भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 121, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 121

खं. १ अ. ५३ पान १२१ स्वस्थानमात्मानमाश्रित्य मुमुदुस्ततः ॥३९॥ जगदीश्वरनामानः सर्वेशास्ते प्रकीर्तिताः । अनेन विधिना ब्रह्मन् ज्ञातव्यं तद्विशेषतः ॥४०॥ स विनायक इत्युक्तो द्विविधो याज्ञवल्क्यक । संयोगेन निजानंदो निरानंदो ह्ययोगतः ॥४१॥ द्विविधे नाशभूते च योगरूपोऽयमुच्यते । विनायको महातेजा ब्रह्मणं नायकः स्मृतः ॥४२॥ तं विदित्वा ततः शांतिं वयं प्राप्ता महामुने । अतः शांत्यर्थमत्यंतं तमाराधय भो द्विज ॥४३॥ माया भ्रांतिकरी जंतोर्वक्रा संकथिता मुने । तुंडेन हंति तां भक्त्या तेनाऽयं वक्रतुंडकः ॥४४॥ वक्रतुंडं च सर्वेशं शरणं याहि भो मुने । तदा योगींद्रसेव्यस्त्वं भविष्यसि न संशयः ॥४५॥ मनोवाणीमयं सर्वं गकाराक्षरमेव च । मनोवाणीविहीनं च णकारं विद्धि मानद ॥४६॥ तयोः स्वामी गणेशोऽयं योगरूपः प्रकीर्तितः । तं प्राप्य ब्रह्मभूताश्च भवंति खलु जंतवः ॥४७॥ इदं वेदांतसंभूतं रहस्यं कथितं मुने । गोपनीयं प्रयत्नेन तेन सिद्धिमवाप्स्यसि ॥४८॥ इत्युक्त्वा विररामाथ तदा नारायणः स्वयम् । गणेशाय नमस्तुभ्यमित्युवाच पुनः पुनः ॥४९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते नारायण - याज्ञवल्क्यसंवादो नाम त्रिपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततोऽहं परमप्रीतस्तं प्रणम्य जनार्दनम् । गतस्तपोवनं तात योगाभ्यासं समारभे ॥१॥ क्रमेण पंचधा वृत्तिं जित्वा चित्तस्य साधनैः । गणपं शांतियोगेन प्राप्तोऽहं तदनुग्रहात् ॥२॥ अतस्त्वं शरणं याहि वक्रतुंडं विशेषतः । तेन ब्राह्मणसंवंध्यो भविष्यसि न संशयः ॥३॥ गायत्रीजपसंभूतं श्रेयो देहि महामुने । गजाननाय तेन त्वं विघ्नहीनो भविष्यसि ॥४॥ विश्वस्मिन् मित्रभावं त्वं प्रकुरुष्व सदाननम् । विश्वामित्रश्च ते नाम तदा सार्थत्वमेष्यति ॥५॥ मुद्गल उवाच । इत्युक्त्वा याज्ञवल्क्यः स ययौ तेन प्रपूजितः । गणेशाय नमश्चेति नाममंत्रं सदा जपन् ॥६॥ तदा प्रभृति गायत्रीं विश्वामित्रः स धर्मवित् । त्यक्त्वाऽहंकारमत्यंतं मत्सरं च तथाऽजपत् ॥७॥ गणेशार्पणभावेन गायत्रीं च जजाप ह । तपस्तताप विप्रोऽसौ ध्यात्वा हृदि गजाननम् ॥८॥ गायत्री वेदमातेयं पिता प्रणव उच्यते । स एव गणनाथोऽयमोंकाराकृतिमस्तकः ॥९॥ सगुणो गणराजोऽयमोंकार इति