भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 1015, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 1015

खं. ९ अ. ३७                                     पान ८७ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । बिभीषणो महाभागो लंकां प्राप्य सुहृद्वृतः । रामं पूज्यं स्वयं नित्यं भक्तियुक्तोऽभजत् परम् ॥१॥ तत्रादौ गणनाथस्य पूजनं वेदसंमतम् । विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूव ह ॥२॥ धारयामास मनसि गणेशं ब्रह्मनायकम् । सर्वपूज्यं गणेशस्योच्छिष्टभुजोऽमरान् परान् ॥३॥ कदाचित्तत्र योगीशो नारदः स्वेच्छया- ऽऽगतः । तं प्रणम्य प्रपूज्यैव परं पप्रच्छ हृत्स्थितम् ॥४॥ बिभीषण उवाच । गणेशोच्छिष्टभोक्तारो देवा विष्णुमुखा मुने । अग्रपूज्यप्रभावत्वात् किमिदं वेदसंमतम् ॥५॥ नारद उवाच । ब्रह्माकाराः शिवाद्याश्च नानायोगप्रधारकाः । ब्रह्माण्यन्नमुखान्येव वेदेषु कथितं बुधैः ॥६॥ तेषां स्वामी गणेशानो ब्रह्मणस्पतिसंज्ञितः । ब्रह्मणां पातृभावाद्द्वै पालयितृप्रभावतः ॥७॥ तेषां योगप्रदानार्थं देहधारी बभूव ह । गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः ॥८॥ विघ्ना सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । विघ्नैः सर्वान् प्रमथ्यैव खेलते योगरूपधृक् ॥९॥ ब्रह्माणि विघ्नयुक्तानि भवन्ते राक्षसाधिप । सत्यसंकल्पहीनानि तदा तमभजन् परम् ॥१०॥ पराधीनस्वभावं च जानते तानि नित्यदा । स्वकीयं च ततः प्रीतो गणेशो जायते परः ॥११॥ ददाति योगमुख्यं स्वं गणेशस्तेभ्य आदरात् । तदा विघ्नविहीनानि भवन्ते वीर्यवंति तु ॥१२॥ अतो गणेश्वरः पूर्णः सर्वेषां पूर्णतां गतः । पूर्णसर्वादितां वेदे ज्येष्ठराजप्रभावतः ॥१३॥ एवं विघ्नेश्वरं नित्यं भज त्वं शांतिदायकम् । रामः स एव विघ्नेशः कलांशेन न संशयः ॥१४॥ गणेशभजने कस्य व्यभिचारो भवेन्न वै । समूहानां पतित्वात्तु समूहा विष्णुमुख्यकाः ॥१५॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । ययौ सोऽपि महाबुद्धिर्विचार्य गणपे रतः ॥१६॥ पपाठ विघ्नराजस्य स खंडं मौद्गलस्थितम् । नित्यं भक्तिप्रयुक्तः संपूज्य तं गणनायकम् ॥१७॥ ततः शांतिसमायुक्तो बभूवेह बिभीषणः । गणेशमभजन्नित्यं परं रामैक्यमार्गतः ॥१८॥ एकदा राक्षसाधीशो ह्यगमत् सेतुबंधनम् । महोदरं प्रपूज्यैव तत्रस्थः पाठमकरोत् ॥१९॥ तत्र भेकी जले संस्था शुश्रुवे खंडमुत्तमम् । विघ्नराजस्य तेनैव सुखयुक्ता बभूव ह ॥२०॥ एतस्मिन्नंतरे तत्र सा सर्पेण धृताऽभवत् । ग्रस्ता ममार गाणेशैर्नीता स्वानंदके पुरे ॥२१॥ भेकीं गृह्य ब्रह्मभूतां चक्रुर्हर्ष- समन्विताः । एवमज्ञानतः पुण्यं विघ्नेशचरितोद्भवम् ॥२२॥ नाना जनादयो विप्र श्रुत्वा खंडं ययुर्मुदा । स्वानंदं भुक्तभोगाश्च मया वक्तुं न शक्यते ॥२३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विघ्नराजखंडश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ म. पु. १२