मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 120, कुल 1023 में से
संदर्भ में पढ़ें[ख. १ अ. ५३] [पान १२०]
हितं महत् ॥१३॥ ततो हृष्टानि तत्त्वानि तमूचुः श्रेष्ठभावतः । कस्तिष्ठति वद प्राज्ञ तत्त्वेष्वस्मत्सु वै प्रभो ॥१४॥ तेषां वचनमाकर्ण्य तानुवाच द्विजोत्तमः । तत्त्वाधारमिदं सर्वं विद्यते नात्र संशयः ॥१५॥ विश्वं त्यक्त्वा यूयमपि पश्यतो मम तिष्ठत । विश्वं विदीर्यते सर्वं येन त्यक्तं स वै प्रभुः ॥१६॥ इति श्रुत्वा वचः सर्वैस्तथेति प्रतिपाद्य तम् । क्रमेण त्यक्तुमारेभे आत्माकारा महाबलाः ॥१७॥ ब्रह्माकारा च या पृथिवी विश्वं त्यक्त्वा स्थिताऽभवत् तथेदमखिलं विश्वं न विनष्टं तु भावतः ॥१८॥ ततो जलेन तत्त्यक्तं तथा वै तादृशं स्थितम् । ततस्तु तेजसा त्यक्तं न विनष्टं तथापि च ॥१९॥ ततो वायुश्च तत्त्यक्त्वा स्थितो दूरं महामुने । तथापि सकलं विश्वं पूर्ववत् संस्थितं बभौ ॥२०॥ आकाशेन च संत्यक्तं तथा वै तादृशं बभौ । तन्मात्राभिस्ततस्त्यक्तं तथा वै पूर्ववद्बभौ ॥२१॥ तन्मात्राभिः सहैतानि भूतानि च महामुने । पंचापि दूरतः स्थित्वा शुशुचुर्विप्रभाणि च ॥२२॥ ततो ज्ञानेंद्रियैस्त्यक्तं पंचभिस्तत्तथा बभौ । ततः कर्ममयैस्त्यक्तं तथापि तादृशं बभौ ॥२३॥ तत इंद्रात्मकं ब्रह्म त्यक्त्वा दूरे स्थितं मुने । तथापि विश्वमेवेदं पूर्ववत्संस्थितं किल ॥२४॥ एवं देवगणाः सर्वे इंद्रियाणां प्रकाशकाः । आत्माकाराः स्थिताः दूरं त्यक्त्वा विश्वं महामुने ॥२५॥ तथापि सकलं विश्वं बभौ तेऽपि सुविह्वलाः । निस्तेजसोऽभवंस्तत्र स्थितास्तत्त्वसमन्विताः ॥२६॥ ततोऽन्नब्रह्मणा त्यक्तं विश्वं तदपि संबभौ । प्राणात्मकेन संत्यक्तं तथा वै तादृशं बभौ ॥२७॥ ततो मनोमयेनैव ब्रह्मणा त्यक्तमादरात् । तथापि संबभौ विश्वं पूरितं केनचिन्मुने ॥२८॥ ततो विज्ञान- रूपेण त्यक्तं तदपि तद्बभौ । तत आनंदरूपेण त्यक्तं विश्वं बभौ तदा ॥२९॥ ततो नादात्मकेनैव ब्रह्मणा त्यक्तमादरात् । ततो बिंदुमयेनैव त्यक्तं विश्वं बभौ मुने ॥३०॥ सोऽहंब्रह्मात्मकेनापि त्यक्तं विश्वं बभौ मुने । ततो बोधात्मना त्यक्तं तथा विश्वं च संबभौ ॥३१॥ ततो विदेहरूपेण त्यक्तं तदपि संबभौ । ततोऽप्यसत्स्वरूपेण त्यक्तं तदपि संबभौ ॥३२॥ ततो- ऽपि सत्स्वरूपेण त्यक्तं विश्वं बभौ मुने । ततः समस्ववेद्येन त्यक्तं विश्वं समाबभौ ॥३३॥ ततो नेतिस्ववेद्येन त्यक्तं वै विश्वमाबभौ । ततः स्वानंदस्वरूपेण त्यक्तं विश्वं लयं ययौ ॥३४॥ ततस्ते विस्मिताः सर्वे स्वानंदं तुष्टुवुर्मुने । प्रहृष्टमनसो भूत्वा प्रार्थयामासुरादरात् ॥३५॥ सकलं यत्त्वदाधारमस्माकं त्वं विशेषतः । नायकः सर्वतत्त्वानांमतो भव विनायकः ॥३६॥ विनायक नमस्तुभ्यं पुनर्विश्वं सृज प्रभो । यथा पूर्वं स्थितं स्वामिंस्तथा कुरु जगत्पते ॥३७॥ एवं तैः प्रार्थितो देवो विशेषेण विनायकः । निर्ममे सकलं विश्वं यथापूर्वं मुनीश्वर ॥३८॥ ततस्ते ब्रह्मरूपत्वात्तद्विश्वं विविशुः पुनः । यथा