भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 87, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 87

५ ] प्रथमाध्याये द्वितीयपादः ३५ हुति के बिना अग्नि आधान कर्म सम्पन्न नहीं हो सकता है । इस प्रकार निरूढपशु बन्ध- नामक यज्ञ करने से ही यदि स्वर्गलोक को प्राप्ति हो जाती है तो इसके बाद कर्तव्य रूप में विहित ज्योतिष्टोम आदि का विधान विफल हो जायगा । अतः जिन अर्थवाद वाक्यों का पारलौकिक फल कहा गया है, वे अनर्थक होने से अप्रमाण हैं, क्योंकि विधिवाक्यों का प्रमाण निश्चित होने से अर्थवाद वाक्यों के द्वारा उनकों अन्यथा नहीं किया जा सकता है अर्थात् विधिवाक्यों का आनर्थक्य या अप्रामाण्य नहीं हो सकता है । वरन् निश्चित प्रामाण्यवाले विधिवाक्यों से अर्थवाद वाक्यों का ही प्रामाण्य बाधित होता है—यही युक्ति सङ्गत है ॥ ४ ॥ अभागिप्रतिषेधाच्च ॥ १.२.५॥ शा०] 'न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि, (तै०सं० ५।२।७) । इत्य- प्रतिषेधभागिनमर्थं प्रतिषेधन्ति । विज्ञायत एवैतदन्तरिक्षे दिवि चाग्निर्न चीयत इति । पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यम्, भवेच्चयनप्रतिषेधार्थमेव तत् । अथा- प्रमाणम् । नैष विरोधो भवति । कथं तत्प्रमाणं यद् विध्यन्तरमाकुलयेत्, स्वयं चाऽऽकुलं स्यात् । न चेतव्यम्, हिरण्यं निधाय चेतव्यमिति ॥ ५ ॥ भा० वि०] स्वार्थपर्यवसानाभ्युपगमे स्वस्यैव निर्विषयत्वप्रसङ्गं वाक्यान्तरे दर्शयति—अभागीति । अत्र प्रथममभागिसूत्रं योजयति—अप्रतिषेधभागिनमिति । कथमप्रतिषेधभागित्वं चयनस्येत्याशङ्कयान्तरिक्षद्युचयनयोरप्राप्तत्वेन प्रतिषेधा- योग्यत्वं दर्शयति—विज्ञायत इति । पृथिवीचयनस्य तर्हि प्राप्तत्वात्तन्निषेधो योग्य- प्रतिषेध एवेत्यत आह—पृथिवीति । चशब्दः शङ्काद्योतकः 'इष्टकाभिरग्निं चिनुते' इत्यादिश्रुत्यन्तरिक्षादावसंभवात् पृथिव्यामेवचयनं विधत्ते, न पृथिव्यामिति च तन्निषेधे निराधारचयनासम्भवान् विधिबाध इत्यर्थः । एतेन विधिविरोधात् निषेध्याभावाच्च निषेधासंभवप्रतिपादनेन विधि- विरोधात् पर्युदसितव्याभावाच्च पर्युदासोऽपि निरस्तो वेदितव्यः । न च निषेध- पर्युदासयोर्नित्यानुवादत्वमक्रियार्थत्वेनानर्थक्यप्रसङ्गात् इति चाद्यसूत्रयोजना द्रष्टव्या । न च न पृथिव्यामिति निषेधस्य चयनविधिना सह विकल्पः, पृथि- व्यामिति विशेषणोपादानेन तत्परतयावगतस्य प्रतिषेधस्य चयनक्रियायां कल्प्य- त्वेन दुर्बलत्वादिति भावः । ननु दुर्बलेनापि प्रतिषेधेनागत्या पाक्षिकचयनविधिबाधो नातीव दोषावहे- त्याशङ्क्याह—अथेति । यदि प्रतिषेधोऽप्रमाणम्, तदापि न विरोध इत्यर्थः, प्रतिषेधाप्रामाण्यसंभवादगतिरसिद्धेति भावः । ननु पूर्णहुत्यादेरेकस्य कल्प्यस्याग्निहोत्रादिबहुक्लृप्तविधिविरोधाद्युक्तम- प्रामाण्यम्, इह तु उभयोः प्रत्यक्षत्वेनाविशेषात् कथमेकान्ततः प्रतिषेधस्यैवा-