मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 749, कुल 804 में से
संदर्भ में पढ़ें३३ ] प्रथमाध्याये तृतीयपादः। ६९५ व्याचष्टे—यो हीति। आकाङ्क्षाशब्देन निर्विशेषसामान्यायोगात् कश्चिदत्र तीक्ष्णमन्दादि- रग्निविशेषः स्यादिति प्रमाणतो विशेषनिर्धारणाकाङ्क्षा भवतीत्येवम्परत्वेनाबुद्ध्यतेवाऽसौ व्यक्तिमिति भाष्यं व्याख्यातम् । शब्दान्वयेऽप्याकृतिव्यतिरेके व्यक्तिप्रत्ययव्यतिरेकप्रतिपाद- नार्थं ‘यस्त्विति’ भाष्यं मनो वै यग्योच्छन्दायंसम्बन्धास्मृती सहकार्यभावाच्छब्दस्यापि व्यतिरेकापत्तेः । स्मृतौ वा मनो वै अग्य्राभावादाकृतेरप्यन्वयापत्तेरयुक्तमाशङ्क्य द्वेधा व्याचष्टे—मानसादिति । निष्कृष्टकृतित्वाचित्वनिश्चयात्सामर्थ्यात्मकजाड्यरूपेणापचारेण सम्बन्धस्मृतावप्याकृत्यप्रतीतिः शीघ्राप्रतीतिर्वा विवक्षितेति भावः । ननु यदि गोशब्दात्स्वतन्त्राकृतिः प्रतीयते ततः केन हेतुना गोशब्दस्य शाबलेयादि- शब्दसामानाधिकरण्यं प्रतीयते, न गोत्वशब्दस्येत्याशङ्कते—केनेति । गोत्वमित्यत्र प्राति- पदिकवाच्याया जातेर्भावप्रत्ययेन व्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्याप्रतीतिः । गोरित्यत्रान्वयव्यतिरेकांशस्य विवक्षितत्वात्सामानाधिकरण्यप्रतीतिरिति विशेषहेतुमाह— व्यतिरेकांशस्येति । ननु भावप्रत्ययेन व्यतिरेकांशस्य विवक्षायां गोतवांश्छावलेय इत्यपि सामानाधिकरण्यं न स्यादित्याशङ्क्याह—गोत्ववानिति । यद्यप्यत्र स्फुटो व्यतिरेको विवक्षितः तथापि प्रकृतिप्रत्ययविभागोपपत्तेर्मतुप् प्रत्ययेन जातिमदभिधानात्तद्वाचिना शावलेयादिशब्दस्य सामाधिकरण्यं युक्तमिति भावः । स्फुटमितिपाठे स्फुटमिति क्रियाविशेषणं स्फुटं निष्कृष्टत्वेन गोत्ववाचिनि गोत्वशब्दे यत्र परतो मतुप्प्रत्ययो भवति, तत्र तेन जातिमदभिधानमित्यर्थः । ननु मतुप्प्रत्ययेनापि व्यक्त्यभिधाने व्यक्त्यभिधानपक्षोक्ताः सम्बन्धानाख्यातादयो दोषाः प्रसज्येरन्नित्याशङ्क्याह— सामान्यस्य वेति । जातिमदभिधाने प्रमेयान्तर्गतत्वेन व्यावर्तकत्वाज्जातेर्विशेषणत्वेऽपि विशिष्टवाचिना प्रत्ययेनानुपादानादुपलक्षणत्वोक्तिः । ननु गौरित्यत्राव्यतिरेकांशविवक्षायां जातिव्यक्त्योरभेदात् व्यक्तैर्वा गोशब्दो वाचको जातेर्वेति चिन्ता न युज्येतेत्याशङ्क्याह— भेदानामिति । अयं विचार्यत्वेन प्रकृतो गोशब्दः पक्षद्वये भेदानां व्यक्तीनामेव वाचकः । सामानाधिकरण्याद्यन्यथानुपपत्तेरिष्यते । स्वरूपेण व्यक्तिर्वाच्या नान्यात्मना वेत्येतावत्तु विचारार्थः । व्यक्तिवाचित्वेऽपि व्यक्त्यन्तरे प्रयोगोपपादनार्थम्—सर्वेषामित्युक्तम् । नन्वेवं सत्यानन्त्यात्सम्बन्धग्रहणानुपपत्तिरित्याशङ्क्य—प्रत्येकमित्युक्तम् । समुदितानां वाच्यत्वे सम्बन्धग्रहणासम्भवः स्यात् नान्योन्यनिरपेक्षाणां वाच्यत्वे जात्यात्मना चैकेन नित्येन रूपेण वाच्यत्वान्न शक्त्यानन्त्याद्यापत्तिरिति भावः । ननु गोशब्दोच्चारणे व्यक्ति- विशेषानिर्धारणाच्च व्यक्तेर्वाच्यत्वं युक्तमित्याशङ्क्याह- यस्त्विति । व्रीहीन्प्रोक्षतीत्यादा- वुद्दिश्यमानेषु व्रीह्यादिषु प्रकृतापूर्वसाधनव्यक्तिविशेषनिर्णयान्न सन्देहाशङ्का व्रीहिभिर्य- जेतेत्यादावुपादीयमानत्वेऽप्यन्यजातीयव्यक्तिभ्यो व्रीहिजातीयानां व्यावृत्तिप्रतीतेर्व्रीहि- जातीयैव व्यक्तिरित्यस्त्येव निर्णयः । सर्वासां तूपादानायोगात्कियतीनामुपादेयतेति संख्या- श्रयमात्ररूपसन्देहः न व्यक्तिरूप इत्यर्थः । अधिकरणोपक्रमे जातिशब्दा एवाऽत्र विद्यन्त इति यदुक्तम् तत्परमतेनेति द्योतयितुं तस्माद् गौरश्व इत्येवमादय इत्युपसंहारभाष्यं स्वमतेन नामाख्यातरूपद्विविधपदविषयत्वेन