मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 771, कुल 804 में से
संदर्भ में पढ़ें३४-३५ ] प्रथमाध्याये तृतीयपादः ७१७ विशेषः कारणमिति सूत्रयोजना द्रष्टव्या । उक्तेनैवागृहीतविशेषणन्यायेन गुण- क्रियादिशब्दानां तद्वाचित्वमपि सिद्धं कृत्वोपसंहरति--तस्मादिति । एवं प्रस- ङ्गागतं पदानामाकृत्यर्थविचारं परिसमाप्य, प्रकृतं स्मृत्याचारोपस्थापितश्रुति प्रामाण्यमुपसंहरति--इतीति ॥ ३५ ॥ ॥ इति श्रीमन्नारायणामृतपूज्यपादशिष्यश्रीगोविन्दामृतमुनिविरचिते शाबर- भाष्यविवरणे प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥ त० वा०-ये त्वाऽऽलम्भनादिचोदनाभावादयो 'न क्रिया स्यात्' इत्येत- त्सूत्रानुभाषिताः पूर्वपक्षोक्ता हेतवः तेषां सर्वेषामनेन सूत्रेण परिहारोऽभि- धीयते-- अविभागादित्यस्य चतुर्धा व्याख्यानम् 'तदर्थत्वात्प्रयोगस्याविभागः' इति । तदर्थत्वात्--अपूर्वार्थत्वाद्धालम्भनप्रोक्ष- णाद्यङ्गानामपूर्वसाधने प्रयोगेन भवितव्यम्, द्रव्यं चापूर्वसाधनम्, यागेन स्वसि- द्ध्यर्थमाक्षिप्तत्वात्, नाऽऽकृतिः समर्थत्वात्, तदभिधानं तु द्रव्यनियमार्थं प्रति- पत्तव्यम्, न स्वार्थम् । जातेरनपेक्षितत्वाददृष्टार्थत्वप्रसङ्गात्साधनत्वाप्रतीतेश्च । यदपि जातेः प्रातिपदिकाभिहितायाः करणत्वं प्रतीयते, तदपि द्रव्यनियाम- कत्वेनैव, न साक्षादयो ग्यत्वात् । तेनाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वाद् द्रव्ये वाऽऽलम्भनप्रोक्षणसंख्याकार कसामानाधिकरण्यादिसंभवाददृष्टता । तदाह- प्रयोगस्याविभाग इत्याकृतिपक्षेऽप्या लम्भनादिप्रयोगस्य द्रव्यादविभक्ततैवेति । अथवाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वा दुक्तवत्प्रयोगस्याविभाग इति । यद्वा । आकृतिव्यक्त्योरत्यन्तभेदा भावात्कदाचिद् व्यक्तिरूपेण द्रव्यमभि- धीयते, कदाचित्सामान्यरूपेण यथा--विवक्षितम् । तथा--शब्दस्योभयरूप- वस्त्वर्थत्वाद् व्यक्त्यभिधानेऽपि न प्रयोगस्य विभागः नानारूपतेति । जातेर्वा व्यक्तितोऽत्यन्तभेदाभावाद्, व्यक्तौ कृता धर्मा जातौ कृता एव भवन्तीति, न प्रयोगस्य विभागेन प्रयोजनमिति ।- यद्वा । आकृतिव्यक्त्योरुभयोर्यागार्थत्वाद्धर्माणां च यत्र क्वचन यागसाधने कृतानां प्रयोजनवत्त्वादद्रव्यादविभक्तेति । तस्मादाकृतिपक्षेऽप्या लम्भनादिसंभवादाकृतिरेव शब्दार्थ इति सिद्धम् ॥३४-३५॥ (इति आकृत्यधिकरणम् ॥ ९ ॥) ॥ इति श्रीभट्टकुमारिलस्वामिकृतौ मीमांसावार्तिके प्रथमस्याध्यायस्य तृतीयः पादः ॥