मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 714, कुल 760 में से
संदर्भ में पढ़ें| ६२६ | मृच्छकटिकम् |
|---|
वसन्तसेना--अदिदक्खिणदाए किं ण्णेदं ववसिदं अज्जेण ? ( अतिदाक्षिण्यतया किं न्विदं व्यवसितमार्येण ? )
चारुदत्तः--प्रिये ! ‘त्वं किल मया हतेति’--
पूर्वानुबद्धवैरेण शत्रुणा प्रभवष्णुिना ।
नरके पतता तेन मनागस्मि निपातितः ॥ ४५ ॥
वसन्तसेना--(कर्णौ पिधाय) संतं पावं, तेण म्हि राअसालेण वावादिदा ।
( शान्तं पापम्, तेनास्मि राजश्यालेन व्यापादिता । )
चारुदत्तः ( भिक्षुं दृष्ट्वा ) अयमपि कः ?
च, तथैव=तद्वदेव, एते=श्रूयमाणा इमे, वध्यपटहध्वनयः=वध्यस्य कृते क्रियमाणाः वाद्यविशेषध्वनयः, विवाहपटहध्वनिभिः=उद्वाहादौ वाद्यमानानां पटहानाम्=ढक्कादीनाम्, ध्वनिभिः समाना । पूर्वं ये पदार्थाः कष्टकारिण आसन् त एव साम्प्रतं वसन्तसेनायाः समागमने प्रीतिकराः परिवृत्ता इति भावः । वसन्ततिलकं वृत्तम् ॥४४॥
अर्थ—वसन्तसेना—अति उदारता के कारण आर्य आपने यह क्या कर डाला ?
अन्वयः--पूर्वानुबद्धवैरेण, प्रभवष्णुिना, नरके, पतता, शत्रुणा, मनाक्, निपातितः, अस्मि ॥ ४५ ॥
शब्दार्थ--पूर्वानुबद्धवैरेण=पहले से ही दुश्मनी रख लेने वाले प्रभवष्णुिना=सामर्थ्यशाली, नरके=नरक में, पतता=गिरने वाले, शत्रुणा=शत्रु शकार के द्वारा, मनाक्=थोड़ा, निपातितः=गिरा, कलंकित कर दिया गया, अस्मि=हूँ, था ॥ ४५ ॥
अर्थ—चारुदत्त—प्रिये ! ‘तुम्हें मैंने मार दिया’ --
पहले से ही दुश्मनी रखने वाले [ राजा का शाला होने से ] शक्तिशाली [ किन्तु ] नरक में गिरने वाले उस शत्रु शकार द्वारा कुछ गिरा दिया गया हूँ । [ कलंकित कर दिया गया था । ] ॥ ४५ ॥
टीका--प्राप्तदशायाः हेतुं स्वप्रियायै निवेदयति—पूर्वेति । पूर्वानुबद्धवैरेण=पूर्वतः एव अनुबद्धं=मनसि दृढ़ीकृतं वैरं=शत्रुत्वं येन तादृशेन, प्रभवष्णुिना=राज्ञः श्यालत्वेन सामर्थ्यवता, नरके=निरये, पतता=आत्मानं निक्षिपता, तेन=प्रसिद्धेन दुष्टेन, शकारेणेत्यर्थः, मनाक्=प्रायशः, स्वल्पं वा, निपातितः=विनाशितः, मिथ्यापवादे निक्षिप्तः, अस्मि=भवामि । ‘त्वं मया हृता’ इति मिथ्याभियोगेनाहं कलंकित इति भावः । पथ्यावक्त्रं वृत्तम् ॥ ४५ ॥
अर्थ—वसन्तसेना--( कान बन्द करके ) ऐसा मत कहिये । उस राजश्यालक शकार ने मारा था ।
चारुदत्त--( भिक्षु को देखकर ) यह कौन है ?