भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 88, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 88

३६ मीमांसादर्शनम् [ सू० प्रामाण्यमित्याशङ्क्याह—कथं तदिति । विध्यन्तर'मिष्टकाभिरग्निं चिनुत' इत्यादि 'हिरण्यं निधाये' तस्य गुणपरत्वाद्राष्टकाभिरित्यादिचयनोत्पत्तिवाक्य- मनेनोपलक्षितं स्वयं व्याकुलतामेव दर्शयति—न चेतव्यमिति । पृथिव्याधार- निषेधायोगादिष्टकाभिरग्निमित्यादिना चयनप्राप्तिरङ्गीकार्या, पुनरनाधारत्वेन चयननिषेधे निषेधस्यैव व्याकुलत्वात् न प्रामाण्यसंभावनेति भावः ॥ ५ ॥ त० वा०] त्रीण्यपि पृथिव्यादिवचनान्यप्रतिषेधभागिनमर्थं प्रतिषेधन्ति । अन्तरिक्षे दिवि च तावदप्राप्तत्वात्प्रतिषेधाविषयत्वम् । अतश्च पर्युदासित्वव्या- भावान्न पर्युदासः । अनन्तरिक्षे ह्यदिवि च पृथिव्यां नित्यं चयनं प्राप्तमिति तद्वि- धिरनर्थकः । अथापि निन्दानुवादस्तथाऽप्यक्रियार्थत्वमेव । पृथिवीचयनप्रतिषेध- पर्युदासौ तु चयनविध्यबाधेनाशक्यौ । बाधे च विध्यानर्थक्यम् । विकल्पेऽपि पक्षे बाधः । कामसंयोगाच्चाग्नेरस्त्येव पाक्षिकत्वम् । दुर्बलश्च प्रतिषेधः । पृथिवोपरत्वे सति चयने कल्प्यत्वात् । एतदेवास्य स्वयमाकुलत्वम् । विध्यन्तर- मेव 'हिरण्यं निधाय चेतव्यमिष्टकाभिरग्निं चिनुत एतच्चाऽऽकुलयेत् । प्ररोचना- बुद्धिस्तु नैवोत्पद्यते ॥ ५ ॥ न्या० सु०] अत्र भाष्यकृता न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्यप्रतिषेधभा- गिनमर्थंप्रतिषेधन्तीति बहुवचनं प्रयुक्तम् । तदयुक्तम् । पृथिवीचयनस्य प्राप्तः प्रतिषेधभा- गित्वादित्याशङ्कयाह—त्रीण्यपीति विज्ञायत एवेति भाष्यं व्याचष्टे-अन्तरिक्ष इति ! अस्तु र्तहि पर्युदासः, अत आह—अतश्चेति । प्रतिधपेधग्रहणं पर्युदासस्याप्युपलक्षणार्थमिति भावः । उभयत्र सिद्धान्त्यभिमतं निन्दानुवादत्वं निराकर्त्तुमाद्यं सूत्रं योजयति—अथापीति । पृथिवीचयनस्याप्रतिषेधभागित्वप्रदर्शनार्थं पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यं भवेत् चयननिषेधार्थमेव तदितिभाष्यं तदुपपादयति—पृथिवीति । अस्तु तद्वाधोऽत आह— बाधे चेति । विकल्पेन चयनविधेरप्यर्थवत्त्वं भविष्यत्यत आह—विकल्पेऽपीति । पाक्षिक- बाधार्थमेवायं प्रतिषेधो भविष्यति नातिरात्रे षोडशिनं गृह्णातीति वदत आह—काम- संयोगाच्चेति । पशुकामश्चिन्वीत प्रजाकामश्चिन्वीतेत्यादिभिर्वाक्यैः काम्यत्वावगमाद्विनापि प्रतिषेधं पाक्षिकत्वसिद्धेः प्रतिषेधानर्थक्यमिति भावः । न च कामाभावे पाक्षिकत्वं प्रतिषेधवशाद्भविष्यतीति शक्यं वक्तुं काम्यस्य कामनाभावे प्राप्त्यभावेन प्रतिषेधायोगात् विशेषणोपादाने च तत्परतयावगतस्यास्य प्रतिषेधस्य क्रियायां कल्प्यत्वेन दौर्बल्यान्न पाक्षिकत्वापादने सामर्थ्यमस्तीत्याह—दुर्बलश्चेति । ननु दुर्बलेनापि प्रतिषेधेनागत्या १ पाक्षिकचयनविधिबाधो नातीव दोषमावहतीत्या- शङ्क्य अथाप्रमाणं नैष विरोधो भवतीत्यनेन भाष्येण प्रतिषेधाप्रामाण्येनागतिपरिहारः १. अगत्येति दृष्टकाभिरग्नि चिन्वीतेतिवचनात्सामर्थ्यात्पृथिव्यामेव चयनं प्राप्तं तत्र न पृथिव्यामिति यथाश्रुते ऽर्थे ऽमुपपेतव्ये विधिरनर्थकः इत्यगतिः ।