मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 748, कुल 804 में से
संदर्भ में पढ़ेंविशेषस्त्विति । परानभ्युपगतत्वादनाशङ्क्यत्वाच्च द्रव्यत्वस्येति दृष्टान्ततया व्याख्येयम् । अगम्यः ज्ञातुमशक्य इत्यर्थः । आगमगम्य इति पाठस्त्वव्यापकत्वेन लक्षयितुं शक्यत्वादयदि परमागमगम्यः स्यात् चासावस्तीत्युपहासाथंत्वेन व्याख्येयः । ननु निर्विशेषसामान्यानुपपत्तेः कस्यचिद्विशेषस्यावसायाद्धर्मविधिविषयत्वं भविष्यत्यत आह-न चेति । प्रत्येकरूपेण निर्धारितरूपेणानवगतं विधिना न सम्बध्यत इत्यर्थः । ननु पशुत्वाश्रयो यो विशेष इत्येवं निर्धारणाद्विधिविषयतोपपत्स्यत इत्याशङ्क्याह— न चेति । पशुत्वाश्रयाणामनेकत्वात्सर्वेषां चोपादानानाशक्तेरयं वोपादेयः, अयं वेति सन्देहा- निवृत्तेर्न निर्धारणोपपत्तिरित्यशयः । ननु सामान्यमात्रे पर्यवसितेऽपि शास्त्रेऽनुष्ठानवेलायां विशसनादेस्तत्रासम्भवात्तदाश्रयविशेषे प्रत्यक्षोपनयनेन निर्धारिते अनुष्ठानं भविष्यतीत्या- शङ्क्याह—न चेति । यस्मादन्यत्रोक्तो धर्मस्तत्रासम्भवमात्रेणान्यत्र न कार्यतया शास्त्रेणा- नुज्ञातः तस्मान्न .सामान्ये कृतो विहितो विशेषेषु कत्तुं युक्त इत्यर्थः । किं च प्रत्यक्षैक- समधिगम्यस्यासाधरणस्य शब्दव्यवहाराविषयत्वान्छुक्लादिरूपो विशेषो वाच्यः यस्तस्य चामूत्तंत्वात्पशुत्ववदेव विधिविषयत्वासम्भव इत्याह—विशेष इति । उपसंहरति— तस्मादिति । अत्यन्तव्यतिरेकपशे च गौः शुक्ल इति सामानाधिकरण्यं पशुनेति लिङ्गकारक- संख्यान्वयश्च लक्षणया स्यात् सा च लोके मुख्यत्वप्रसिद्धेरयुक्तेत्याह—सामानाधिकरण्यादि चेति । ननु यदि पशुं विशस्तीत्यादावन्वयसव्यतिरेकपशे धर्मविधि विषयत्वयोग्या व्यक्तिनं प्रतीयते, कथं तर्हि भाष्यकृताऽऽकृतिर्व्यक्त्या नित्यसम्बद्धा सम्बन्धिन्ध्यां च तस्यामवगतायां सम्बन्ध्यन्तरमवगम्यत इति, व्यतिरेकमभ्युपगम्य तदेतदात्मप्रत्यक्षं शब्द उच्चरिते व्यक्तिः प्रतीयत इति वदत आकृतिवाचिशब्दोच्चारणे व्यक्तिप्रतीतिरुक्तेत्याशङ्क्याह—भाष्येति । व्यतिरेकाभ्युपगमेऽनया व्यक्तेर्गतिः प्रतीतिरुक्ता साश्रयत्वमात्रेण, न विशेषरूपेण । न हि विशेषरूपा व्यक्तिः शब्दात्प्रतीयत इत्यर्थः । अभ्युपगमशब्देन परमताभ्युपगममात्रेण व्यति- रेकोऽभिहितः न स्वमताभिप्रायेणेति सूचितम् । ननु व्यतिरेकस्यानभिमतत्वे योऽर्थः सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिरित्याश्रयाश्रयिभावोक्तिनं युज्येतेत्याशङ्कथाह— योऽपीति । नन्वाकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेषेष्यतीति भाष्याद्विशेषलक्षणप्रतीतेः कथमाश्रयमाश्रयमात्रगति सत्तेत्युक्तम । शङ्कयाह—सामान्याच्चेति । सामान्याद्विशेषस्य लक्षणं यद्भाष्यकृतोक्तम्, तन्नाश्रयितव्यम् । आश्रयणमादरशं न कत्तंव्यमिति भावे कृत्यं व्युत्पाद्य व्याख्येयम् । लक्षणानाश्रयितव्येति पाठे साऽनादर्त्तव्या, आक्षेपमात्रस्य भावाद्दि- शेषस्य त्वाक्षेप्यस्य गम्यस्याव्यभिचारिलिङ्गाभावेनाभावादित्यर्थः । यद्वा यच्छब्द उच्चरिते व्यक्तिः प्रतीयत इत्ययं प्रपञ्चो न व्यक्तिप्रतीतिसद्भावविषयः किं तु किं शब्दात्, आकृतेर्वेत्येतद्विचारविषयत्वेन यथा सिद्धव्यक्तिप्रतीत्यनुवादोऽयमित्याह- अथ वेति । प्रसङ्गादादितः सोऽन्वयव्यतिरेकाभ्यामिति भाष्यं व्याचष्टे—अन्वयेति । शब्द- व्यतिरेकेऽप्याकृत्यन्वये व्यक्तिप्रत्ययान्वयप्रतिपादनार्थमन्तरेणापीति भाष्यमुदाहरणनिष्ठतया