मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 84, कुल 804 में से
संदर्भ में पढ़ें३२ मीमांसादर्शनम् [ सू० ऐसे भी फलों के विषय कहे गये हैं जो नहीं हो सकते हैं। जैसे:-"शोभतेऽस्य मुखं य एवं वेद" (ताण्ड्यमहाब्राह्मण २०।१६।६) "जो व्यक्ति इस प्रकार जानता है, उसका मुख शोभयमान होता है"। यह फल नहीं हो सकता है, कारण, इस प्रकार जानने से मुख कैसे शोभायमान हो सकता है ? इसी प्रकार "आस्य प्रजायां वाजी जायते य एवं वेद"। ',जो व्यक्ति इसको इस रूप में अवगत करता है, उसकी सन्तान वाजी (वाज=अन्न + इन =वाजी) अर्थात अन्नवान् या शस्यवान् होती है", इत्यादि अर्थवाद वाक्यों के फल दृष्ट नहीं होते हैं, अतः, अनेक स्थलों में अर्थवाद निष्फल अर्थात् जिस रूप के फल कहे गये हैं, उनकी प्राप्ति न होने से वे अर्थवाद अप्रमाण हैं। ॥ ३ ॥ अन्यानर्थक्यात् ॥१.२.४॥ शा०—पूर्णहुत्या सर्वान् कामानवाप्नोति, पशुबन्धयाजी सर्वांल्लोकानभिज- यति, तरति मृत्युं, तरति ब्रह्महत्याम्, योऽश्वमेधेन यजते, य उ चैनमेवं वेदेति । यदि भूतानुवादमात्रं तर्ह्यनर्थकम् । अथ फलविधिः, इतरेषामानर्थक्यम् । न ह्यकृत्वा पूर्णाहुतिमग्निहोत्रादयः क्रियन्ते । न चानिष्ट्वा अग्नीषोमीयेन सोमेन यजन्ते । न चानधीत्याश्वमेधमश्वमेधेन यजन्ते । तद्यथा, पथि जातेऽर्के मधुत्सृज्य तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुस्तादृशे हि तत् । अपि चाऽऽहुः- “अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्” इति ॥ ४ ॥ भा० वि०] विषयान्तरे तु स्वार्थपरत्वे दोषान्तरमप्याह-अन्येति । तत्राप्याद्यं सूत्रं तत्प्रदर्शनपूर्वं योजयति-यदीति । सर्वकामावाप्ति-सर्वलोकाभिजय-मृत्युतरणा- दीनां क्रियातच्छेषत्वाभावात्तद्विषयं वाक्यमनर्थकमित्यर्थः । यद्यपि फलविधित्व- मेषां पूर्वसूत्रेणैव निरस्तप्रायम् । तथाप्यभ्युपेत्य दोषान्तरं वक्तुमुत्थापयति— अथेति । अत्रान्यानर्थक्यसूत्रं योजयन्नुत्तरमाह—इतरेषामिति—ततश्च क्लृप्तबहु- विध्यनुग्रहाय पूर्णाहुत्यादिवाक्यानामेवाप्रामाण्यमिति भावः । आनर्थक्यमेव विवृणोति—नहीत्यादिना । अत्राग्निहोत्राद्यङ्गभूताग्न्युत्पादकाधानाङ्गत्वात् पूर्णाहुतेः प्राग्भावः, अग्नीषोमीयस्य च पशोरौपवसथ्येऽहनि विहितत्वात् सोम- यागात्प्राग्भावः, अश्वमेधस्य चाज्ञातस्यानुष्ठातुमशक्यत्वात् तज्ज्ञानस्य प्राग्भावः, ततश्च तैरेवाभिमतफलसिद्धेरन्यानर्थक्यमिति भावः । नन्वल्पपूर्णाहुत्यादेरपि फलसिद्ध्या महतोऽग्निहोत्रादेरानर्थक्यसंभवात् किमिति पौर्वापर्यनियमादेवानर्थक्यं व्याख्यातमित्याशङ्क्याल्पत्वादिविशेषवता- मपि समानफलानां परस्परानपेक्षाणां च यथारुच्यनुष्ठानसंभवात् नान्योनर्थक्यं दृष्टमित्यतः पौर्वापर्यनियमादेवोत्तरानर्थक्यं युक्तमिति मत्वा दृष्टान्तमाह— तद्यथेति । तेनैवेत्यवधारणेन...पन्थान्तराभावप्रतिपादकेन पौर्वापर्य नियमस्सू- चितः, दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति-तादृशं हि तदिति । उक्तमर्थं