भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 109, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 109

खं. १ अ. ४८ पान १०९ संश्रुतम् । मुद्गलात्तेन कथितमग्रे यत् कीदृशं च तत् ॥२६॥ सूत उवाच । क्षेत्रस्य चरितं श्रुत्वा दक्षो हर्षसमन्वितः । उवाच मुद्गलं विप्रं भक्तिनम्रात्मकंधरः ॥२७॥ दक्ष उवाच । ढुंढिराजावतारस्य चरितं वद विस्तरात् । वक्रतुंडः स्वयं साक्षात् कथं शंकरदेहजः ॥२८॥ मुद्गल उवाच । शृणु दक्ष महाभाग कथयामि पुरातनम् । इतिहासं गणेशस्य गुणयुक्तं महाद्भुतम् ॥२९॥ याज्ञवल्क्यमुनींद्रेण कथितं कौशिकाय यत् । तदहं संप्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् ॥३०॥ भार्गवो मुनिमुख्यो य ऋचीकस्तपसि स्थितः । बहुकाले व्यतिक्रांते तपसा जीर्णतां ययौ ॥३१॥ वृद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः । वनेषु मृगयूथानि स पश्यन् विस्मितोऽभवत् ॥३२॥ मृगीसंसक्तचित्तश्च मृगः स्वाधीनतां गतः । पुत्रपौत्रादिसंयुक्तो बभ्राम वनगोचरः ॥३३॥ एकैकाश्रितचित्तास्ते क्रीडां चक्रुः परस्परम् । दृष्ट्वा भृगुवरस्तत्र सकामः संबभूव ह ॥३४॥ उवाच स्वय- मेवेदं धन्यं गार्हस्थ्यमेव च । इत्थं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् ॥३५॥ स दृष्ट्वा सहसोत्थाय मुनिं गाधिरपूजयत् । भुक्त्वाऽयाचत तत्कन्यां भार्यार्थं नृपसत्तमम् ॥३६॥ राजा वृद्धं समालोक्य तं जगाद महामुनिम् । श्यामकर्णयुताश्वानां सहस्रं देहि मे मुने ॥३७॥ शुल्कं ग्राह्यं मया चैवं निश्चयः प्राकृतो मुने । अतस्त्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते ॥३८॥ श्रुत्वा मुनिर्गतः सद्यो वरुणस्य गृहं प्रति । गृहीत्वाऽश्वसहस्रं च तस्मात्तं प्रययौ ददौ ॥३९॥ राजा कन्यां ददौ तस्मै भार्गवाय महात्मने । विधिवद्वयभीतः स तां प्रगृह्य ययौ वनम् ॥४०॥ राजपत्नी सुतां प्राह त्वदीयं भाग्यमीदृशम् । अस्माभिः किं प्रकर्तव्यं वनवासं सुते कुरु ॥४१॥ विलप्य द्रव्यवस्त्रादीन् दत्वा पुत्रीकरे तदा । स्वगेहं सा जगामापि वने प्रस्थाप्य तां मुने ॥४२॥ राजपुत्री महाभागा ऋचीकं प्राप्य संस्थिता । सेवामनलसत्वेन कृत्वा तद्भक्तितत्परा ॥४३॥ तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः । तदर्थं तपसा स्वेन निर्ममे नगरं वने ॥४४॥ चातुर्वर्ण्यसमायुक्तं हेमरत्नविभूषितम् । दासीदासादिसंयुक्तं नानाविभवदं परम् ॥४५॥ स्वयं तपःप्रभावेण यौवनं रूपमादधे । रेमे तया यथान्यायं देवेंद्रेण समः प्रभो ॥४६॥ निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकम् । मानसे धारयामास व्यर्थं पत्नीभवं सुखम् ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम चत्वारिंशोऽध्यायः ॥