मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
DevanagariSanskritpublished760 पृष्ठ
पृष्ठ 745, कुल 760 में से
संदर्भ में पढ़ेंपृष्ठ 745
सुभाषितानि ६५७
| श्लोका: | अङ्काः | श्लोकाः |

| न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ | ५ | ३१ |
| न हि कमलं मधुपाः परित्यजन्ति । | ८ | ३२ |
| न ह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ | ६ | १६ |
| निवासचिन्तायाः परपरिभवो वैरमपरं
जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् ।
वनं गन्तुं बुद्धिर्भवति च कलत्रात् परिभवः
हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥ | १ | १५ |
| निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ | ४ | २१ |
| नृणां लोकान्तरेस्थानां देहप्रतिकृतिः सुतः ॥ | ९ | ४२ |
| पक्षविकलश्च पक्षी शुष्कश्चतरुःसरश्च जलहीनम् ।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रस्य ॥ | ५ | ४१ |
| पंचजना येन मारिता अविद्यां मारयित्वा ग्रामो रक्षितः ।
श्वबलः क्व चाण्डालो मारितोऽवश्यमपि स नरः स्वर्गं गाहते ॥ | ८ | २ |
| बहुदोषा हि शर्वरी । | १ | ५८ |
| भीताभयप्रदानं ददतः परोपकाररसिकस्यं ।
यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ | ६ | १६ |
| मा दुर्गंत इति परिभवो नास्ति कृतान्तस्य दुर्गंतो नाम ।
चारित्रेण विहीन आढ्योऽपि च दुर्गंतो नाम ॥ | १ | ४३ |
| य आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः ।
तस्य स्खलनं न जायते न च कान्तारगत. विपद्यते ॥ | २ | १४ |
| यथैव पुष्पं प्रथमे विकाशे समेत्य पातुं मधुपाः पतन्ति ।
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्थाः बहुलीभवन्ति ॥ | ९ | २६ |
| यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।
तदाऽस्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ | १ | ५३ |
| यदि संभोव्यते पापमपापेन च किं मया । | ६ | ३७ |
| येऽभिभवन्ति साधुं ते पापास्ते च चाण्डाला । | १० | २२ |
| राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य । | १० | २० |
| वरं व्यायच्छतो मृत्युर्नं गृहीतस्य बन्धने । | ६ | १७ |
| विपर्यस्तमनश्चेष्टैः शिलाशकलवर्मभिः ।
मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुन्धरा ॥ | ८ | ६ |
४२ मृ०