मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 83, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये द्वितीयपादः ३१ ततः स्वार्थेऽपि। वर्त्तमानापदेशाच्च प्रत्यक्षानुपलब्धिविरोधः, कर्मानुष्ठानयोग्य- पुरुषकरणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानादिवन्निराकाङ्क्षत्वात्फलविधित्वं निराकरिष्यते पौनरुक्त्यात् तर्हि अत्र न विचारयितव्यमत आह—तेन फल- विधित्वान्निराकृतस्येहाऽऽनर्थक्यार्थवादत्वविचार इति। स्तुत्यर्थताऽपि चासत्यस्य नास्तीति व्यवस्थितमेव ॥ ३ ॥ न्या० सु०-अत्र भाष्यकारेण 'शोभतेऽस्य मुखमि' त्याद्युदाहृत्य आद्यन्तावत्सूत्रं योजितम्, यदि भूतानुवादोऽनर्थक इति तद्व्याचष्टे—यदि तावदिति। गर्गत्रिरात्रब्राह्मणोपक्रमोपन्या- सस्य य एवं वेदेत्येवं शब्दव्याख्यानार्थत्वं गर्गत्रिरात्रब्राह्मणग्रहणेनोक्तम्। उदाहरणान्तर- गतैवंशब्दस्य व्याख्यानार्थं वेदानुमन्त्रणग्रहणम्। विद्यमानयोरेवेत्यनेन यथादृष्टवचनत्वं भूतशब्दस्य दर्शितम्। सम्भवति च गर्गत्रिरात्राहोनविशेषविधायित्राब्राह्मणज्ञस्य परिहार- सूत्रवक्ष्यमाणप्रकारेण मुखशोभा, वेदानुमन्त्रणज्ञस्य तु वाजिनन्मेति मन्त्रलिङ्गादपि गम्यते। प्रकृतसूत्रयोजनार्थम् अथाध्ययनफलानुवाद इति भाष्यं तद्व्याचष्टे—अथ त्विति। मुख्यरूपयोर्मुखशोभावाजिनन्मनोर्योग्यानुपलब्धिबोधितत्वादिति भावः। कालान्तरफलत्वेन योग्यानुपलब्धिविरोधपरिहारशङ्कानिराकरणार्थत्वेन सौत्रतथाशब्दव्याख्यानार्थं कालान्तर इत्यादिभाष्यं तद्व्याचष्टे—वर्त्तमानापदेशाच्चेति। तदनेन यथाभूतं मुखशोभाद्यनन्तर- फलत्वेन कीर्त्त्यते तथाभूतस्याभावादानर्थक्यमिति सूत्रं योजितम्। फलविधित्वेन कालान्तर- भावित्वावगमात् वर्त्तमानापदेशो ऽयं न भवतीत्याशङ्क्य 'द्रव्य संस्कार कर्मस्वि' त्यत्र निराकरिष्यमाणत्वान्नायं फलविधिरिति भाष्यकृतोक्तम्। तत्र विद्याया द्रव्यदि- बाह्यत्वात्तदधिकरणविषयत्वमाशङ्क्य संस्कारान्तर्गतिं दर्शयितुमाह—कर्मानुष्ठानेति। तत्र हि 'यस्य पर्णमयी जुहूर्भवति' न स पापं श्लोकं शृणोति। तीर्थे स्नाति, तीर्थमेव समानानां भवति। वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजा, इज्यन्ते वर्मं यजमानस्य भ्रातृव्याभिभूत्या, इत्यादीनि द्रव्यादिविषयाणि वाक्यान्युदाहृत्य किमेते फल- विधयः फलार्थवादा वेति विचारयिष्यते। तत्र पर्णतादेरप्राप्तत्वेनावश्यविधेयस्य फला- काङ्क्षायां साक्षात्पुरुषार्थरूपश्रुतफलसम्भवे पारम्पर्य्यपुरुषार्थरूपक्रतूपकाराख्यफलकल्पना- योगात्फलविधित्वेन पूर्वपक्षयित्वा, यथाकथंचित्पुरुषार्थरूपफलत्वेन विध्यनुपपत्तिपरि- हाराद्रात्रिसत्रादिवद्विपरिणामकल्पनानुपपत्तेर्यथाश्रुतवर्त्तमानफलत्वसङ्कीर्त्तनस्य चानुप- लब्धिविरोधान्न फलविधित्वमिति सिद्धान्तयिष्यते। चिन्तयिष्यतेतदित्यादिभाष्यं पौन- रुक्त्याशङ्कानिराकरणार्थत्वेन व्याचष्टे—न पौनरूक्त्यादिति। एवं तर्हि सिद्धान्त्यभिमतं स्तुत्यर्थत्वमेव पूर्वपक्षिणा निराकार्यमित्याशङ्क्य तदर्थमेव स्वार्थसत्यत्वनिरूपणमित्याह— स्तुत्यर्थतेति ॥ ३ ॥ अर्थवाद वाक्यों से अन्य प्रमाणों से सिद्ध विषयों से विरुद्ध विषयों का निर्देश किया गया है, जिसका विश्लेषण पूर्व सूत्र के द्वारा उपलब्ध है। किन्तु, इतना ही नहीं, वरन्, १. ब्र प्रक्रम्योच्यते।