मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 74, कुल 804 में से
संदर्भ में पढ़ें२२ मीमांसादर्शनम् [ सू० न च यत्सहसा सर्वस्य प्रत्यक्षं न भवति, तन्निपुणतोऽपि पश्यतां न प्रत्यक्ष- मित्येतदप्युक्तमेव । स्त्र्यपराधात्तु दुर्ज्ञानोऽयं संबन्ध इति स्वयमेव वक्ष्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि यदिगिरिशृङ्गमारुह्य गृह्येत, तद्- प्रत्यक्षम् । न च स्त्रीणां क्वचिद्व्यभिचारदर्शनात्सर्वत्रैव कल्पना युक्ता, लोक- विरुद्धानुमानासंभवात् । विशिष्टेन हि प्रयत्नेन महाकुलीनाः परिरक्षन्त्यात्मा- नमनेनैव हेतुना राजभिर्ब्राह्मणैश्च स्वपितृपितामहादिपारम्पर्याविस्मरणार्थं समूहलेखानि प्रवर्तितानि । तथा च प्रतिकुलं गुणदोषस्मरणात् तदनुरूपाः प्रवृत्तिनिवृत्तयो दृश्यन्ते । न च भर्तृव्यतिरेककृतेन वर्णसंकरोऽपराधेन जायते । दृश्यते ह्यपराधिनीनामपि स्वभर्तृनिमित्तः प्रसवः । तदपराधनिमित्तस्तु तासाम- शुभफलोपभोगो भवेत्, न त्वपत्यानां वर्णसंकरः । न च नियोगतो वर्णान्तरैरेव सह प्रमादः । सवर्णेन चोत्पादितस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि च पुनरुत्कर्षापकर्षाभ्यां सप्तमे पञ्चमे वाऽन्यतरवर्णापत्तिः स्मर्यते । तत्र त्वेता- वन्मात्रमागमकिं प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो लौकिकप्रमाणगम्यः । तस्मात्सत्यपि सारूप्ये यथा केनचिन्निमित्तेन स्त्रोपुंस्कोकिलादिविभागज्ञानम्, तथैव दर्शनस्मरणपारम्पर्यानुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादीनीति, भवत्य- ज्ञानवचनस्य प्रत्यक्षविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वादयस्तेषामपि दृष्टविरोधस्तावदस्त्येव, न त्वाचारनिमित्तवर्णविभागे प्रमाणं किंचित् । सिद्धानां हि ब्राह्मणादीनामाचारा विधीयन्ते, तत्रेतरेतराश्रयता भवेत् । ब्राह्मणादीना- माचारस्तद्वशेन ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरशुभा- चारकाले शूद्र इत्यनवस्थितत्वम् । तथैकेनैव प्रयत्नेन परपीडानुग्रहादिकुर्वतां युगपद्ब्राह्मणत्वाब्राह्मणत्वविरोधः । एताभिरुपपत्तिभिस्तद्वयं प्रतिपाद्यते । न तप आदीनां समुदायो ब्राह्मण्यम्, न तज्जनितः संस्कारः । न तदभिव्यङ्ग्या जातिः । किं तर्हि ? मातापितृजाति- ज्ञानाभिव्यङ्ग्या प्रत्यक्षसमधिगम्या । तस्मात्पूर्वेणैव न्यायेन वर्णविभागे व्यवस्थिते, मांसेन शूद्रीभवतीत्येवमादीनि कर्मनिन्दावचनानि, अथ वा वर्णत्रय- कर्महानिप्रतिपादनार्थानीति वक्तव्यम् । पूर्ववच्चात्रापि क्लृप्तत्वात्प्रत्यक्षस्य, कल्प्येनाज्ञानविधिना सह विकल्पो न संभवति । अपि च तत्रानुष्ठानात्मकत्वा- द्वेदपि, न त्वत्र, वस्तुरूपाणामैकात्म्येनाविकल्प्यत्वात् । 'को हि तद्वेदेति पूर्ववदेवाज्ञानसंशयविपर्ययाणामनौपयिकत्वादानर्थक्यम् । निश्चितवेदप्रामाण्यैश्च त्रैविद्यवृद्धैर्विज्ञायमानत्वात्स्वार्थेऽप्यातर्थक्यम् विकल्पाभावश्चानन्तरोक्तवत् ॥२॥ न्या० सु०--अत्र भाष्यकारेण स्तेनं मन इत्याद्युदाहृत्य एवंजातीयकानां धर्मं प्रति अप्रामाण्यम्, भूतानुवादादित्युकम् । तदेवंजातीयकानि कं धर्मं प्रमिमीरन्नित्यनेन गतार्थ- त्वात्पुनरुक्तमित्याशङ्क्य व्याचष्टे--वाङ्मनसोरिति । अनेनैवं भाष्यं व्याख्यातं भूतशब्दः