मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 752, कुल 804 में से
संदर्भ में पढ़ेंपौनरुक्त्यमाशङ्कते-नन्विति । गौरिति शब्द आदिर्यस्य, तस्य गौरित्यस्य शब्दस्य कोऽर्थ इत्यस्य भाष्यस्य, तस्मिन्नित्यर्थः । आद्यपादस्थे भाष्ये विचारितमित्यर्थः । तत्र प्रतिज्ञायामिहानुपपत्तिरिति तावत्परिहरति आकृतिरिति । यथा चाकृतिश्शब्दार्थः तथा- कृतिस्तु क्रियार्थत्वादित्यत्र निपुणतरमुपपादयिष्याम इत्याकृतिवादान्ते भाष्यकृताप्येव- मेवोदितमित्याह-यथा चेति । विषयप्रदर्श नार्थत्वात्प्रतिज्ञाया हेतुं विनानर्थक्यापत्तेरि- हापि चाकृतिः शब्दार्थ इति प्रतिज्ञायाः पौनरुक्त्यापत्तेरेतत्परिहारेष्वपरितोषात्स्वमते- नान्यथा परिहरति-यद्वेति ।
नन्वेवं सत्याकृतेः शब्दार्थत्वोक्तिस्तत्रत्या कथमित्याशङ्क्य सद्भावप्रतिपादनायैव । प्रकृतानुपयोगप्रसङ्गाच्च साक्षाद्वाच्यत्वोपक्रमस्तत्रेत्याह-या त्विति । चिन्ताविषयत्वेन नोक्तेत्यर्थः । प्रतिज्ञामात्रेणाकृतिवाच्यत्वासिद्धेरनभिमतमपि परिहारान्तरं विभवार्थमाह- उक्ते वापीति । व्यक्त्याकृतिचिन्तामुपक्रम्य भाष्यकृता लौकिकवैदिकशब्दार्थभेदाभेदचिन्ता कृता । तस्याः प्रकृतोपाद्घाताथंत्त्वेन सङ्गतिमाह-एतद्विति । ननु संख्याभावादित्यनेन न्यायेनाभेदस्य सिद्धत्वात्पुनः कोऽयं विचारः स्यादित्याशङ्कय, लौकिकशब्दाभेदेऽपि, वैदि- कानां रूपभेदाद्व्यपदेशभेदाच्च भेदशङ्कोपपत्तेस्तन्निराकरणार्थोऽयमारम्भ इति । संशय्यते अस्मिन्नित्यधिकरणव्युत्पत्त्या संशयविपर्यंयप्रतिपादकेन-संशयशब्देनोक्तम् । उपोद्घात- त्वमेव विवृणोति - एकत्वे सतीति । लौकिकवैदिकयोः शब्दयोर्वाच्ययोश्चैकत्वे सति लोक- व्युत्पन्नाद्वैदिकाद् गोशब्दाद् व्यक्त्याकृतिरूपत्वादिपदार्थप्रत्ययोत्पत्तौ कोऽर्थो वाच्यः, को वा गम्य इति सन्देहाद्विचारः कार्यः । भेदे व्युत्पत्त्यभावेन वैदिकाच्छब्दादर्थप्रतीतेः सन्देहा- भावान्न चिन्तावसर इत्यर्थः ।
ननु लोके सन्देहसम्भवाच्चिन्ता भविष्यतीत्याशङ्क्याह-शब्दार्थनेति । वेदे तु शब्दविषये, अर्थविषये च 'य एव लौकिकः शब्दोऽर्थश्च स एवायमिति प्रत्यभिज्ञाने सति लोकव्युत्पन्नाद्वैदिकाच्छब्दार्थप्रतीतेः कोऽर्थो वाच्यः, को वा गम्य' इति विवेक्तुं शक्यम् । अलौकिके तु वैदिके शब्देऽर्थे वाचकत्वाज्ञानाद्वाच्यविषयः सन्देह एव न स्यादिति पूर्वोक्त- मेव विवृणोति-वेदे त्विति । उपसंहरति-तेनेति ।
संशयशब्दसूचितं पौनरुक्त्यपरिहारं वक्तुमाशङ्कते-तावत्संख्येति । न हेवन्तरा- भिधित्सया पुनरारम्भस्तस्यानुक्तत्वादित्याह-अभेदेति । ननु न 'प्रयोगचोदनाभावादिति हेवन्तरमप्युक्तमित्याशङ्कयाह-अन्येष्विति । शङ्कामुपसंहरति - तेनेति । परिहरति - लौकिकेष्वेवेति । ननु वैदिकेषु काऽधिका शङ्केत्यपेक्षायामाह-व्यपदेशादेरिति । रूपभेदो लिङ्गं चादिशब्देनोपात्तम् । अर्थभेदाभेदचिन्तायास्तु पौनरुक्त्याशङ्कव नास्तीत्याह - एकत्वेऽपि चेति । न च शब्दैक्यमात्रेण प्रकृतचिन्तासिद्धिर्येनार्थैक्यमचिन्त्यं स्यादित्याह- अर्थेति । शब्दाभेदे सत्यपि यद्यर्थभेदः स्यात् ततो व्यक्त्याकृत्योर्द्वयोर्मध्ये कस्य वाच्यतेतीयं चिन्ता घटते, न शब्दैक्यमात्रेणेत्यर्थः । सन्देहहेतुमाह-व्यपदेशादीति । उभयविषय-