मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 107, कुल 1023 में से
संदर्भ में पढ़ेंब्राह्मणस्यर्णनिर्मुक्तं भक्तं कृत्वा च संस्थितः ॥ ४४॥ ततस्तं मुनिभिर्देवैः सहितोऽसौ जनार्दनः । तुष्टाव प्रांजलिं बध्वा गणेशं सर्वसिद्धिदम् ॥४५॥ वामन उवाच । नमस्ते गणनाधाय सर्वेषां पतये नमः। नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु ते ॥४६॥ विघ्नानां पतये तुभ्यं नमश्चंद्रार्धधारिणे । त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च ॥ ४७ ॥ अमेयमायया देव तवेदं रचितं जगत् । तव मायाविमोहेन मोहितान् रक्ष विघ्नप ॥ ४८ ॥ तव मायाप्रभावं च को जानाति गजानन । वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमाः कदा ॥ ४९ ॥ अतोऽपराधं जातं मे क्षंतुमर्हसि मानद । तव भक्ता वयं नाथ देवदेव नमोऽस्तु ते ॥५०॥ बलिस्त्वयं मदीयश्च भक्तः परमभाविकः । मच्छ्रेष्ठत्वेन देवेश जातोऽसौ मत्सरान्वितः ॥ ५१ ॥ तेन वेदविरुद्धं च कृतं कर्म महाद्भुतम् । त्वां विना यज्ञमारेभे फलहीनोऽभवत्क्रतुः ॥ ५२ ॥ अधुना मुनिभिर्देवैः सहितोऽहं गजानन । प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवम् ॥ ५३ ॥ त्वं विनायकनामाऽसि त्वया यत्कृतमादरात् । तदेव मान्यतां याति वेदादिषु न संशयः ॥ ५४ ॥ वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो । कुर्मश्चेद्धै पदभ्रष्टाः क्रियंते च त्वया तदा ॥ ५५ ॥ यज्ञस्य फलसंयुक्तमतो भक्तं कुरु प्रभो । इत्युक्त्वा पादयोस्तस्य पपात गणपस्य सः ॥ ५६ ॥ तमुत्थाप्य गणाधीशो जगाद वचनं हरिम् । किं करोमि पुरा चैवं वरदोऽहं बभूव ते ॥५७॥ त्वदीयहस्ततो दैत्यं नरके पातयाम्यहम् । इति क्रोधसमाविष्टोऽधुना स्मरति मां खलः ॥ ५८ ॥ कायेन मनसा वाचा दैत्यो मां शरणं गतः । त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते ॥ ५९ ॥ अधुना मां पुरस्कृत्य एतं यज्ञं समापय । तेनाऽयं सकलानां च यज्ञानां फलमश्नुते ॥ ६० ॥ अपराधस्य माहात्म्यं किंचित्पश्यतु केशव । इंद्रे निवृत्तेस्मिन्नेष इंद्रः पश्चाद् भविष्यति ॥ ६१ ॥ पाताले स्थापयस्वैनं नात्र कार्या विचारणा । अधुना फलहीनत्वं जनार्दन कृतं मया ॥ ६२ ॥ गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः । साधु साधु महाराज गजानन कृतं त्वया ॥ ६३ ॥ इत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः । अंतिमं भावयुक्तः सन् कृतकृत्यो- ऽभवत्तथा ॥ ६४ ॥ गणेशोऽंतर्दधे तत्र देवाः स्वं स्वं पदं ययुः । एवं वामनमाहात्म्यं कथितं ते प्रजापते ॥ ६५ ॥ यः शृणोति नरो भक्त्या वाञ्छितं लभते ध्रुवम् । श्रावयेच्छृणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॥ ६६ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते वामनचरितं नाम सप्तचत्वारिंशोऽध्यायः ॥