मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 128, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १ पान २ पाहि भयानकत् । मज्जंतं मां जलात् ढूंढे वक्रतुंड नमोऽस्तु ते ॥२५॥ स्मृतिमात्रेण तत्रासौ ददर्श वटमुत्तमम् । तत्र पत्रे गणेशानं सुप्तं दृष्ट्वा प्रहर्षितः ॥२६॥ त्रिनेत्रं च चतुर्बाहुं शुंडादंडविराजितम् । महोदरं शेषनाभिं भालचंद्रं किरीटिनम् ॥ २७॥ सर्वावयवसंपूर्ण नानाभूषणभूषितम् । वस्त्रैः संच्छादितं बालमंगुष्ठपरिमाणकम् ॥ २८॥ एतादृशं गणेशानं दृष्ट्वा विस्मितमानसः । महाजले वटो योऽयमवशिष्टः कथं जले ॥ २९॥ वटस्य सन्निधाने स ययौ ब्रह्मा प्रजापते। सिषेच गणनायश्च जलं ब्रह्मणि शुंडया ॥ ३० ॥ तेन हृष्टः स्वयं ब्रह्मा तुष्टाव स गजाननम्। बद्धांजलिपुटो भूत्वा भक्तिनम्रात्मकंधरः ॥ ३१॥ ब्रह्मोवाच । नमस्ते गणनाधाय प्रलयांबुविहारिणे । वटपत्रशयायैव हेरंबाय नमो नमः ॥ ३२ ॥ चतुर्भुजधरायैव नाभिशेषाय ते नमः । गजवक्त्राय सर्वेश लंबोदर नमोस्तु ते ॥ ३३॥ एकदंताय वै तुभ्यं नानाशोभासमन्वित । अंगुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४ ॥ सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च । अनंतविभवायैव गणेशाय नमो नमः ॥ ३५ ॥ निर्गुणाय गुणाधार सगुणाय नमो नमः । एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ ३६ ॥ अनादिबालरूपाय सृष्टिस्थित्यंतकारिणे । मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ ३७॥ निवारय महाविघ्नं सृष्टिकर्तुर्गजानन । जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ ३८ ॥ शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल । तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ ३९॥ ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुंडे ददर्श ह । विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ ४० ॥ ततो नानासमीरेण नीतो ब्रह्मा महोदरे । तत्र विश्वं ददर्शाऽसौ नानाश्र्चर्यमयं पुनः ॥ ४१ ॥ एवं नानांडसंयुक्तमुदरं वीक्ष्य च प्रभोः । रोमद्वारेण ब्रह्माऽसौ बहिर्यातॊ यथा पुरा ॥ ४२ ॥ ददर्श तं गणेशानं बालरूपं सुविस्मितः । तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ ४३ ॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ ४४॥ यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति । यं यं चिंतयते भावं तं तं दास्यामि निश्चितम् ॥ ४५ ॥ नाभेः कलमतो विष्णोर्निःसृतो वरदानतः । तत्राऽऽदौ मे स्मृतिं पूजां विस्मृतस्त्वं पितामह ॥ ४६ ॥ तेन त्वं विघ्नसयुक्तः पुनर्जातो न संशयः । अधुना मे स्मृतिं कृत्वा दृष्ट्वा मां विघ्नवर्जितः ॥ ४७॥ अतः परं विधे किंचित्त्वया कार्यं महामते । मत्स्मृतिं नमनं कृत्वा कुरु त्वं सिद्धिमेष्यसि ॥ ४८ ॥ यथा दृष्टं मदीयेऽद्य जगत्स्थावरजंगमम् । उदरे तादृशं विश्वं सृज त्वं मेऽधुनाऽज्ञया ॥४९॥ इत्युक्त्वांतर्दधे सद्यो गणेशो बालरूपधृक् ।