मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 108, कुल 1023 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः॥ शौनक उवाच । त्वया प्रकथितं सूत वक्रतुंडस्य धीमता । मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदम् ॥१॥ स स्थितः कुत्र तत् क्षेत्रस्थानं ब्रूहि महात्मनः । आदौ तस्यावतारस्य तिथिमुत्सववर्धिनीम् ॥ २॥ सूत उवाच । प्राचीदिगंत- संस्थाने स्थापितोऽसौ महर्षिभिः । देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः ॥ ३॥ भाद्रशुक्लचतुर्थ्यां वै प्रकटोऽभूत्स देवराट् । वक्रतुंडः प्रसन्नात्मा सा तिथिः परमा मता ॥४॥ मध्याह्नसमये तस्य पूजनं सुखदायकम् । अपारसिद्धिदं प्रोक्तमाद्यंते स्वल्पसिद्धिदम् ॥५॥ द्वीपे द्वीपे च खंडेषु स्वस्वपूर्वदिगंतरे । प्रतिमा वक्रतुंडस्य स्थापिता मुनिभिःपुरा ॥६॥ तत्र क्षेत्रं समाख्यातं दशयोजनमात्रकम् । चतुरस्रं महापुण्यं भुक्तिमुक्तिप्रदं परम् ॥७॥ मध्ये स संस्थितो देवो वक्रतुंडो गणेश्वरः । वामांगे सिद्धिराद्या सा बुद्धिर्वै दक्षिणांगके ॥८॥ संमुखे सिंहरूपं च वाहनं तस्य शोभनम् । अष्टदिक्षु स्थितास्तस्य सिद्धयोऽष्टौ च शौनक ॥९॥ गणा अष्टौ तथा ज्ञेयाश्चतुर्दिक्षु क्रमेण ते । शिवो विष्णू रविः शक्तिर्भक्तियुक्ताः स्थिता इमे ॥१०॥ ब्रह्माद्या देवताः सर्वास्तत्पश्चात् पूर्वतः स्थिताः। गंगाद्याः सरितः सर्वा दक्षिणे संस्थिताः प्रभो ॥११॥ क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च । वसिष्ठाद्या मुनिश्रेष्ठाः संस्थितास्तत्र चोत्तरे ॥१२॥ शेषाद्या नागभूपाश्च गंधर्वाः पर्वतास्तथा । सिद्धा अप्सरसश्चैव विद्याध्राः किंनरा गणाः ॥१३॥ नानाजातिषु ये श्रेष्ठा अभवंस्तत्र संस्थिताः । न वक्तुं शक्यते स्वामिन् मया वर्षशतैरपि ॥१४॥ सेवार्थं वक्रतुंडस्य लालसाधारिणः प्रभोः । हृष्टाः प्रमुदितास्तत्र परस्परहिते रताः ॥१५॥ वक्रतुंड- चरित्राणि कथयंति परस्परम् । हृष्टरोमाण एवं ते भवंतो भावतः पुनः ॥१६॥ समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे । स्वस्वनाम्नांकप्तान्येव स्वल्पदेहधरा मुने ॥१७॥ गणेशतीर्थं तत्रैव वक्रतुंडस्य हर्षदम् । कृतकृत्या भवंत्यत्र स्नानमात्रेण जंतवः ॥१८॥ यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयात् । क्षेत्रे मरणतो जंतुर्ब्रह्मभूतश्च जायते ॥१९॥ दूरे स्थित्वा नरो यस्तु स्मरणं प्रकरोति चेत् । तस्यापि शुक्लगत्या सा मुक्तिर्भवति शाश्वती ॥२०॥ वक्रतुंडस्य ये भक्ता यत्र कुत्र स्थिता मुने । ब्रह्मभूता न संदेहः पावना दर्शनान्नृणाम् ॥२१॥ संक्षेपेण मया तस्य स्थानं ते कथितं मुने । विस्तरेण न शेषोऽपि ब्रह्मविष्णुमहेश्वराः ॥२२॥ वेदाः सस्मृतयः सर्वे स्कंदो योगिन एव च । अयुतायुतवर्षैस्ते कथितुं न क्षमाः कदा ॥२३॥ मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा । कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि ॥२४॥ शौनक उवाच । सूत सूत महाभाग धन्यं क्षेत्रसमुद्भवम् । माहात्म्यं श्रुतमस्माभिर्ब्रह्मसायुज्यदायकम् ॥२५॥ अधुना ब्रूहि धर्मज्ञ यद्वक्षेण च