भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 746, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 746
६५८मृच्छकटिकम्
श्लोकाःअङ्काः/श्लोकाः
विभवानुगता भार्या सुखदुःखसुहृद्भवन् ।
सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥३      २८
विषमा इन्द्रियचोराः हरन्ति चिरसंचितं धर्मम् ।८      १
वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः
भिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥५      ८
वेश्याः श्मशानसुमना इव वर्जनीयाः ।१      १४
शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता ।३      २४
शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।
शस्त्रेण न हन्तव्य उपकारहतस्तु कर्तव्यः ॥१०      ५५
शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्थं मुण्डितम् ।
यस्य पुनश्च चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥८      ३
शून्यमपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् ।
मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥१      ८
शून्यैर्गृहैः खलु समाः पुरुषाः दरिद्राः ।५      ५२
संगं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्
सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥१      ३७
सत्कारधनः खलु सज्जनः कस्य न भवति चलाचलं धनम् ।३      १५
सत्यं न मे विभवनाशकृतास्तिचिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति ।
एतन्तु मां दहति नष्टधनाश्रयस्य
यत् सौहृदादपि जनाः शिथिलीभवन्ति ॥१      १३
सत्येन सुखं खलु लभ्यते सत्यालापे न भवति पातकम् ।
सत्यमिति द्वे अक्षरे मा सत्यमलीकेन गूहय ॥६      ३५
समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागाः ।
स्त्रियो हतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥४      १५