मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 346, कुल 760 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः २५६
मदनिका--सव्विलअ ! जइ मम वअणं सुणोअदि, ता तस्य ज्जेव महा-
णुभावस्स पडिणिज्जादेहि। (शर्विलक ! यदि मम वचनं श्रूयते, तत् तस्यैव
महानुभावस्य प्रतिनिर्यातय ।)
शर्विलकः--मदनिके ! यद्यसौ राजकुले मां कथयति ?
मदनिका--ण चन्दादो आदवो होदि । ( न चन्द्रादातपो भवति । )
वसन्तसेना--साहु, मदणिए ! साहु । ( साधु, मदनिके ! साधु । )
शर्विलकः--मदनिके !
न खलु मम विषादः साहसेऽस्मिन् भयं वा
कथयसि हि किमर्थं तस्य साधोगु णांस्त्वम् ।
जनयति मम चेदं कुत्सितं कर्म लज्जां
नृपतिरिह शठानां मादृशां किं नु कुर्यात् ? ॥ २० ॥
विमर्श--पुरुष एवं स्त्री की चतुरता के बारे में यहाँ सुन्दर चित्रण किया गया है। यहाँ स्त्रीजाति के उत्कर्ष का कथन होने से व्यतिरेक अलङ्कार है। पथ्यावक्र छन्द है ॥ १९ ॥
मदनिका—हे शर्विलक ! यदि मेरी बात सुनते हो (मानते हो) तो उन्हीं महानुभाव (चारुदत्त) को वापस दे आओ।
शर्विलक--मदनिके ! यदि ये (चारुदत्त) न्यायालय में कह दें तो ?
मदनिका--अरे, चन्द्रमा से धूप नहीं होती । (अर्थात् चारुदत्त ऐसा कृत्य नहीं कर सकता ।)
वसन्तसेना—धन्य हो मदनिके ! धन्य हो ।
टीका--मम=मदनिकायाः, श्रूयते=स्वीक्रियते, तत्=तस्मात्, तस्यैव=चारु-दत्तस्यैव, सम्बन्धसामान्ये षष्ठी बोध्या, प्रतिनिर्यातय = प्रत्यर्पय, राजकुले = राज-सभायाम्, न्यायालये इत्यर्थः, कथयति=वर्तमानसामीप्ये लट्, आतपः=घर्मः, यथा चन्द्रात् आतपो न समुदेति तथैव चारुदत्तेनेदं न सम्भाव्यते ।
अन्वयः--अस्मिन्, साहसे, मम, विषादः, भयम् वा, न, खलु, (अस्ति), त्वम्, तस्य, साधोः, गुणान्, कथम्, कथयसि ? हि, इदम्, कुत्सितम्, कर्म, वा, मम, लज्जाम्, जनयति, इह, नृपतिः, मादृशाम्, शठानाम्, किम्, नु, कुर्यात् ॥ २० ॥
शब्दार्थ--अस्मिन्=इस, साहसे=दुस्साहसिक चौर्य कार्य में, मम=मुझ शर्विलक का, विषादः=खेद, वा=अथवा, भयम्=डर, न=नहीं है, खलु=निश्चय ही, त्वम्=तुम मदनिका, तस्य = उस, साधोः = सज्जन (चारुदत्त) के, गुणान् = सद्गुणों को, किमर्थम्=किसलिये, कथयसि = कह रही हो ? हि=क्योंकि, इदम्=यह, कुत्सितं