भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 1006, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 1006

खं. ९ अ. २९ | पान ७८ 卐卐 नित्यमभजद्भक्तिसंयुतः ॥९॥ भाद्रे शुद्धप्रतिपदि समारभ्य स मौद्गलम् । शुश्राव नित्यमानंदात् पुराणं सर्वसिद्धिदम् ॥१०॥ पुनर्भ्राद्रपदं प्राप्य परां शुक्लचतुर्थिकाम् । समाप्तं तत् स पंचम्यां चक्रे वै हर्षसंयुतः ॥११॥ अतिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् । शुक्लप्रतिपदि प्राज्ञैः प्रारभन्मौद्गलं पुनः ॥१२॥ नित्यं शुश्राव सुग्रीवो गाणपत्यपरायणः । आषाढ्यां स समाप्तं तदमायां प्रचकार ह ॥१३॥ पुनः प्रारभ्य सुग्रीवो जनैः श्रेष्ठैः समन्वितः । शुश्राव वर्षमध्ये स एवं वार्षिक- माचरत् ॥१४॥ प्रतिवर्षं महाभक्त्या शुश्रुवुः सर्वनागराः । भक्तियुक्ता गणेशानमभजन् दुःखवर्जिताः ॥१५॥ न तत्र वांध्यदोषेण युक्तः कश्चिद्बभूव ह । न रोगशोकसंयुक्तः सुग्रीवे राज्यकर्तरि ॥१६॥ सर्वसंपत्समायुक्ता जनास्तत्र बभूविरे । रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ॥१७॥ ततः सर्वैः स राजर्षिर्जगाम नगरस्थितैः । गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युतिः ॥१८॥ गच्छतो निजलोकं वै तस्यांगाद्वायुनाऽपरे । स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे ॥१९॥ तान् गृह्य गाणपा विप्र ब्रह्मीभूतान् प्रचक्रिरे । यमाया विस्मिताः सर्वे प्रशंसुश्च मौद्गलम् ॥२०॥ विप्रवार्षिकमेवं ते कथितं श्रवणस्य यत् । मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकम् ॥२१॥ सुग्रीवदेशगः कश्चिच्छ्रुत्वा वृत्तांतमद्भुतम् । कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थतः ॥२२॥ वार्षिकं राजशार्दूलो समारभत भक्तितः । सोऽपि नित्यं प्रशुश्राव कुष्ठनाशार्थमुत्तमम् ॥२३॥ श्रुत्वा कुष्ठविहीनः स बभूवे हर्षसंयुतः । जगाम स्वगृहं पद्भ्यां गृहकार्यरतोऽभवत् ॥२४॥ भुक्त्वा भोगान् मनोज्ञान् सोऽन्ते जगाम गजाननम् । ब्रह्मीभूतो बभूवाऽपि श्रवणस्य फलेन वै ॥२५॥ एवं सकृत् समाश्रुत्य मौद्गलं विविधा जनाः । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाययुः ॥२६॥ तत्रैव कति ते ब्रूयां नालं वर्षशतैरपि । अतः संक्षेपतः प्रोक्तं वर्षश्रवणजं फलम् ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमौद्गलसंवादे वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ❖ 卐