भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 131, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 131

खं. २ अ. २ पान ५ हर्षितो ब्रह्मा ततः स ससृजे पुनः। तस्य देहात्समुत्पन्नाः पुत्रा दश महौजसः ॥४१॥ मरीचिर्भृगुरत्रिश्च पुलस्त्यः पुलहः क्रतुः। दक्ष त्वमंगिराश्चैव वसिष्ठो नारदः प्रभो ॥४२॥ तानुवाच स्वयं ब्रह्मा सृजध्वं विविधाः प्रजाः । ओमित्युक्त्वा ययुः सर्वे तपसे वनमुत्तमम् ॥४३॥ ततो नारद आद्यंतमुवाच पितरं मुनिः । नाहं सृजामि देवेश भजामि गणनायकम् ॥४४॥ मायामयं सर्वमिदं मिथ्याभूतं भ्रमात्मकम् । भ्राम्येज्ज्ञाता तदर्थं यो मूर्खवन्नात्र संशयः ॥४५॥ ततस्तं पुनरप्याह सृज त्वं विविधाः प्रजाः । अंत्ये वयसि देवेशं गणेशं भज पुत्रक ॥४६॥ स ऊचे त्वं बोधयसि किमर्थं मां प्रजापते । मिथ्याभूतार्थमादौ कः सृजति भ्रांतिसंयुतः ॥४७॥ ततस्तं शप्तवान् ब्रह्मा पत त्वं शूद्रयोनितः । गंधर्वश्च तथा भावी नानास्त्रीभोगकारकः ॥४८॥ ततस्तं नारदस्तातं शशाप क्रोधसंयुतः। अपूज्यो भविताऽसि त्वं वृथा शपसि मां यतः ॥४९॥ ततो नारद एवाऽसौ गत्वा तपसि संस्थितः । गणेशं तोषयामास मंत्रेणैकाक्षरेण च ॥५०॥ दिव्यवर्षशते पूर्णे तं ययौ गणपः स्वयम् । वरं वृणु महाभाग दास्यामि मनसीप्सितम् ॥५१॥ ततस्तं स्तुतवान् देवं गणेशं सर्वसिद्धिदम् । अशृणोच्च वरं चेति शापं मे विनिवर्तय ॥५२॥ ततस्तं गणराजः स उचिवान् भक्तवत्सलः । पितृशापं कथं मिथ्या करोमि वद सांप्रतम् ॥५३॥ मया वरस्तथा दत्तो ब्रह्मणे तेन सत्यवाक् । अतः शृणु महाभाग वचनं मे सदा हितम् ॥५४॥ गंधर्वो भवितासि त्वं तत्र ज्ञानं वदामि ते । सदा स्त्रीभिः समायुक्तं त्वां माया न प्रबाधते ॥५५॥ पुनस्त्वं शूद्रयोनौ च भविष्यसि न संशयः । तत्र संन्यासिभिः संगो भविष्यति यदाऽनघ ॥५६॥ तेभ्यो ज्ञानं समासाद्य गमिष्यसि वनेषु च । तत्र वैष्णवमार्गेषु त्वं संसक्तो भविष्यसि ॥५७॥ तद्देहपतनात् भावी पुनस्त्वं ब्रह्मणः सुतः । नारदो नाऽत्र संदेहस्तत्र शंभुं भजिष्यसि ॥५८॥ नारायणमुखात्तत्र मां ज्ञात्वा मत्प्रियो मुने । भविष्यसि च योगेंद्रो गाणपत्यो न संशयः ॥५९॥ इत्युक्त्वा गणनाथस्तं तत्रैवांतरधीयत । नारदस्तं नमस्कृत्य शापं भुक्त्वा दिवं गतः ॥६०॥ पुनः स नारदो जातः शिवभक्तिपरायणः । नारायणेन संज्ञप्तो गाणपत्यो बभूव ह ॥६१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते नारदशापनिवर्तनं नाम द्वितीयोऽध्यायः ॥