादिशब्देष्वर्थान्यत्वद्योतकत्वाभावान्नार्थान्यता युक्तेत्यर्थः । नन्विहाप्युत्तानवहनादिवचनकारितोऽर्थभेदो भविष्यतीत्याशङ्क्याह -- उत्तानानां चेति । उत्तानवहनासिद्धेस्तदनुवादेन गोशब्दवाच्यत्वविध्ययोगात्सर्वेषां च वैदिकानामन्यत्वे सम्बन्धज्ञानाभावेनैकस्यापि पदार्थस्याग्रहणाद्वाक्यार्थानवगतेर्नातो वाक्यार्थान्यत्वावसाय इत्यर्थः । किमर्थं तर्ह्युत्तानवाक्यम् इत्यपेक्षायामाह--विधेरिति । सिद्धान्तमुपसंहरति- तस्मादिति ।