मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 1016, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. ३८ | पान ८८ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । वरतंतुर्मुनिश्श्रेष्ठो नानाविधतपः परः । शांतिं न तपसा लेभे ततः खेदयुतोऽभवत् ॥१॥ नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरोऽभवत् । तत्राऽऽजगाम पौलस्त्यो विश्रवा मुनिसत्तमः ॥२॥ तं दृष्ट्वोत्थाय विप्रेशं प्रणनाम पुपूज ह । पप्रच्छाऽऽभोज्य हर्षेण युक्तः परमपावनम् ॥३॥ वरतंतुरुवाच । त्वं साक्षाद्योगिनां वंद्यः पावनो हि समागतः । महापुण्येन ते पादपद्मं दृष्टं मया प्रभो ॥४॥ योगशांतिप्रदं ब्रूहि येन शांतो भवाम्यहम् । नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना ॥५॥ विश्रवा उवाच । ब्रह्मज्ञानं विना तात न शांतिं लभते नरः । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ॥६॥ तेषां पतिं गणाधीशं ब्रह्मणस्पतिसंज्ञितम् । तं भजस्व विधानेन तदा शांतो भविष्यसि ॥७॥ विश्वं वपुः शिरो ब्रह्म गजं योगे तयोर्मतः । सिद्धिवृद्धिपतिः साक्षात् परः स्वानंदवासकृत् ॥८॥ वर्णा धूम्रायिता यत्र मनसा मुनिसत्तम । तेन धूम्राक्षरः प्रोक्तो ब्रह्मभूयप्रदायकः ॥९॥ धूम्रवर्णं गणाधीशं भज यत्नेन मानद । तस्यैव भजनं कृत्वा शांतिं प्राप्नो- ऽहमुत्तमाम् ॥१०॥ नान्यथा पूर्णशांतिं तु लभते कोऽपि निश्चितम् । वेदादिभिर्मुनींद्रैश्च वेदाद्यैः पश्य तं विभुम् ॥११॥ पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः । त्यक्त्वा ब्रह्माणि तन्निष्ठः सदाऽभूवं न संशयः ॥१२॥ एवमुक्त्वा महायोगी विश्रवाः स्वस्थलं ययौ । वरतंतुर्विचार्यैवं गणेशभजने रतः ॥१३॥ खंडं मौद्गलसंस्थं स धूम्रवर्णात्मकं परम् । जजाप नित्यमानंदात् पूज्य विघ्नेश्वरं परम् ॥१४॥ पूर्णशांतियुतो जातो योगींद्रः सर्वपारगः । गणेशकृपया नित्यमभजद्गण- नायकम् ॥१५॥ एकदा तीर्थसंस्थः स धूम्रवर्णं पुपूज ह । तस्याग्रे नित्यकं पाठं स चक्रे धौम्रवर्णकम् ॥१६॥ तत्र काकः स्थितः सोऽपि वृक्षशाखापरायणः । शूलयुक्तः स शुश्राव धूम्रवर्णचरित्रकम् ॥१७॥ सद्यश्च शूलहीनः स बभूवे हर्षसंयुतः । उड्डीय प्रययौ तस्माद् वृक्षात् स्वेच्छापरायणः ॥१८॥ अंते गणेश्वरं गत्वा ब्रह्मभूतो बभूव ह । अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् ॥१९॥ एवं नाना जनाः श्रुत्वा धूम्रवर्णचरित्रकम् । ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान् विशेषतः ॥२०॥ तेषु किं ते महाविप्र कथ्यते तन्न शक्यते । अतः संक्षेपतः प्रोक्तं श्रवणस्य चरित्रकम् ॥२१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ॥