मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 1014, कुल 1023 में से
संदर्भ में पढ़ेंमानंदात् कस्योपासनमाचरेत् । योगरूपस्य योगीश वद सर्वज्ञ ते नमः ॥७॥ गौतम उवाच । गणेशोपासनं मुख्यं पूर्णं शांतिप्रदायकम् । योगाकारः स वै वेदे नरे गजमयत्वतः ॥८॥ पंचचित्तात्ममोहेन तेन सर्वं विमोहितम् । न जानाति परं भावं योगदं गणनायकम् ॥९॥ समोहं चित्तमुत्सृज्य स्वयं चिंतामणिर्भवेत् । तस्माद्विकटभक्त्या स लभ्यते विकटः प्रभुः ॥१०॥ पंचचित्तमयं यद्यत्तस्माद्विकटभावतः । भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननम् ॥११॥ तच्छ्रुत्वा विस्मिताः सर्वे मुनयस्तं प्रणम्य च । स्वस्वाश्रमं समागम्य विकटे भजने रताः ॥१२॥ अश्वत्थामा कृपश्चैव तं प्रणम्य महामतिम् । स्वस्वाश्रमं समागत्य विकटे भजने रतौ ॥१३॥ मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः । प्रपेठतुर्महा- भक्त्या पूज्य नित्यं गणेश्वरम् ॥१४॥ ततः स्वल्पेन कालेन संतुष्टो विकटोऽभवत् । ददौ योगं स ताभ्यां वै पूर्णशांति- प्रदायकम् ॥१५॥ तथापि तौ महाभागौ पाठं चक्रतुरादरात् । खंडस्य विकटस्यैव विकटं पूज्य नित्यदा ॥१६॥ एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ । तत्र श्वा च कृपस्याग्रे शुश्रुवे संस्थितो महान् ॥१७॥ अश्वत्थाम्नश्च मार्जारः समीपस्थित आशृणोत् । तौ रोगाद्यैर्विहीनौ च जातावज्ञानतः श्रवात् ॥१८॥ अंते स्वानंदगौ जातावेकश्रवणपुण्यतः । अतः किं महिमानं ते कथयामि ह्यपार कम् ॥१९॥ अश्वत्थामा कृपश्चैव स्वस्वांशे संगतो मुदा । अंते योगयुतौ विप्र विकटे भजने रतौ ॥२०॥ शौनक उवाच । योगयुक्तौ कथं सूत स्वांशगौ तौ बभूवतुः । गणेशेन तदाकारौ महच्चित्रं वदस्व माम् ॥२१॥ सूत उवाच । देवाः कलांशभावेन भूभारहरणाय वै । भवंति मानवाद्यास्ते नानासामर्थ्यसंयुताः ॥२२॥ इह पापं यदा कृत्वा गच्छंति यमपं मृताः । पतंति नरकेष्वेव यथा दशरथादयः ॥२३॥ अथवा पुण्यमुग्रं ते कृत्वाऽन्ते स्वर्गगा मुदा । भवंति भोगसंयुक्ता यथा रामो यमस्थले ॥२४॥ भवंति योगयुक्तास्ते यदा स्वस्वांशगास्तदा । तदाकारा गणेशानं कल्पांते संगता मुदा ॥२५॥ यथा विदूरकः सद्यः कौरवे यमदेहगः । यमाकारो गणेशानमभजद्भक्तिसंयुतः ॥२६॥ अंते योगसमायुक्तो यमः परमपावनः । ययौ गणेश्वरं विप्र ब्रह्मभूतः स्वभावतः ॥२७॥ एतत्ते कथितं पूर्णं चरित्रं श्रवणात्मकम् । विकटस्यैव खंडस्य सर्वसिद्धिप्रदायकम् ॥२८॥ एवं नानाजनाश्चाश्च श्रुत्वा खंडं महाद्भुतम् । विकटस्य सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॥२९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते दक्षमद्गलसंवादे योगामृतार्थशास्त्रे विकटखंडमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥