मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 127, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ शौनकाद्या ऊचुः । सूत त्वया महाभाग कृतकृत्या वयं कृताः । अतुलं वक्रतुंडस्य चरित्रं श्रावितं महत् ॥ १ ॥ धन्योऽसि त्वं महाबुद्धे सर्वज्ञोऽसि विशेषतः । परिपृच्छामहेऽतस्त्वां तद्वदस्व यथार्थतः ॥ २ ॥ श्रुत्वा श्रुत्वा न नस्तृप्तिर्जायतेऽमृतपानवत् । अतस्त्वमेकदंतस्य चरित्रं वद सांप्रतम् ॥ ३ ॥ कस्मिन् ब्रह्मणि संस्थोऽयमेकदंतो गजाननः । कति तस्यावताराश्च किं कर्म वद निश्चितम् ॥ ४ ॥ इति संप्राथितः सूतस्तानुवाच महामुनीन् । प्रश्रयावनतो भूत्वा भक्त्या तेषां प्रणोदितः ॥ ५ ॥ सूत उवाच । एवमेव च दक्षेण परिपृष्टो महामुनिः । मुद्गलस्तमथोवाच तच्छृणुध्वं मुनीश्वराः ॥ ६ ॥ दक्ष उवाच । पुरातनं महत्पुण्यमस्ति मे मुनिसत्तम । तेन ते दर्शनं जातं सर्वज्ञस्य न संशयः ॥ ७ ॥ वक्रतुंडचरित्रं च श्रुतं तव मुखांबुजात् । तेन विश्रांतता प्राप्ता हृदये मे विशेषतः ॥ ८ ॥ यज्ञविध्वंसशोकोऽपि गतो मत्तोऽधुना प्रभो । हर्षयुक्तः कृतो भक्त्या ढुंढेस्तु मुनिसत्तम ॥ ९ ॥ एकदंतचरित्रं मे कथयस्व विशेषतः । किंकर्मा कथमुत्पन्न एकदंतो गजाननः ॥ १० ॥ किं वाहनसमायुक्तः कीदृशं ब्रह्म तस्य वै । इत्यादि सर्वमाख्यानं वद मां करुणानिधे ॥ ११ ॥ सूत उवाच । एवं पृष्टो महातेजास्तमुवाच प्रजापतिम् । भक्तिं ज्ञात्वा विशेषेण गणेशे सर्वसिद्धिदे ॥१२॥ मुद्गल उवाच । शृणु दक्ष त्वया पृष्टं सर्वपापप्रणाशनम् । एकदंतस्य माहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ १३ ॥ धन्योऽसि त्वं महाभाग येन ते श्रवणे रतिः । गजाननस्य देवस्य चरित्रे सर्वभावतः ॥१४॥ अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । गृत्समदस्य संवादं प्रह्लादस्य महात्मनः ॥१५॥ श्रुत्वा मुद्गलवाक्यं तद् दक्षो हृष्टमना मुने । उवाच तं महर्षि स प्रश्रयावनतः स्वयम् ॥१६॥ दक्ष उवाच । ब्रह्मणः सृष्टिमारभ्य सृष्टिमार्गं वद प्रभो । यथा त्रिभुवनं सृष्टं ब्रह्मणा विश्वयोनिना ॥१७॥ तत्र प्रह्लादमाहात्म्यं स्वयमेवागमिष्यति । गृत्समदस्य संवादं यथावद्वर्णय प्रभो ॥१८॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलस्तमुवाच ह । सृष्टिमार्गं पुरावृत्तं शापमोहितमादरात् ॥१९॥ मुद्गल उवाच । शृणु दक्ष महाबुद्धे ब्रह्मा लोकपितामहः । ससर्ज विविधं विश्वं तथा ते कथयाम्यहम् ॥२०॥ गणेशवरदानेन ब्रह्मा स्रष्टुं मनो दधे । योगमायां समास्थाय विवेशाऽसौ जनार्दनम् ॥२१॥ निलीय तस्मिन्नब्दांते नाभिपद्माद्विनिःसृतः । वरदानेन विष्णोश्च पुत्रत्वमगमद्विधिः ॥२२॥ तत्र पद्मे समासीनो ध्यायन् हेरंबमंतरे । ततस्तस्य विधेर्देहाज्जलं वै निःसृतं बहु ॥२३॥ पश्यतस्तस्य सर्वत्र जलं व्याप्तं दिशो दश । तस्मिन् जले निमग्नोऽभूद् बभ्राम भ्रांतमानसः ॥२४॥ सस्मार गणनांथं तं विभो