भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 713, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 713

दशमोऽङ्कः । ६२५

अपि च, प्रिये ! पश्य,--

रक्तं तदेव वरवस्त्रमियं च माला
कान्तागमेन हि वरस्य यथा विभाति ।
एते च वध्यपटहध्वनयस्तथैव
जाता विवाहपटहध्वनिभिः समानाः ॥ ४४ ॥

संरक्षित इति प्रियसङ्गमस्य प्रभावं प्रतिपादयति-त्वदर्थेति । त्वदर्थम्=त्वम्=वसन्तसेना एव अर्थः=निमित्तं यस्मिन् तद् यथा, क्रियाविशेषणम्, विनिपात्यमानम्=घातकैः त्वरितमेव विनाश्यमानम्, मे=मम, चारुदत्तस्येत्यर्थः, देहम्=शरीरम्, [ कायदेहौ क्लीबपुंसावित्यमरानुरोधेन देहशब्दस्य क्लीबत्वं समीचीनं बोध्यम् । ] त्वया=वसन्तसेनया, एव, प्रतिमोचितम्=रक्षितम् । तव कारणादेव मृत्युदण्डः निर्दिष्टः, तवोपस्थित्या एव च पुनर्जीवनमिति भावः । प्रियसंगमस्य=प्रियायाः समागमस्य, अहो=आश्चर्यकरः, प्रभावः=माहात्म्यम्, कः=को जनः, नाम=इदं सम्भावनायाम्, मृतः=गतप्राणः सन्नपि, पुनः=भूयः, ध्रियेत=जीवेत इति भावः । साम्प्रतं प्रियायाः संगमेनैव मम प्राणरक्षा कृतेति भावः । उपजातिवृत्तम् ॥४३॥

**अन्वयः—**कान्तागमेन, तदेव, रक्तम्, वरवस्त्रम्, इयम्, माला, च, वरस्य, यथा, हि, विभाति, तथैव, च, एते, वध्यपटहध्वनयः, विवाहपटहध्वनिभिः, समानाः, जाताः ॥ ४४ ॥

**शब्दार्थः—**कान्तागमेन=प्रेयसी वसन्तसेना के आ जाने से, तदेव=वही, रक्तम्=लाल, वरवस्त्रम्=श्रेष्ठ कपड़ा, च=और, इयम्=यह, माला=माला, वरस्य=दूल्हे के, यथा=समान, हि=निश्चितरूप से, विभाति=शोभित हो रही है, च=और, तथैव=उसी प्रकार, वध्यपटहध्वनयः=वध करने के लिये बजाये जाने वाले नगाड़े की आवाजें, विवाहपटहध्वनिभिः=विवाह में बजनेवाले नगाड़ा की आवाज के, समानाः=समान, जाताः=हो गयी हैं ॥४४॥

**अर्थ—**और भी, प्रिये ! देखो —

प्रेयसी के [ तुम्हारे ] आजाने से वही लाल कपड़ा श्रेष्ठ वस्त्र और यह माला ( विवाह के लिये जाते हुये ) दूल्हे के समान शोभित हो रही है। और उसी प्रकार वध के लिये बजने वाले नगाड़ा की आवाजें विवाह में बजने वाले नगाड़े के समान हो गयीं हैं ॥४४॥

**टीका—**परिस्थितिवशात् कदाचिदप्रियं वस्त्वपि प्रियरूपेण परिवर्तते इति प्रतिपादयति-रक्तमिति । कान्तायाः=प्रेयस्याः, आगमेन=उपस्थित्या हेतुनेत्यर्थः, तदेव=इदमेव, रक्तम्=रक्तवर्णम्, वरवस्त्रम्=उत्कृष्टवस्त्रम्, च=तथा, इयम्=मम ग्रीवायां लम्बमाना, माला=माल्यम्, वरस्य=उद्वोढुः यथा=इव, विभाति=शोभते,

४० मृ०

मृच्छकटिकम् (सटीक संस्कृत नाटक) · पृष्ठ 713, कुल 760 में से · BharatKosha