मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 132, कुल 1023 में से
संदर्भ में पढ़ेंख. २ अ. ३ पान ६ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कथं नारायणेनाऽसौ बोधितो मुनिसत्तमः । तन्मे कथय योगींद्र न तृप्यामि कथामृतात् ॥ १ ॥ मुद्गल उवाच । एकदा नारदो दक्ष पर्यटञ्छंकरं गतः । तत्र संपूजयंतं तं गणेशं स ददर्श ह ॥ २ ॥ मूर्तिं चिंतामणेः साक्षात् स्थापितां रत्ननिर्मिताम् । शुंडादंडमुखीं चैव शंकरस्तामपूजयत् ॥ ३॥ तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः । प्रययौ तं नमस्कृत्य विकुंठे विष्णुमादरात् ॥ ४ ॥ तं प्रणम्य महातेजा नारदो विनयान्वितः । उवाच भक्तिसंयुक्तो नारायण नमोऽस्तु ते ॥ ५ ॥ त्वं साक्षाज्जगतामीशो नुद मे संशयं प्रभो । कैलासमगमं द्रष्टुमहं शंकरमुत्सुकः ॥ ६ ॥ तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन । अपूजयन्महाभक्त्या रोमांचितशरीरवान् ॥ ७ ॥ अश्रुप्रवाहसंयुक्तं प्रेम्णा चैव परिप्लुतम् । ध्यानस्थं शंकरं दृष्ट्वा मौनवानभवं प्रभो ॥ ८ ॥ तं प्रणम्य महाविष्णो त्वदंतिकमुपागतः । त्वं चापि गणराजस्य वदसे नाममंत्रकम् ॥ ९ ॥ शंकरात्न परं किंचिदव्यक्तं ब्रह्म कथ्यते । शिवो विकारहीनश्च सर्वसिद्धिप्रदो मतः ॥ १० ॥ त्वं तदीया महाशक्तिः प्रभो नारायणाह्वया । सदानंदस्वरूपश्च सर्वात्मा चैव कथ्यते ॥ ११ ॥ कोऽसौ गणेश्वरो नाम त्वं कथं स्मरसि प्रभो । विश्वनाथः कथं शंभुस्तं पूजयति नित्यशः ॥ १२ ॥ एनं मे संशयं देव च्छेत्तुमर्हसि केशव । सर्वज्ञस्त्वं रमानाथ शाधि मां शिष्यमागतम् ॥१३॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा प्रहृष्टः केशवोऽब्रवीत् । तं गणेशस्य संभक्तेः पात्रं दृष्ट्वा यथार्थतः ॥ १४ ॥ नारायण उवाच । शृणु नारद मे वाक्यं संशयं कुरु मा मुने । योगशांतिस्वरूपोऽयं गणेशो नात्र संशयः ॥ १५ ॥ सिद्धिवृद्धिपतिः साक्षात् स्वानंदाख्ये पुरे स्थितः । तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः ॥ १६ ॥ विनायकः स एको वै वयं नायकसंयुताः । भजामो भक्तियुक्तास्तं योगशांत्यर्थमादरात् ॥१७॥ एकदाऽहं गतस्तत्र कैलासे शंकरालये । गणेशं पूजयंतं तं शिवं दृष्ट्वा सुविस्मितः ॥१८॥ तस्य नित्यविधिं पूर्णं जातं दृष्ट्वा तमब्रुवम् । त्वं साक्षान्निर्विकारश्च मोहहीनः सदाशिव ॥१९॥ अव्यक्तं ब्रह्म यत्प्रोक्तं ब्रह्माधिपतिसंज्ञितम् । त्वमेव वेदवादेषु कथं वदसि विप्रपम् ॥२०॥ कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो । सर्वज्ञस्त्वं सदा शंभुः शिष्यं ते तारयस्व माम् ॥२१॥ शिव उवाच । शृणु विष्णो रहस्यं मे शांतिदं योगसेवया । योगपूर्णं गणेशाख्यं ब्रह्मभूयपदप्रदम् ॥२२॥ पंचधा चित्तवृत्तिर्या सा बुद्धिः कथ्यते बुधैः । पंचभेदतया सर्वं भुनक्ति प्रकृतिः परा ॥२३॥ तत्र मोहप्रदा सिद्धिर्नानाभ्रांतिप्रकाशिका । सिद्ध्यर्थं पंचधा चित्तं यत्नयुक्तं बभूव ह ॥२४॥ धर्मार्थकाममोक्षाणां