मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 1005, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. २९ | पान ७७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ विस्मयं ययुः ॥२५॥ अथो शृणु महाभाग गौतमो हर्षनिर्भरः । आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥२६॥ द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा । सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥२७॥ शंभुः सुशीलया सार्धं जगाम स्वाश्रयं ततः । गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥२८॥ ततः स्वल्पे गते काले सुशीला गर्भसंयुता । बभूव तां प्रहृश्यैवाभवच्छंभुः सुविस्मितः ॥२९॥ ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् । सर्वलक्षणसंयुक्तं सुता एवं त्रयो- ऽभवन् ॥३०॥ वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् । तान् दृष्ट्वा विस्मितः शंभुर्गुरुं सस्मार गौतमम् ॥३१॥ मौद्गले तत्परः सोऽपि बभूवे नित्यमादरात् । अंते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥३२॥ नाना जना गणेशानं लेभिरे मौद्गलस्य च । श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥३३॥ एतत्ते कथितं विप्र ज्येष्ठात् सार्धैकमासके । मौद्गलश्रवणस्यैव माहात्म्यं स्वल्पभावतः ॥३४॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः 🙞🙢 ॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽऽसीत् पुंड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् । नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो विचक्षणः ॥१॥ तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी । न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥२॥ इंद्रस्य वरुणस्यै- वानुष्ठाने तत्परोऽभवत् । ब्राह्मणैर्नित्यमत्यंतं तोषयामास मेघपम् ॥३॥ ततो वै नव वर्षापि मेघः पापेन चेरितः । वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥४॥ राजा राज्यं परित्यज विश्वामित्रं जगाम ह । पप्रच्छ तं प्रणम्याऽसौ मेघवृष्टिकंरं परम् ॥५॥ तेन संकथितं विप्र मौद्गलं शृणु भूमिप । देशे वृष्टिश्च संपूर्णा भविष्यति न संशयः ॥६॥ ततो राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् । ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥७॥ जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव ह । प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥८॥ सर्वे हर्षयुता लोका जाता पुंड्रनिवासिनः । राजा गणेश्वरं ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖