मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 750, कुल 804 में से
संदर्भ में पढ़ें६१६ मीमांसादर्शनम् [ सू० व्याचष्टे—गवादीति । गुणक्रियाशब्दोपसंग्रहार्थः सर्वशब्दः विचारप्रयोजनमाह—प्रयोजन- मिति । पूर्वपक्षविशेषणसामर्थ्यात् सिद्धान्ते बाध इत्युक्तं भवति । वर्णकान्तरस्वाभावेऽपि पूर्वव्याख्याप्रकारे केनचिद्दूषणक्षेपदोषेणाप्रसन्नाभिधानाच्छिष्यक्लेशपत्तेः । सुखप्रतिपत्त्यर्थं प्रकारान्तरमारभते—एवं वेति । प्रासङ्गिकत्वेन तावत्सङ्गतिमाह—गौरिति । विचार- विषयं बोधयति—चतुर्विध इति । संशयोत्पत्तिरित्यनेन यावकादिद्रव्यशब्दानां देवदत्तादि- यदृच्छाशब्दानां सर्वादीनां च सर्वनामशब्दानां व्यक्तिवाचित्वेन निश्चयात्संशयानुपपत्ते- र्निपातोपसर्गवद्विचारविषयत्वमस्तीति सूचितम् निपातोपसर्गयोर्जातिव्यक्तिवाचित्वसंशया- नुपपत्तौ हेतुमाह—तयोरिति । अभ्युपगम्यापि वाचकत्वमन्वित्यादिषूपसर्गेषु पश्चादित्यादिषु च निपातेषु पदान्तरान्वयात् पूर्वं कस्यचिद्गार्थंस्याऽप्रतीतेः पदान्तरान्वये च विशेषस्यैव प्रतीतेः । सन्देहानुपपत्तिमाह—वाचकत्वेऽपीति । पाश्चात्यशब्दान्तर्गतः पश्चाच्छब्दोऽत्रोदा- हरणं संशयेन ज्ञाप्यते न विषयीक्रियत इत्यर्थः । एतदेव विवृणोति—यदोति । ननु पौनरुक्त्यापत्तेर्नैतस्यातं विचार्यमित्याशङ्कते—आख्यातव्यापीति । अत्र प्रकृत्यर्थः तत्र प्रत्ययार्थ इति पुनरुक्ति-परिहारः ननु द्वितीयाध्याय्याद्येऽधिकरणे द्रव्यादिशब्देभ्योऽपूर्व मावशब्देभ्यो वेति विचारान्नाख्या- तार्थविचारणेत्याशङ्कयाह—कः पुनरिति । अन्यार्थेऽप्यधिकरणप्रसङ्गाद्भाष्यकृतार्थ- निरूपणात्पौनरुक्त्यं भवतीत्याशयः । तत्र प्रत्ययार्थचिन्तेव प्रकृत्यर्थचिन्तेति परिहरति— प्रत्ययार्थस्येति । आश्रयं तु प्रत्ययार्थविचारे पौनरुक्त्यं परिहर्तुमशक्नुवतां परिहारे इत्यपरितोषादन्यथा स्वमतेन परिहरति -- प्रकृत्यर्थेति ! प्रत्ययार्थस्य प्रकृत्यर्थाद्विवेकायेह सिद्ध एव प्रकृत्यर्थस्तत्र वक्ष्यत इत्यर्थः । ते च यागदानहोम सम्बद्धा इत्यादिना प्रकृत्यर्थस्य यागस्य भाष्यकृता स्पष्टीकृतत्वात् भाष्यकारेणेत्युक्तम् । ननु सूत्रकारानुक्तिसूचनार्थं तेनापि कर्मशब्दपदेन प्रकृत्यर्थस्योक्तत्वात् । अयमपि विषयभेदं वक्तुमशक्नुवतां परिहार इत्य- परितोषात्स्वमतेनान्यथा परिहरति--यज्याद्यर्थेऽपि वेति । सामान्यविशेषयोर्मध्ये इति निर्धारणे षष्ठी प्राप्तेतीहावसरप्राप्त्युक्त्या तत्रासङ्गतत्वात्सामान्यविशेषविचाराभावः सूचितः । प्रासङ्गिककथया चैतत्पौनरुक्त्यं परिहृतम् । प्रधानचिन्तया तु पौनरुक्त्यशङ्कव नास्तीत्याह—अपूर्वमिति । अतोऽत्र युक्ता द्विविधस्य पदस्यार्थचिन्तेत्युपसंहरति-नामेति । गोसदृशो गवयः इति जातौ गोशब्दप्रयोगाद् गौरानय इति च व्यक्तौ प्रयोगाच्च गोशब्दो- च्चारणाच्चोभयप्रतीतेर्वृद्धव्यवहारस्योभयत्र तुल्यत्वं शब्दलक्षणे महाभाष्यकारेण किं पुनराकृतिः पदार्थः, आहोस्विविद् द्रव्यमिति पृष्ट्वोभयमित्याहेत्याकृतिपक्षवद्व्यक्तिपक्षस्याप्य- भिधानाच्च शास्त्रस्याप्युभयत्र तुल्यतेति, द्वेधा सन्देहहेतुमाह -- प्रयोगस्येति । भाष्योक्त- सन्देहहेतुनिरासार्थमस्माद्धेतुद्वयादेव—संशयो न प्रतिभातीत्युक्तम् । ननु यदि सामान्य- प्रत्ययाद्व्यक्तौ च क्रियासम्भवात्सन्देहः स्याद्, ततः प्रतीयमानाया आकृतेरक्रियार्थत्वात् क्रियार्थायाश्च व्यक्तेरप्रतीतेर्वाक्यार्थौपयिकपदार्थासम्भवाद्द्द्यक्तिवाच्यत्वपूर्वपक्षस्याकृतिवाच्य-