मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 75, कुल 804 में से
संदर्भ में पढ़ें२ ] प्रथमाध्याये द्वितीयपादः। २३ परमार्थवाची, यादृशं परमार्थतः प्रच्छन्नरूपतदौपचारिकं मनसःस्तेनत्वम्, प्रायिकं च वाचोऽ- नृतवादिनीत्वम्, तादृशानुवादमालोच्य धर्मं प्रत्यप्राण्यम्' अतथाभूतमुख्यरूपस्तेना- नृतवादिनोत्वकीर्त्तने तु स्वार्थेऽप्यप्रामाण्यमिति भूतानुवादादिति विशेषणोपादानसामर्थ्यात् सूचितम् । ततश्च पूर्वोदाहरणेष्वतीथार्थकीर्त्तनेन योग्यानुपलब्ध्यभावान्नस्वाथांसत्यत्वा- निश्चयेऽपि धर्मं प्रत्यप्रामाण्यमुक्तम् । इह तु स्वार्थेऽप्यसत्यत्वमित्यधिकार्थत्वादपौनरुक्त्य- मिति । अनेन चेहोदाहरणे पूर्वसूत्रमेवं योजितम् । मनसःस्तेनशब्दवाच्यपरस्वापहारित्वा- भावाद्वाचश्चानृतवदनकर्तृत्वभावावन्मुख्यरूपस्तेनानृतवादिनीत्वकीर्त्तने स्वार्थासत्यत्वादान- र्थक्यमभिधेय शून्यत्वं यथादृष्टार्थानुवादेऽप्यक्रियार्थत्वाद्वानर्थक्यं निष्प्रयोजनत्वमिति । अध्याहारादिभिस्तु क्रियार्थत्वकल्पने प्रतिषेधशास्त्रविरोधापत्तेरानर्थक्यमेव युक्तमिति, शास्त्रविरोधसूत्रव्याख्यानाथं विपरीणामादिभिरित्यादिभाष्यं तद्व्याचष्टे-अथ त्विति । न चेत्यादिभाष्यमाशङ्कापूर्वं व्याचष्टे - तत्रेति । अत्राशङ्कते-ननु चेति । पितृयज्ञे२ ऽतिदेशप्राप्तस्य होतृवरणस्य न होतारं वृणीत इति निषेधः श्रूयते । दर्शपूर्णमासयोश्चा- नारभ्य विधिप्राप्तस्य ये यजामहस्य नानुयाजेषु यजामहं करोतीति । तत्रानयोर्नित्यं बाधो विकल्पेन वेति निरूपणार्थं नञ् अयं प्रतिषेधार्थः, पर्युदासार्थो वेति चिन्तायां पूर्वपक्षयिष्यते । श्रुत्या नञः प्रधानभूतविधायकान्वयेन निषेधार्थत्वं प्रतीतमपि नेक्षेतेत्यत्र व्रतशब्दसामानाधिकरण्यादनङ्गीकृत्योपसर्जनोभूतधात्वर्थान्वयेन पर्युदासोऽङ्गीकृतः । न त्विह तथा, विकल्पपर्युदासे ऽप्यपरिहार्यः, तस्यापि पर्युदसनीयप्राप्तिसापेक्षत्वात् । अन्यथा 'न सौम्येऽध्वर' इत्यस्यापि पर्युदासत्वापत्तेः । किं चान्यत एव तदन्येषु प्राप्तेस्तदन्यमात्रसङ्कोचार्थत्वे च पर्युदासोपसंहारयोर- भेदापत्तेर्न पर्युदासाख्यविध्यन्तरोपपत्तिः । तस्मात्प्रतिषेध एवायम्, ततश्च विहितप्रतिषिद्ध- त्वाद्विकल्प इति तत्र प्राप्तिसापेक्षस्यापि सुरापानादिनिषेधवद्विशेषनिष्ठत्वाद् बलीयस्त्वं स्यादित्याशङ्क्य विशेषनिष्ठेनापि निषेधेनात्मलाभायोगापत्तेः सामान्यरूपस्यापि विधेः स्वविषयादपनेतुमशक्यत्वादनपनीतस्य च शास्त्रस्यात्यन्तबाधायोगाद्विकल्पो दुःपरिहर इत्युक्तम् । न तुल्यहेतुत्वादुभयं शब्दलक्षणमिति । सिद्धान्तस्तु कर्तव्यत्वप्रतिपादनात्मक- विधिविरोधित्वेनाकत्तंव्यत्वप्रतिपादनात्मकनिषेधे जाग्रति विकल्पापत्तेस्तत्परिहाराय पर्युदासो ऽत्राङ्गीक्रियते, तस्य विषयसमर्पणेनानुकूलतया विकल्पानासञ्जकत्वात्तन्मा- त्रसङ्कोचनार्थोपसंहारात्तदन्यमात्रसङ्कोचार्थस्य पर्युदासस्य स्पष्टं वैलक्षण्यमित्यनवद्यम् । परिहरति-सत्यमिति । दृष्टविरोधादीन्वक्ष्यमाणान्सर्वान्हेतूनभिधेयशून्यरूपानर्थक्य- प्रतिपादनपरतया सामान्यतो व्याचष्टे-अतः परमिति । अत्र भाष्यकारेण धूम एवाग्ने- दिवा दहशे नार्चिरित्यादिदृष्टविरो धोदाहरणं दर्शयित्वा, तस्माचैषावधारणा सिध्यती- त्युक्तम् । तद्धम एवार्ारिचेवेत्यवधारणानुपपत्त्युपसंहारार्थत्वेन तावद्व्याचष्टे-रात्रि- १. पूर्वोक्तविपरीतमिति भावः । २. चातुर्मास्ये साकमेधाख्ये तृतीये पर्वणि महापितृयज्ञादित्यर्थः ।