मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 753, कुल 804 में से
संदर्भ में पढ़ें३३ ] प्रथमाध्याये तृतीयपादः ६९९ प्रतिज्ञापूर्वकं शब्दभेदामवाहहेतूनाह—किं प्राप्तमिति । आख्यायाः शब्दस्य यल्लक्षणम्, तस्य भाषायाम्, छन्दसीति चोपबन्धेन भिन्नत्वादित्यर्थः । अर्थभेदे हेतुमाह—अश्व- बालादिति । नन्वग्निवृत्राणीति भाष्ये वृत्रहननादिक्रियाभेदो हेतुः प्रतीयते, स किमित्युपेक्षित इत्यपेक्षायामर्थभेदे हेतुत्वं तावन्न सम्भवतीत्याह—अग्न्यादीनां चेति । नन्वग्निसरूपा- भेदेऽपि वृत्रहन्तृत्वविशिष्टस्य वैदिकाग्निपदवाच्यत्वादर्थभेदो भविष्यतीत्याशङ्क्याह— हन्तीति । वृत्रहन्तृत्ववैशिष्ट्यस्य वाक्यार्थत्वेनाऽशब्दवाच्यत्वान्न वैदिकाग्निशब्दवाच्यता युक्तेत्यर्थः । हन्तृत्वे च प्रमाणाभावान्न तेनापि रूपेणान्यत्वं युक्तमित्याह—हननमिति । न च यो वृत्रहन्ता, सोऽग्निरिति वचनव्यक्त्यार्थान्यत्वसिद्धिर्वृत्रशब्दार्थस्य जघ्ननदिति च क्रियाशब्दस्यालीकत्वेनैवंविधवचनव्यक्त्यसम्भवादित्याह—अपूर्वमिति । देवतायाश्च विग्रहाभावस्य नवमे वक्ष्यमाणत्वेन क्रियया वृत्रहननायोगान्मन्त्रस्य स्तुतिमात्रार्थत्वावगतेनं वृत्रहन्तृत्वानुवादेनाग्निशब्दवाच्यत्वविधियुक्त इत्याह—स्तुतीति । कथमक्रियेत्यपेक्षायाम्— भाष्योक्तेरित्युक्तम् । कानि तानि वाक्यानीत्यपेक्षायां नावमिकदेवताधिकरणोक्त-- युक्तिपरामर्शार्थमितीत्युक्तम् । अतोऽश्वबालादिशब्दानां स्पष्टार्थान्तरदर्शनादित्येवैवार्या- न्यत्वे युक्तिरित्युपसंहरति—तेनेति । शब्दभेदहेतुत्वं तु क्रियाभेदहेतुत्वेऽप्यनाशङ्कय- मेवेत्याह तच्चेति । अथ भेदकारितोऽपि शब्दभेदो न भवति, किमुत तद्गुणभेदकारित इत्यर्थः भाष्यस्य र्तिह का गतिरित्यपेक्षायां भाष्योक्तं रूपान्यत्वं स्वशब्दिभेदामिप्रायं व्याख्येयमित्याह—तेनेति । पूर्वपक्षोपसंहारपूर्वकं सिद्धान्तप्रतिज्ञां करोति तस्मादिति । प्रतिज्ञाक्षिप्तमेव तावद्धेतुमाह—वेदस्यैवेति । प्रसज्यतामित्येवं वादिनम्—प्रति प्रसज्येतेत्युक्तम् । प्रयोगचोदनाभावादिति सौत्रं हेतुं प्रयोगस्य, चोदनायाश्चाभावादित्येवं व्याचष्टे— प्रयोगस्येति । चोदनायाः कथमभाव इत्यपेक्षायाम्—प्रत्ययार्थस्येत्युक्तम् । अर्थान्तरे शब्दप्रयोगविषयायाश्चोदनाया विधेरभावादित्येवमन्यथा व्याचष्टे—अर्थान्तरे चेति कस्माद्वेदे- नाऽर्थान्तरे शब्दप्रयोगो न विधीयते इत्यपेक्षायां, गुणाद्वाप्यभिधानं स्यात् सम्बन्धस्याशास्त्र- हेतुत्वादिति३-२-४त्यैन्द्राधिकरणसूत्रावयवोऽर्थः पठितः । वचनान्वयार्थमैन्द्री स्यादिति सूत्रेणेन्द्रचा गार्हपत्यमुपतिष्ठत इति श्रुतिबलेनेन्द्रचा गार्हपत्योपस्थानाङ्गत्वे विहिते श्रुत्या- प्यशक्तविनियोगासम्भवात्कथमिन्द्रशब्देन गार्हपत्याविधानमित्यपेक्षायां गुणयोगेनेति पूर्वावयवेनोक्तम् । नन्विन्द्रशब्दस्य गार्हपत्याभिधानशक्तिप्रदर्शनाथमेवैतद्वचनं कस्मान्न भवतीत्याशङ्क्य, शब्दार्थसम्बन्धस्य वृद्धव्यवहारावसेयत्वेन शास्त्रहेतुत्वाभावादित्यने- नोक्तम् । अविभागादिति सूत्रावयवो न तेषामेषां विभागमुपलभामह इति भाष्येण शब्दप्रत्यभिज्ञा- भिधानार्थत्वेन तांश्चार्थानवगच्छाम इत्यनेन चार्थप्रत्यभिज्ञानाधानार्थत्वेन व्याख्यातः । तदु- मयमपि यथाक्रममनुसन्धत्ते—किं चेति । शब्दलक्षणाविभागादित्येवं स्वयमन्यथा व्याचष्टे-