मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 554, कुल 760 में से
संदर्भ में पढ़ें| ४६६ | मृच्छकटिकम् |
|---|
वसन्तसेना—भाव ! शरणागदम्हि । ( भाव ! शरणागतास्मि । )
विटः—काणेलीमातः ! मर्षय मर्षय । साधु स्थावरक ! साधु ।
अप्येष नाम परिभूतदशो दरिद्रः
प्रेष्यः परत्र फलमिच्छति नास्य भर्ता ।
तस्मादमी कथमिवाद्य न यान्ति नाशं
ये वर्द्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥
अकार्यम्=अनुचितं कार्यम्, परिहरामि=परित्यजामि, अधिकम्=अनुभूयमानादेतादृश-भोगाधिकम्, न=नैव, क्रेष्यामि=स्वदुष्कृत-कर्म-मूल्यदानेन ग्रहीष्यामीति भावः । आर्या वृत्तम् ॥ २५ ॥
अर्थ—वसन्तसेना—भाव ! शरण में आयी हुई हूँ ।
विट—काणेली के पुत्र ! क्षमा करो । क्षमा करो । वाह स्थावरक ! वाह ।
अन्वयः—परिभूतदशः, दरिद्रः, प्रेष्यः, अपि, एषः, परत्र, फलम्, इच्छति, नाम, ( परन्तु ), अस्य, भर्ता, न, ( इच्छति ), तस्मात्, ये, असदृशम्, वर्धयन्ति, सदृशम्, त्यजन्ति, ते, अद्य, कथमिव, नाशम्, न, यान्ति ॥ २६ ॥
शब्दार्थ—परिभूतदशः=दयनीय दशावाला, दरिद्रः=निर्धन, प्रेष्यः=सेवक, अपि=भी, एषः=यह चेट, परत्र=परलोक में, फलम्=फल को, इच्छति=चाहता है, नाम वाक्यालंकारार्थं प्रयुक्त है । परन्तु=लेकिन, अस्य=इस का, भर्ता=स्वामी शकार, न=नहीं ( इच्छति=चाहता है ।) तस्मात्=इसलिये, ये=जो, असदृशम्=अनुचित को, वर्धयन्ति=बढ़ाते हैं, [ और ] सदृशम्=उचित को, त्यजन्ति=छोड़ते हैं, अमी=वे लोग, अद्य=आज ही, इसी क्षण, कथमिव,=किस कारण, नाशम्=विनाश को, न=नहीं, यान्ति=प्राप्त करते हैं ॥ २६ ॥
अर्थ—दयनीय दशा में पड़ा हुआ निर्धन सेवक भी यह (चेट) परलोक में फल की इच्छा करता है किन्तु इसका स्वामी (शकार) नहीं (इच्छा करता है) । इसलिये जो अनुचित को बढ़ाते हैं और उचित को छोड़ते हैं, वे आज ही, किस कारण नष्ट नहीं हो जाते हैं ॥ २६ ॥
टीका—अनुचितानुष्ठातुरपि शकारस्य समृद्धिं दृष्ट्वा खेदं व्यनक्ति--अपीति । परिभूता=तिरस्कृता अपमानिता दशा=अवस्था यस्य सः, दरिद्रः=निर्धनः, अपि, एषः = पुरोवर्तमानः, प्रेष्यः=सेवकः चेटः, परत्र=परलोके, फलम् = सुकृतदुष्कृत-परिणामम्, इच्छति=वाञ्छति, परन्तु, अस्य=सेवकस्य, भर्ता=स्वामी शकारः, न=नैव, फलमिच्छतीति भावः, तस्मात्=अतो हेतोः, ये=ये जनाः, असदृशम्=अनुचितं कार्यं जनं वा, वर्धयन्ति = एधयन्ति, तथा, सदृशम् = उचितं योग्यं वा, त्यजन्ति=परिहरन्ति, अमी=अनुचितकर्तारः शकारादयः, अद्य=अस्मिन् क्षण एव, कथमिव=कस्मात् कारणात्, नाशम्=क्षयम्, न=नैव, यान्ति=व्रजन्ति । अनुचित-कार्यकर्ता