मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 118, कुल 1023 में से
संदर्भ में पढ़ेंस्थापयामास यत्नेन देवैश्च ब्राह्मणैः सह ॥ १० ॥ विधिवत्पूजयामास चोपचारैर्मनोरमैः । सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकार सः॥ ११॥ सर्वान् जगाद विश्वेशो हितं शृणुत मे वचः । आदौ ढुंढिं समभ्यर्च्य ये मां तोष्यंति तत्त्वतः ॥ १२॥ तेभ्यो भुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च । काशीवासफलस्याऽपि दाताऽयं वक्रतुंडकः ॥ १३ ॥ वेदादीनां रहस्यं यदन्विष्टं तु मया बहु । तन्मूलोऽयं हृदि प्राप्तः साक्षाद्ब्रह्मपतिः प्रभुः ॥ १४ ॥ अतोऽयं ढुंढिराजेति नाम्ना ख्यातो मया कृतः । धर्मार्थकाममोक्षाणां दाता क्षेत्रे न संशयः ॥ १५ ॥ एवमुक्त्वा महादे्वो नित्यं पूजापरायणः । ढुंढिराजस्य सेवायां सावधानो बभूव ह ॥१६॥ तथा त्वमपि देवेशं विघ्नराजं भज प्रभो । त्यक्त्वाहंकारभावं तु ब्राह्मणः प्रभविष्यसि ॥१७॥ मुद्गल उवाच । याज्ञवल्क्यवचः श्रुत्वा विश्वामित्रो महातपाः । जगाद तं महाभागं विनयेन समन्वितः ॥ १८ ॥ विश्वामित्र उवाच । याज्ञवल्क्य महाभाग त्वयाऽहं बोधितः खलु । अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने ॥ १९ ॥ अहंकारो मया त्याज्यः केन मार्गेण तद्वद । कीदृशो मे शरीरेऽसौ वद तिष्ठति सांप्रतम् ॥ २० ॥ गणेशानमहं केन भजेयं विधिना वद । स्वरूपं च कथं तस्य योगींद्रोऽसि यतः स्वयम् ॥ २१ ॥ याज्ञवल्क्य उवाच । शृणु त्वं कौशिक ब्रह्मन्नहंकारं वदामि ते । तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः ॥ २२ ॥ एनमेव विजानीह्यहंकारं तु महामते । तस्य त्यागे विधिं वक्ष्ये तं शृणुष्व यथायथम् ॥ २३ ॥ प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् । यदा दास्यति देवोऽसौ तदा ब्राह्मणता भवेत् ॥ २४ ॥ यदा न दत्ता देवेन राजर्षित्वं तदा खलु । अस्तु मे सततं तच्च कोऽहं मे कीदृशं तपः ॥ २५ ॥ अहं सदा पराधीनो देहधारी न संशयः । करोमि यत्नमत्यंतं दैवं चेत्प्रभविष्यति ॥ २६ ॥ अनेन विधिना विप्र तपस्व त्वं महामुने । तदा प्रभविता सर्व गताहंकारभावतः ॥ २७ ॥ अन्यत्त्वं शृणु मे वाक्यं मत्सरं त्यज कौशिक । शरणं गणराजं तं याहि तेन सुखं भवेत् ॥ २८ ॥ न मत्स मं तपः कस्य स्पर्धसे तेन वै द्विजान् । मत्सरेण समाविष्टः कुतस्त्वं ब्राह्मणो भवेः ॥ २९ ॥ त्वया मत्सरभावेन वसिष्ठस्य महात्मनः । पुत्राणां च शतं पूर्णं नाशितं रक्षसा यथा ॥ ३० ॥ अपरा सृष्टिरारब्धा त्रिशंकर्थं पुरा त्वया । वसिष्ठहनने यत्नं नानारूपं करोषि वै ॥३१॥ तं मत्सरं त्यज त्वं वै विधिं च शृणु तत्त्वतः । नीचोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः ॥३२॥ मया किंवा तपः कार्यमेभ्यश्चाधिकमादरात् । एषां तपःप्रभावोऽपि मनसा गम्यते न च ॥३३॥ एवं ज्ञात्वा तपस्व त्वं ब्राह्मणः प्रभविष्यसि । अन्यथा युगसाहस्रं तपस्तप्त्वा