मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 76, कुल 804 में से
संदर्भ में पढ़ें२४ मीमांसादर्शनम् [ सू० न्द्विमिति । यद्वैतदेवधारणद्वयानुपपत्त्युपसंहारस्य तस्मात् दृष्टविरुद्धमित्यनेनैव सिद्धत्वात्त- दुपपाद्यस्य यस्य दिवाग्निरादित्यं गतो रात्रावादित्यस्तमित्यवधारणद्वयस्यासिद्धिप्रतिपाद- नार्थमेतद्भाष्यमित्याह—अथ वेति । स्वरूपपरत्वस्य वा सिद्धान्तिनोऽनिष्टत्वात्तत्रा- सत्यत्वे ऽपि न कापि क्षतिरित्याशङ्क्य स्वार्थासत्यत्वे निरालम्बनस्तुत्यनुपपत्तिम्, तदनु- पपत्त्या वा तत्कल्प्यमन्त्रविध्यनुपपत्तिमेकदेशाप्रामाण्ये वा समस्तवेदप्रामाण्यावधारणा- नुपपत्तिं प्रतिपादयितुमेतदित्याह—तत्तत्रेति । एतच्च स्वार्थासत्यत्वप्रतिपादनस्य पूर्वं- पक्ष्यभिप्रेतधर्मप्रामाण्योपयोगित्वप्रदर्शनार्थं व्याख्यानत्रयम् । न त्वनन्तरनिर्दिष्टस्य स्तुत्या- दिरेवेति, सर्वनाम्ना निर्देशो युज्यते । एकैकोदाहर णे चोभयविरोधव्याख्यासिद्धेरूदाहरण- द्वयमनर्थकम् । अथ परिहारवैलक्षण्यादुदाहरणद्वयम् । तथापि शास्त्रविरोधोदाहरण- द्वयमुक्त्वा दृष्टविरोधोदाहरणं वाच्यम्, व्युत्क्रमे किं कारणमित्याशङ्कयाह—शास्त्रेति । प्रायादित्यनेनानृतवादिनीत्यालम्बने बाहुल्येऽभिहिते, धूम एवेत्यवधारणेऽपि भूयस्त्वा- ख्यस्य बाहुल्यस्यालम्बनत्वेन बुद्धिस्थत्वादनृतवादिनीत्वोदाहरणपरिहारानन्तरं धूमो- दाहरणपरिहारेऽपि भूयस्त्वशब्देनोक्तेनार्चिरित्यदर्शनोक्त्यालम्बनं च समीपगमनक्लेश- निबन्धने दुर्ज्ञेयत्वे दूरशब्देनोक्ते, ब्राह्मण्यज्ञानोक्तावपि स्त्र्यपराधनिवन्धनस्य दुर्ज्ञेयत्व- स्यालम्बनत्वेन बुद्धिस्थत्वात्तदनन्तर परिहार इति परिहारक्रमकारणम् । परिहाराणां सूत्रक्रमेण भेदेन चेति विग्रहः । उदाहरणानेकत्वकारणत्वेन परिहारभेदोक्तिः । 'न चैतद्विद्म' इत्यत्राक्रियार्थत्वादप्रमाणमिति भाष्यकारेणोक्तम् । तत्सिद्धान्त्यभिमत- स्तुत्यर्थत्वनिराकरणपरतया व्याचष्टे—न चैतदिति । आर्षेयप्रवरणशब्देनात्र 'प्रवरे प्रक्रि- यमाणे देवाः पितर' इति ब्रूयादित्यार्षेयवरणानुमन्त्रणविधिरभिप्रेतः । तेन चेहोदाहरणे- ऽनुमन्त्रणक्रियास्तुत्यप्रतीतेरानर्थक्यमित्याद्यं सूत्रं योजितम् । तदेवोपपादयति—न हीति । केन चिदंशेनेति—विधेयस्तुत्यंशेनान्यनिन्दांशेन वेत्यर्थः । यद्वा दृष्टविरोधित्वेनैव क्रिया- स्तुत्यर्थत्वासम्भवादानर्थक्यमनेनोक्तमित्येतदेव भाष्यमन्यथा व्याचष्टे—न चेति । अथाय- मर्थ इत्यनेनानर्थक्य एव दृष्टविरोधो हेतुरुक्तः । तद्व्याचष्टे—न चेति । चोदयति—कथं पुनरिति । शास्त्रेणेवेति । सवर्णायां स्वभार्यायामुत्पादितः सवर्ण एवासवर्णायां मूर्द्धा- वसिक्तादिः । परभार्यायां जीवत्पतिकायां कुण्डः, विधवायां गोलकः । पुनश्चोत्कर्षापकर्षा- भ्यामन्यतरवर्णापत्तिरित्यादिशास्त्रैकगोचरत्वान्न प्रत्यक्षगम्यमित्यर्थः । परिहरति—नाय- मिति । एतदेवाशङ्कापूर्वकं विवृणोति—कथं पुनरिति । आशङ्किता स्वाभिप्रायमावि- ष्करोति—कस्मात्पुनरिति । सत्यपीन्द्रियव्यापारे प्रतीत्यभावान्न ब्राह्मणत्वादेः प्रत्यक्षत्वं युज्यते । न चोत्पादकजातिज्ञानस्य सहकारित्वं सम्भवति, आत्माश्रयदोषापत्तेः । प्रागु- त्पादकजातिज्ञानादाप्तवाक्यजनितं ज्ञानं न प्रत्यक्षत्वेनाशङ्क्यमित्यनाख्यातग्रहणेनोक्तम् । यद्वानेन ग्रन्थेन ब्राह्मण्यादिजातिरपह्नूयते । सपिण्डानुवर्त्ती विजातीयेभ्यो व्यावृत्त आकारो जातिर्न च क्षत्रियादिभ्यो व्यावृत्तो ब्राह्मणेष्वनुवृत्तः कश्चिदाकारविशेषो माता- पितृसम्बन्धज्ञेनापि प्रतीयते । तस्माद् ब्राह्मणादिशब्दव्यपदेश्यमातापितृसन्तानजन्यत्वौ-