भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 770, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 770

भा० वि०—प्रथमेनेतिचेदित्यनेनाकृतिवचनत्वपक्षं परामृश्य न क्रिया स्यादि- त्यादिना पूर्वपक्षहेतुत्रयं प्रयोगचोदनाभावादिरूपमनुभाष्यत इति व्याचष्टे— अथ यदुक्तमित्यादिना । अद्रव्यशब्दत्वादिति सूत्रेण द्वितीयतयोक्तं हेतुं न द्रव्यमिति चेदिति तृतीयतया अनूदितमपि स्वयं द्वितीयतया व्याचष्टे—न द्रव्य- शब्दः स्यादिति । अनेन संख्यापदस्यानुषङ्गोऽपि सूचितः । अन्यदर्शनादिति तृतीयतयोक्तमर्थान्तरविधानमिति द्वितीयतया अनूदितं च हेतुं न स्यादिति पदद्वयानुषङ्गेण तृतीयतया व्याचष्टे--अन्यदर्शनेति ॥ ३४ ॥ भा० वि०--अनूदितस्य हेतुत्रयस्य परिहार्यतामुक्त्वा परिहारसूत्रमादत्ते— तदित्यादिना । तत्र न क्रिया स्यादित्यनूदितप्रयोगचोदनाभावनिराकरणपरतया तावद्व्याचष्टे--आकृत्यर्थत्वादित्यादिना । प्रयोगः अनुष्ठानम् । एवं चशब्दस्य न्यायेनाकृत्यर्थत्वावधारणादालम्भनादिक्रियाया द्रव्ये प्रयोगस्यानुष्ठानस्याविभागः आकृत्या सह सम्बन्धविशेषः कारणमिति सूत्रं योजितम् । नन्वाकृतिपक्षे तस्या एवापूर्वसाधनत्वापत्तेः कथं तत्सम्बन्धिन्यां व्यक्तौ प्रोक्षणादिप्रयोगः, तत्राह—प्रोक्षणं हीति । ननु द्रव्याणामाकृतिसम्बन्धिनामनेकत्वात् कस्येत्यनध्यवसायः स्यादिति पृच्छति—कतमस्येति । व्रीहिभिर्यजेतेति यागसाधनत्वेन विहितान् व्रीहीनुद्दिश्य प्रोक्षणादीनां विधानान्नानध्यसाय इति परिहरति--यजति यागसाधनमिति । कस्माद्यागसाधनस्य द्रव्यस्यैवेति नियम इत्यपेक्षायां तस्यैव यागद्वारा अपूर्व- साधनत्वात् तत्प्रयुक्तत्वाच्च प्रोक्षणादीनामित्याह—अपूर्वेति । द्रव्यस्यैवेत्यस्य व्यावत्र्यमाह--नाकृतेरिति । अशक्यत्वादिति । त्यक्तुमशक्यत्वेनापूर्वसाधना- सामर्थ्यादित्यर्थः । नन्वेवमपूर्वीयत्वेन व्यक्तेरेव प्रोक्षणादिसम्बन्धे किमाकृत्यभिधानेनेति, तत्राह—तत्र व्रीहिशब्द इति । एतदेव विवृणोति—स इति । तेन यत्र व्यक्तेरेव प्रयोगान्वयः तत्रापि तत्प्रयोगितयाकृत्यभिधानं न विरुध्यत इति निगमयति— तेनेति । न द्रव्यमितिचेदित्येतदुत्तरत्वेनापि तदर्थत्वादित्यादि सूत्रं व्याचष्टे—तथा षड् देयाः इत्यादिना । तत्र व्यक्तेरेव संख्यान्वयेऽपि तद्विशेषणतया आकृति- वचनमविरुद्धमित्यर्थः । अत्र त्वाकृत्यर्थत्वाच्छब्दस्य षडादिसङ्ख्याया अपि द्रव्ये प्रयोगस्य प्रकर्षकर्तृत्वेन विशेषणत्वेन प्रयोगस्याविभागः सम्बन्धः कारणमिति सूत्रं व्याख्येयम्, अर्थान्तरविधानं न स्यादित्यउत्तरत्वेनापि व्याचष्टे--तथान्यमितीति । नष्टस्य पशोः प्रतिनिधित्वेन य उपात्तः तस्यैवान्यत्वादिसम्बन्धेऽपि तद्विशेष- कत्वेनाकृतिवचनं न विरुध्यत इत्यर्थः । अत्रापि न्यायेनाकृत्यर्थत्वाच्छब्दस्य प्रतिनिहिते द्रव्यान्तरेऽन्यत्वादिधर्मवति प्रयोगस्यानुष्ठानस्याविभागस्सम्बन्ध-