मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 117, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ५२ पान ११७ सर्वदात्रे ते विघ्नहर्त्रे नमोऽस्तु ते ॥५१॥ विघ्नकर्त्रे ह्यभक्तानां भुक्तिमुक्तिप्रदाय च । योगिनां हृदि संस्थाय योगगम्याय ते नमः ॥५२॥ मनोवाणीविहीनाय शांतिरूपाय ते नमः । शांतेभ्यः शांतिदात्रे च गणेशाय नमो नमः ॥५३॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदाः सशास्त्रकाः । शांतिं प्राप्ता महाभागा अतस्त्वां प्रणमामि वै ॥५४॥ रक्ष रक्ष च दासीं ते विरहेण प्रपीडिताम् । अविमुक्ता शिवेनैव नाम व्यर्थं बभूव मे ॥५५॥ शिवहीना कृता देव दैवं तु परमाद्भुतम् । अतस्ते शरणं प्राप्ता शंकरं दर्शयस्व माम् ॥५६॥ इत्युक्त्वा पतिता तस्य पादयुग्मे महामुने । तामुत्थाप्य गणाधीशो जगौ मधुरया गिरा ॥५७॥ गणेश उवाच । मा शोकं कुरु कल्याणि शंकरं दर्शयामि ते । अविमुक्तमिदं नाम सार्थकं प्रभविष्यति ॥५८॥ त्वया कृतमिदं स्तोत्रं वियोगहरणं भवेत् । यः पठिष्यति भक्त्या च श्रोष्यते तस्य सुंदरि ॥५९॥ यं यमिच्छति भावेन तं तं दास्यामि सर्वगः । ब्रह्मभूयकरं स्तोत्रं भविष्यति न संशयः ॥६०॥ इत्युक्त्वा गणनांथश्च तत्रैवांतरधीयत । तमेव सापि ध्यायन्ती स्थिता कालप्रतीक्षिका ॥६१॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते काशीशिववरप्रदानं नामैकपंचाशत्तमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । एतस्मिन्नंतरे तत्र ययौ ज्योतिर्विदुत्तमः । ढुंढिनामा द्विजो यस्तु पुरा प्रोक्तो मयाऽनघ ॥ १ ॥ सर्वं तन्नगरं तेन मोहितं तत्क्षणात् मुने । पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाऽकरोत् ॥ २ ॥ ढुंढिना स दिवोदासो बोधितः स च त्यक्तवान् । राज्यं बौद्धेन संतस्थौ प्रतीक्षन् शिवदर्शनम् ॥ ३ ॥ ताभ्यामाकारितः शंभुः प्रययौ गणपं पुरः । कृत्वा संपूज्य तं काश्यामादौ चक्रे हि वासिनम् ॥ ४ ॥ स्वयं देवगणैः पश्चादृषिभिश्च विवेश ह । ननाम चरणे काशी विघ्नपस्य शिवस्य च ॥ ५ ॥ यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखम् । दिवोदासाय मोक्षं स शंकरः प्रददौ ततः ॥ ६ ॥ ततः कदाचिद्देवेशो जगाद गिरिशं वचः । तुभ्यं दत्ता मया काशी कृतं सर्वं यथायथम् ॥ ७ ॥ अधुनाऽहं महादेव यास्ये स्वं धाम शोभनम् । यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव ॥ ८ ॥ इत्युक्त्वा ढुंढिविप्रेण सहितोऽसौ गजाननः । अंतर्धानं ययौ तत्र देवानां पश्यतां मुने ॥ ९ ॥ ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः ।