मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 760, कुल 804 में से
संदर्भ में पढ़ें७०६ मीमांसादर्शनम् [ सू० तावत्स्वयं व्याचष्टे -- अन्यथेति । यद्याकृतिवचन इति व्यतिरेकमुखेन भाष्यकारीयव्याख्या- नमनुसन्धत्ते -- अन्यथेति । पूर्वपक्षमुपसंहरति । तस्मादिति । आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रमुभयत्र क्रियासम्भवादुभयाभिधानप्रति- पादनार्थम् कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थं जातिमात्राभिधानप्रतिपादनार्थत्वेन व्याचष्टे -- इतीति । नन्वाकृतेरपि व्यक्तिवच्चयेनेनानुत्पाद्यत्वात्कथमख्यातश्रवणादाकृतेः पदार्थत्वविज्ञान- मित्याशङ्कयाह -- अत्र हीति । अत्र हि श्येनमिव चितं चयनेन निर्वर्त्तयेदिति वाक्यार्थं इत्यन्वयः । श्येन इव चीयत इति श्येनचिच्छब्दस्य कर्मव्युत्पत्तिप्रदर्शनार्थः । स्थलशब्दः क्विब्वप्रत्ययस्याग्न्याख्यातौपाधिकत्वप्रदर्शनार्थः अग्निशब्दसादृश्यवाचिशब्दाश्रवणात् कथं सादृश्यलाभ इत्याशङ्क्य -- परिशेषादित्युकम् । ननु श्येनव्यक्तिभिः स्थलस्य चेतुं शक्यत्वात् कथं सादृश्यलाभ इत्याशङ्क्य, श्येनशब्दार्थकरणत्वस्य निषेध्यमानत्वात्कर्मतैव वाच्येति दर्शयितुम् -- वाक्यार्थद्वयमुक्तम् । नन्वेवमपि न सादृश्यलाभ इत्याशङ्क्यैतद्वाक्यार्थद्वय- दूषणार्थं -- यावदित्याद्युक्तम् । चयनेन श्येनव्यक्तिं कुर्यादित्येतद्यावन्नोपपद्यते, तथाकृतिं कुर्यादित्येतदपि यावन्नोपपद्यते तावत्परिशेषात्सा दृश्यलाभ इति । यस्मादर्थं यावच्छब्दा- वृत्तिः । तस्मादर्थं तावच्छब्दोत्कर्षेण योज्यम् । चयनेन श्येनव्यक्तिं कुर्यादित्येतत्कस्मान्नोप- पद्यत इत्यपेक्षायाम् -- इष्टकाभिरित्युक्तम् । स्नाव्यादिभिस्तर्हि श्येनव्यक्त्यन्तरादुद्भूतैः क्रियतामित्याशङ्क्य स्नाव्यादिभिः -- अपीति हेतुद्वयमुक्तम् । ननु स्त्रीपुंसमैथुनेन तर्हि क्रियतामित्याशङ्क्य, तेन निष्पन्नाया अपि श्येनव्यक्तेरग्नि- शक्तवात्तादर्थ्यासम्भवेन प्रयोजनान्तरकल्पनापत्तेः, मैथुने च चाग्न्याख्यानुपपत्तेरग्न्याख्या- निमित्तक्विप्प्रत्ययस्मृतिपरित्यागापत्तेश्चेत्युक्तम् । इष्टकाबाधश्चात्रापि तुल्यः । चयनेनाकृतिं कुर्यादिति वाक्यार्थानुपपादनार्थम् -- आकृतेरपीत्युक्तम् । ननु सादृश्यमपि श्येनव्यक्त्या सह करिष्यते, अत आह -- ततश्चेति । एकया वा श्येनव्यक्त्यन्तरविलक्षणया श्येनव्यक्त्या सहाग्न्याख्यस्थलस्य सादृश्यं सम्पद्येत, सर्वाभिर्वा । तत्रानिर्द्धारितरूपैकव्यक्तिसादृश्यस्य व्यक्तिनिरपेक्षजातिसादृश्यासम्भवेन जातिसादृश्यव्यतिरेकापत्तेर्निर्द्धारितरूपव्यक्त्यन्तर- विलक्षणैकव्यक्तिसादृश्यं वाच्यम् । न चेष्टकाभिस्तत्सुसम्पादम् । सर्वव्यक्तिसादृश्यं तु तासां परस्परवैलक्षण्यादतीतानागतानां चाग्रहणेन तत्सादृश्याग्रहणादवाङ्मुखमेवेत्याशयः । ननु चेत्याशङ्काभाष्यं व्याचष्टे -- अथेति । न साधकतम इत्युत्तरभाष्यमनुवादपूर्वक- माक्षिपति -- तत्रेति । यद्यपि सिंहं देवदत्तमानयेति सिंहशब्दवच्छ्येनं चितमिति द्वितीयान्तः श्येनशब्दः स्यात् तथापि तावत्सादृश्यविशेषणार्थत्वेन मुख्यार्थत्वाभावात्, मुख्यार्थत्वेऽपि वा श्येनमानयेति गोशब्दवत्परविशेषणार्थत्वेन स्वप्रधानभूतार्थप्रतिपादकत्वाभावान्न मुख्य- श्येनशब्दार्थस्य करणत्वेनाशङ्कितस्येप्सिततमतयाभिधानायाऽलम् । अयं च द्वितीयान्तवत् भवति । तस्याः श्येनशब्दानन्तर्य्यमात्रादित्यर्थः । क्विब्वप्रत्ययान्तः शब्दोऽत्रेिप्सिततमत्व- निर्देश्कोऽभिमतः । न द्वितीयेतिभाष्यं समाधत्ते -- तेनेति । स्मृतिपर्यालोच्येति ल्यब्लोपे