भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

ख. २ अ. ३ पान ६ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कथं नारायणेनाऽसौ बोधितो मुनिसत्तमः । तन्मे कथय योगींद्र न तृप्यामि कथामृतात् ॥ १ ॥ मुद्गल उवाच । एकदा नारदो दक्ष पर्यटञ्छंकरं गतः । तत्र संपूजयंतं तं गणेशं स ददर्श ह ॥ २ ॥ मूर्तिं चिंतामणेः साक्षात् स्थापितां रत्ननिर्मिताम् । शुंडादंडमुखीं चैव शंकरस्तामपूजयत् ॥ ३॥ तं दृष्ट्वा नियमे संस्थं विस्मितो नारदो मुनिः । प्रययौ तं नमस्कृत्य विकुंठे विष्णुमादरात् ॥ ४ ॥ तं प्रणम्य महातेजा नारदो विनयान्वितः । उवाच भक्तिसंयुक्तो नारायण नमोऽस्तु ते ॥ ५ ॥ त्वं साक्षाज्जगतामीशो नुद मे संशयं प्रभो । कैलासमगमं द्रष्टुमहं शंकरमुत्सुकः ॥ ६ ॥ तत्र सोऽपि गणेशस्य मूर्तिं कृत्वा जनार्दन । अपूजयन्महाभक्त्या रोमांचितशरीरवान् ॥ ७ ॥ अश्रुप्रवाहसंयुक्तं प्रेम्णा चैव परिप्लुतम् । ध्यानस्थं शंकरं दृष्ट्वा मौनवानभवं प्रभो ॥ ८ ॥ तं प्रणम्य महाविष्णो त्वदंतिकमुपागतः । त्वं चापि गणराजस्य वदसे नाममंत्रकम् ॥ ९ ॥ शंकरात्न परं किंचिदव्यक्तं ब्रह्म कथ्यते । शिवो विकारहीनश्च सर्वसिद्धिप्रदो मतः ॥ १० ॥ त्वं तदीया महाशक्तिः प्रभो नारायणाह्वया । सदानंदस्वरूपश्च सर्वात्मा चैव कथ्यते ॥ ११ ॥ कोऽसौ गणेश्वरो नाम त्वं कथं स्मरसि प्रभो । विश्वनाथः कथं शंभुस्तं पूजयति नित्यशः ॥ १२ ॥ एनं मे संशयं देव च्छेत्तुमर्हसि केशव । सर्वज्ञस्त्वं रमानाथ शाधि मां शिष्यमागतम् ॥१३॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा प्रहृष्टः केशवोऽब्रवीत् । तं गणेशस्य संभक्तेः पात्रं दृष्ट्वा यथार्थतः ॥ १४ ॥ नारायण उवाच । शृणु नारद मे वाक्यं संशयं कुरु मा मुने । योगशांतिस्वरूपोऽयं गणेशो नात्र संशयः ॥ १५ ॥ सिद्धिवृद्धिपतिः साक्षात् स्वानंदाख्ये पुरे स्थितः । तस्य भक्तिप्रभावेण वयं वै सर्वसिद्धिदाः ॥ १६ ॥ विनायकः स एको वै वयं नायकसंयुताः । भजामो भक्तियुक्तास्तं योगशांत्यर्थमादरात् ॥१७॥ एकदाऽहं गतस्तत्र कैलासे शंकरालये । गणेशं पूजयंतं तं शिवं दृष्ट्वा सुविस्मितः ॥१८॥ तस्य नित्यविधिं पूर्णं जातं दृष्ट्वा तमब्रुवम् । त्वं साक्षान्निर्विकारश्च मोहहीनः सदाशिव ॥१९॥ अव्यक्तं ब्रह्म यत्प्रोक्तं ब्रह्माधिपतिसंज्ञितम् । त्वमेव वेदवादेषु कथं वदसि विप्रपम् ॥२०॥ कोऽसौ गणेश्वरो नाम तद्वदस्व मम प्रभो । सर्वज्ञस्त्वं सदा शंभुः शिष्यं ते तारयस्व माम् ॥२१॥ शिव उवाच । शृणु विष्णो रहस्यं मे शांतिदं योगसेवया । योगपूर्णं गणेशाख्यं ब्रह्मभूयपदप्रदम् ॥२२॥ पंचधा चित्तवृत्तिर्या सा बुद्धिः कथ्यते बुधैः । पंचभेदतया सर्वं भुनक्ति प्रकृतिः परा ॥२३॥ तत्र मोहप्रदा सिद्धिर्नानाभ्रांतिप्रकाशिका । सिद्ध्यर्थं पंचधा चित्तं यत्नयुक्तं बभूव ह ॥२४॥ धर्मार्थकाममोक्षाणां

खं. २ अ. ३ पान ७ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ सिद्धिः सर्वत्र कथ्यते । ब्रह्मभूयकरी साक्षाज्जानीहि पुरुषोत्तम ॥२५॥ ब्रह्मणि ब्रह्मभूतो यस्तस्य किं भ्रान्तिरुच्यते । धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य वा विभो ॥२६॥ तस्य पंचविधं चित्तं नास्ति जानीहि निश्चितम् । तदा योगी समाख्यातो गणेशाभेदतां गतः ॥२७॥ संप्रज्ञातसमाधिस्थो गकारः कथ्यते बुधैः । असंप्रज्ञातरूपो वै णकारो वेदवादिभिः ॥२८॥ तयोः स्वामी गणेशोऽयं शांतियोगमयः सदा । नेतिरूपोऽहमव्यक्तस्त्वं समात्मक उच्यसे ॥२९॥ यत्र कुत्र प्रदृष्टा वै वयं सर्वे भवात्मकाः । भवप्रत्यययोगस्थो गणेशः पंचधाऽभवत् ॥३०॥ स तु मायामयः प्रोक्तो वेदेषु खलु केशव । मायाहीनो गणेशान उपायप्रत्ययात्मकः ॥३१॥ साक्षाद्गणेशरूपे च मायायुक्तवियुक्तता । नास्ति तस्मात्स वै शांत्या लभ्यते नान्यथा क्वचित् ॥३२॥ गणेशोऽहं सदा ब्रह्म ब्रह्मणां पतिरंजसा । योगोऽयं गाणपत्याख्यः कथितस्ते मया प्रभो ॥३३॥ अनेन विधिना ज्ञानं गाणेशाख्यं भविष्यति । त्यक्त्वा पंचविधं चित्तं भव चिंतामणिः प्रभो ॥३४॥ एवमुक्त्वा महादेवो विरराम च नारद । मया ते कथितं ज्ञानं गाणेशाख्यं महामुने ॥३५॥ अस्माकं पददाता स ब्रह्मभूयप्रदस्तथा । गणेशः कुलदेवश्च तस्मात्तं प्रभजामहे ॥३६॥ मुद्गल उवाच । तं विष्णुं प्रणिपत्याऽथ नारदः प्रययौ मुनिः । तपोवनं समासाद्य योगाभ्यासरतोऽभवत् ॥३७॥ गणेशं मनसा ध्यायञ्जपन् मंत्रमुत्तमम् । दशवर्षैः प्रसन्नोऽभूद्गणेशस्तं ययौ मुनिम् ॥३८॥ तं दृष्ट्वा विस्मितोऽत्यंतं नारदः प्रणनाम च । कृतांजलिपुटो भूत्वा तुष्टाव गणपं मुनिः ॥३९॥ नारद उवाच । नमामि गणनांथं तं सर्वविघ्नविनाशिनम् । वेदांतागोचरं तज्ज्ञैर्गम्यं ब्रह्मैव संस्थितम् ॥४०॥ मनोवाणीविहीनं नो मनोवाणीमयं न च । ब्रह्मेशानं कथं स्तौमि सिद्धिबुद्धिपतिं परम् ॥४१॥ त्वद्दर्शनेन हेरंब कृतकृत्योऽहमंजसा । इत्युक्त्वा पूजयामास भक्तिभावसमन्वितः ॥४२॥ पूजयित्वा गणेशानं पुनस्तुष्टाव नारदः । रोमांचितशरीरोऽसौ भावयुक्तो महामुनिः ॥४३॥ नमो नमो गणेशाय विघ्नराजाय ते नमः । भक्तानां विघ्नहंत्रे चाभक्तानां विघ्नकारिणे ॥४४॥ अमेयमायया चैव संयुक्ताय नमो नमः । योगरूपाय वै तुभ्यं योगिभ्यो मोहदाय ते ॥४५॥ विनायकाय सर्वेश नमश्चिंतामणे नमः । अनंतमहिमाधार नमस्ते चंद्रमौलये ॥४६॥ एकदंताय देवाय मायिभ्यो मोहदाय ते । नमो नमः परेशाय परात्परतमाय ते ॥४७॥ निर्गुणाय नमस्तुभ्यं गुणाकाराय साक्षिणे । महाखुवाहनायैव मूषकध्वजधारिणे ॥४८॥ अनादये नमस्तुभ्यं ज्येष्ठराजाय ढुंढये । हर्त्रे कर्त्रे सदा पात्रे नानाभेदमयाय च ॥४९॥ त्वद्दर्शनसुधापानाद्गतं मे भ्रांतिजं ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

[शीर्षक: ख. २ अ. ४ | पान ८]

महत्। मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥५०॥ न भिन्नं परिपश्यामि त्वदृते गणनायक। शांतिदं योगमासाद्य प्रसादात्ते न संशयः ॥५१॥ भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः। कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥५२॥ इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत्। मदीया भक्तिरत्यंतं भविष्यति सदाऽचला ॥५३॥ न योगाच्चलनं क्वापि भविष्यति महामुने। सदा योगींद्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥५४॥ त्वया कृतमिदं स्तोत्रं शांतियोगप्रदं भवेत्। पठते शृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥५५॥ इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः। सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥५६॥ इत्याख्यानं नारदीयं कथितं ते प्रजापते। शृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीय खंडे एकदंतचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। ततो ब्रह्मा ससर्जाऽसौ मुखतो ब्राह्मणान् स्वयम्। बाहुभ्यः क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा ॥ १ ॥ पद्भ्यः शूद्रान् महादेवः ससर्ज गुणप्रेरितः। संन्यासं शिरसस्तद्वद्वानप्रस्थाश्रमं हृदः ॥ २ ॥ नाभ्याश्च ब्रह्मचर्यं स जंघाभ्यां गृहिनां तथा । वर्णाश्रमान् स वै दृष्ट्वा हर्षितोऽभूत् पितामहः ॥ ३ ॥ ततो धर्मं स्वयं ब्रह्मा ससर्जोरःप्रदेशतः। पृष्ठतोऽधर्मरूपं च सुरदैत्यप्रवर्तकौ ॥ ४ ॥ ततो देवांश्च गंधर्वानप्सरोयक्षकादिकान् । असुरान् यातुधानांश्च ससर्ज निजदेहतः ॥ ५ ॥ सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान्। क्रियायुक्तान् ससर्जाऽसौ स्वदेहं प्रददौ ततः ॥ ६ ॥ ते सर्वे ब्रह्मणो देहात्समुत्पन्ना महौजसः। व्यवहारयुता दक्ष ववृधुर्न तथापि ते ॥ ७ ॥ तेषां स्वर्गप्रमाणं च शृणु मुख्यं प्रजापते। संक्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परम् ॥ ८ ॥ प्रथमो महतः सर्गो ब्रह्मणः स तु कथ्यते । तन्मात्राणां द्वितीयस्तु भूतसर्गः प्रकीर्तितः ॥ ९ ॥ वैकारिकस्तृतीयस्तु सर्ग ऐंद्रियकः स्मृतः। इत्येते प्राकृताः सर्गाः संभूता बुद्धिपूर्वकाः ॥ १० ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पंचमः ॥ ११ ॥ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः। ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानवः ॥ १२ ॥ अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः । नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा ॥ १३ ॥ विकृताः

खं. २ अ. ४ पान ९ षट् समाख्याता प्राकृताश्च त्रयो मताः । नवसर्गाः प्रविज्ञेयाः प्राकृता वैकृता इमे ॥ १४ ॥ प्राकृता ये त्रयः सर्गा बुद्धिपूर्वाः प्रकीर्तिताः । बुद्धिपूर्वं प्रवर्तन्ते तत्त्वायैः सर्वजंतवः ॥ १५ ॥ एवं सृष्ट्वा स्वयं ब्रह्मा प्रजा नानाविधाः प्रभो । ववृधुर्न प्रजास्तस्य तेन संदुःखितोऽभवत् ॥ १६ ॥ ततस्तस्य शरीराद्वै दांपत्यं निःसृतं परम् । वामांगात्प्रकृती रम्या शतरूपा च सा स्मृता ॥१७॥ दक्षिणांगात्तु संभूतः पुरुषः स मनुः स्मृतः । स्वायंभुवो महाभाग आद्यः क्षत्रियधर्मवित् ॥१८॥ बद्धांजलिपुटौ चोभौ वचो ब्रह्माणमूचतुः । आज्ञां कुरु महाभाग किं कुर्याव प्रजापते ॥१९॥ ततो ब्रह्मा स्वयं जातौ तौ जगाद प्रहर्षितः । अतुलां सृजतं सृष्टिं मैथुनीं तपसो बलात् ॥२०॥ ततस्तौ तं प्रणम्यादौ जग्मतुर्वनमुत्तमम् । प्रतेपाते तपो घोरं विचिंत्य गणपं हृदि ॥२१॥ ततो विधातृच्छायायाः कर्दमो मुनिसत्तमः । समुत्पन्नश्च तं दृष्ट्वा ब्रह्मोवाच सृज प्रजाः ॥२२॥ स मुनिर्वनमागत्य तताप परमं तपः । विष्णुं ध्यात्वा प्रजाकामः शुक्लरूपं यथाविधि ॥२३॥ एतस्मिन्नंतरे जातौ विष्णुकर्णमलोद्भवौ । मधुकैटभनामानौ दैत्यौ परमदारुणौ ॥२४॥ ताभ्यां स्वभुजवीर्येण जितं त्रिभुवनं तदा । देवाः सर्वे भयोद्विग्नाः पलायंत दिशासु च ॥२५॥ ब्रह्माणं भक्षितुं यातौ तेन निद्रा स्तुता तदा । निद्रया विष्णुरव्यक्तो मुक्तः सन्नुत्थितो बभौ ॥२६॥ तेन युद्धं महाघोरं कृतं ताभ्यां भयानकम् । मल्लयुद्धेन तौ जेतुं न शशाक जनार्दनः ॥२७॥ पंचवर्षसहस्राणि युयुधे हरिरव्ययः । ततो हरिं ममृदतुर्महादैत्यौ बलान्वितौ ॥२८॥ ततो विष्णुः स्वमात्मानमंतर्धाय पलायत । शरणं शंकरं चैव ययौ भावसमन्वितः ॥२९॥ प्रणिपत्य महेशानं जगाद भयसंकुलः । वृत्तांतं युद्धसंभूतं जयोपायं वदस्व मे ॥३०॥ तेन संकथितं तस्मै गणेशो विस्मृतस्त्वया । तमाराधय यत्नेन ततः सिद्धिमवाप्स्यसि ॥३१॥ षडक्षरं महामंत्रं गणेशाय ददौ शिवः । स ययौ तपसे देशे दंडकारण्यसंज्ञके ॥३२॥ तत्र पद्मासनं कृत्वा ध्यात्वा देवं गजाननम् । षडक्षरविधानेन तताप परमं तपः ॥३३॥ सहस्रवर्षपर्यंतं तपस्तप्तं सुदारुणम् । तदा तं वरदानाय विष्णुं गणपतिर्ययौ ॥३४॥ तं दृष्ट्वा प्रणनामाथ पूजयामास भक्तितः । महाविष्णुः प्रसन्नात्मा प्रणनाम गजाननम् ॥३५॥ बद्धांजलिपुटो भूत्वा तं तुष्टाव गणेश्वरम् । नानाभावसमायुक्तं वरदं भक्तवत्सलम् ॥३६॥ श्रीमहाविष्णुरुवाच । नमो गणपते तुभ्यं विघ्नराजाय ते नमः । नमः कृपानिधे ढुंढे भक्तसंरक्षकाय ते ॥३७॥ सिद्धिबुद्धिपते तुभ्यं नमस्ते विघ्नहारिणे । अभक्तेभ्यः सदा विघ्नदात्रे हेरंबरूपिणे ॥३८॥ निर्गुणाय गुणानां वै चालकाय नमो नमः । नमः प्रपंचरूपाय

खं. २ अ. ४ पान १०

प्रपंचरहिताय ते ॥३९॥ ब्रह्मभ्यो ब्रह्मदात्रे च ब्रह्मणे ब्रह्मरूपिणे । नरकुंजररूपाय नानामायामयाय ते ॥४०॥ कारणानां च देवेश कारणाय नमो नमः । ज्येष्ठराजाय वै तुभ्यं कारणै रहिताय च ॥४१॥ योगिनां हृदि संस्थाय योगिभ्यो योगदायिने । योगरूपधरायैव गणेशाय नमो नमः ॥४२॥ मायाश्रयाय मायाया आधाराय नमो नमः । मायिभ्यो मायया त्वं वै मोहदाता नमो नमः ॥४३॥ त्वां स्तोतुं कः समर्थः स्याद्योगाकारेण वर्तसे । यन्न वेदा विकुंठाश्च शास्त्रैः सर्वैः सहांगकैः ॥४४॥ मनोवाणीविहीनस्त्वं न हि देव कृपाकर । मनोवाणीमयो नैव कथं त्वां स्तौमि विघ्नपम् ॥४५॥ तथापि बुद्धिदाता त्वं त्वत्प्रसादेन संस्तुतः । धन्योऽहं देवदेवेश तव दर्शनतोऽधुना ॥४६॥ साक्षाद् दृष्ट्वा गणेशं त्वां तेनाहं ब्रह्मरूपकः । जातो नास्त्यत्र संदेहो योगींद्रो योगदायकः ॥४७॥ इत्युक्त्वा तं प्रणम्याऽसौ त्वनृत्यद् भक्तिभावितः । रोमांचितशरीरश्च हर्षाश्रुभिरपिप्लुतः ॥ ४८॥ तमुवाच गणाधीशो वरं वृणु जनार्दन । तपसा भक्तिभावेन तुष्टो दास्यामि वाञ्छितम् ॥ ४९॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धि- प्रदायकम् । भविष्यति नृणां विष्णो पठतां शृण्वतां सदा ॥५०॥ धर्मार्थकाममोक्षाणां साधकं प्रभविष्यति । ईप्सितार्थप्रदं सद्यः प्रसादान्मे च केशव ॥ ५१॥ मुद्गल उवाच । गणेशवचनं श्रुत्वा विष्णुर्हर्षसमन्वितः । जगाद तं प्रणम्यादौ वाञ्छितं संवृणे त्विति ॥ ५२॥ विष्णुरुवाच । यदि प्रसन्नतां यातस्तदा भक्तिं सुदुर्लभाम् । तव पादयुगे देहि दृढामन्यभि- चारिणीम् ॥ ५३॥ अन्यद्देहि गणाधीश ज्ञानं मे ह्यतुलं तथा । कीर्तिं सर्वत्र मे देहि सामर्थ्यं विविधं तथा ॥ ५४ ॥ मधुकैटभनाशार्थमुपायं वद सांप्रतम् । अन्यदैत्याभिहनने सामर्थ्यं देहि विघ्नप ॥ ५५ ॥ तस्य तद्वचनं श्रुत्वा तथेति गणपो- ऽब्रवीत् । युद्धाय गच्छ देवेश दैत्यौ जेष्यसि तौ बलात् ॥ ५६ ॥ तयोर्मरणमत्यंतं सुगुप्तं ब्रह्मणा कृतम् । समये वरदानस्य तपसा तोषितेन च ॥ ५७॥ स्वमुखेन यदा मृत्युं दैत्यौ तौ कथयिष्यतः । तदा तेन प्रकारेण जहि दैत्यौ महाबलौ ॥ ५८॥ अहं मायां समाश्रित्य तयोस्तव हृदि प्रभुः । वासं कृत्वा तवाधीनौ करिष्यामि न संशयः ॥ ५९ ॥ मदीयस्मरणं चित्ते करिष्यति यदा भवान् । जयोपायं तदा विष्णो ज्ञास्यसे दैत्यनाशकम् ॥ ६० ॥ एवमुक्त्वांतर्दधेऽसौ गणेशो ब्रह्मनायकः । विष्णुस्तत्र महामूर्तिं स्थापयामास सुद्विजैः ॥ ६१ ॥ पूजयामास तां मूर्त्तिमुपचारैः सुपुष्कलैः । सिद्धिक्षेत्रं सुविख्यातं तदोदः प्रबभूव ह ॥ ६२ ॥ अनुष्ठाने कृते तत्र नानासिद्धिकरं परम् । क्षेत्रं बभूव विख्यातं गाणेशं सिद्धसेवितम् ॥ ६३ ॥

[header] खं. २ अ. ५ पान ११ [/header]

तत्र विष्णुः सदा वासं चक्रे वै भक्तिसंयुतः । सदारः परिवारेणापूजयन्नित्यमादरात् ॥ ६४ ॥ तं प्रणम्य गणाधीशं ययौ युद्धाय सत्वरः । गणेशं मनसा ध्यात्वा तौ चिच्छेद महाबलौ ॥ ६५ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते मधुकैटभवधो नाम चतुर्थोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । नवब्रह्मसुताः प्रोक्तास्तेपुस्ते परमं तपः । दिव्यवर्षसहस्रं च गणेशं ह्यर्चिंतयन् ॥१॥ एकाक्षरविधानेन पूजयंतश्च नित्यशः । वायुमात्राशिनः सर्वे तोषयामासुरादरात् ॥२॥ ततस्तेषां प्रसन्नोऽभूद्गणेशो भक्तवत्सलः । आययौ तान् वरं दातुं मूषकोपरि संस्थितः ॥३॥ अनंतसूर्यसंकाशं दृष्ट्वा तं हर्षसंयुताः । सौम्यरूपं प्रणेमुस्ते निबद्धकरसंstring: पुटाः ॥४॥ तुष्टुवुः परमात्मानं गणेशं दक्षमुरव्यकाः । तद्दर्शनजबोधेन भक्तिनम्रात्मकंधराः ॥५॥ प्रजापतय ऊचुः । नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे । सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥६॥ योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः । योगिनां गम्यरूपाय शांतियोगप्रदाय ते ॥७॥ स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते । अव्यक्ताय व्यक्ताकाय व्यक्ताव्यक्ताय ते नमः ॥८॥ ब्रह्मणे विष्णवे चैव शंकराय च भानवे । शक्तये चंद्ररूपाय यमाय च नमो नमः ॥९॥ अग्नये नैर्ऋतायैव वारुणाय च वायवे । कुबेराय च रुद्राय शेषाय च नमो नमः ॥१०॥ ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च । पशवे नररूपाय वृक्षाकाराय ते नमः ॥११॥ पर्वताय समुद्राय नदीनदसुरूपिणे । दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥१२॥ अन्नाय फलरूपाय रसरूपाय ते नमः । पंचभूतमयायैव सर्वाकाराय ते नमः ॥१३॥ चिद्रूपाय च बोधाय विदेहाय नमो नमः । असत्याय च सत्याय समरूपाय साधवे ॥१४॥ स्वानंदाय ह्ययोगाय योगाय गणधारिणे । गणेशाय नमस्तुभ्यं सर्वशांतिप्रदाय च ॥१५॥ चिंतामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् । चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥१६॥ मुद्गल उवाच । एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते । तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥१७॥ भवद्भैर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति । यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥१८॥ पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति । वंध्यदोषहरं धान्यधनदं पशुदं परम् ॥१९॥ भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरं

भवेत् । मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥२०॥ गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः । तं प्रणम्य महाभक्त्या ऊचुः प्रांजलयोऽभवन् ॥२१॥ त ऊचुः । यदि प्रसन्नतां यातस्तदा देहि गजानन । त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥२२॥ सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक । यद्यदिच्छामहे ढूंढे तत्तत् सिध्यतु सर्वदा ॥२३॥ ओमित्युक्त्वा गणाधीशोंतर्धानं प्रचकार वै । तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥२४॥ ततो ब्रह्मा पुनर्दक्षमगादीत् पुत्रमुत्तमम् । शक्तेस्तपस्त्वया कार्यं सा ते पुत्री भविष्यति ॥२५॥ ततो दक्षेण तपसाराधिता शक्तिरादरात् । शतवर्षे प्रसन्ना सा ययौ तस्यांतिकं स्वयम् ॥ २६ ॥ ततस्तां प्रणनामाथ तुष्टाव प्रकृतांजलिः । दक्ष उवाच । नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि ॥ २७ ॥ जगद्धात्र्यै नमस्तुभ्यं जगन्मातर्नमो नमः । सर्वेषां प्राणदात्र्यै ते सर्वरूपिणि ते नमः॥ २८ ॥ अनाद्यै चादिभूतायै पार्वत्यै ते नमो नमः । गायत्रिका श्रीसावित्रीरूपायै ते नमो नमः ॥ २९ ॥ प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि । निर्गुणायै गुणानां वै धारिकायै नमो नमः ॥३०॥ प्रसीद भव मे पुत्री दाक्षायणि नमो नमः । ततस्तं पार्वती प्राह भक्तं दक्षप्रजापतिम् ॥ ३१ ॥ शक्तिरुवाच । भविष्यामि सुता तेऽहं नानारूपधरा सुत । जगच्च पूरयिष्यामि जनयित्वा सुताः सुतान् ॥ ३२ ॥ त्वया कृतं मदीयं यत्स्तोत्रं ख्यातिं गमिष्यति । सर्वकामप्रदं पूर्णं पठते शृण्वते भवेत् ॥ ३३ ॥ अंतर्धानं ययौ देवी पश्यतस्ते प्रजापते । त्वया गणेशनाम्नश्च स्मरणं त्यक्तमद्य वै ॥ ३४ ॥ मंत्रस्तस्य परित्यक्तः स्वेन दुर्बुद्धिधारिणा । त्वया तिरस्कृता पुत्री सती भस्मत्वमागता ॥ ३५ ॥ त्वमपि शोकसंयुक्तः कृतो विघ्नेश्वरेण वै । पूर्वसंस्कारयोगेन स्मृतिस्तव समागता ॥ ३६ ॥ अधुना भावयुक्तस्तं शृणु मे तत्कथामृतम् । राज्य- लक्ष्मीश्च संप्राप्ता यं च तस्य प्रमाददा ॥ ३७ ॥ तया युक्तः पुमान् सद्यो मदांधो जायते किल । अतः संतश्च नेच्छंति लक्ष्मीं ज्ञानविनाशिनीम् ॥ ३८ ॥ मनुः स्वायंभुवः ख्यातः सपत्नीको ययौ वनम् । अष्टाक्षरविधानेन तोषयामास विघ्नपम् ॥ ३९ ॥ तताप स तपो घोरं दिव्यवर्षसहस्रकम् । प्रसन्नोऽभूत्तदा तस्मै वरं दातुं समाययौ ॥ ४० ॥ तं दृष्ट्वा प्रणनामादौ मनुः स्वायंभुवः प्रभो । पूजयन् परया भक्त्या ततस्तुष्टाव विघ्नपम् ॥ ४१ ॥ स्वायंभुव उवाच । नमस्ते गजवक्त्राय हेरंबाय नमो नमः । ओंकाराकृतिरूपाय सगुणाय नमो नमः ॥ ४२ ॥ नैर्गुण्ये गजरूपाय सदा ब्रह्मसुखात्मने । गणेशाय सदा भक्तपोषकाय नमो नमः ॥ ४३ ॥ नरकुंजररूपाय योगाभेदाय ते नमः । चतुर्बाहुधरायैव पुरुषार्थप्रसिद्धये ॥ ४४ ॥

खं. २ अ. ५ पान १३ नानाभोगधरायैवानंतलीलास्वरूपिणे । विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५ ॥ सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः । स्वानंदपतये तुभ्यं सदा स्वानंददायिने ॥ ४६ ॥ नमस्ते मूषकारूढसर्वांतरसुभोगिने । नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७ ॥ सिद्धिबुद्धिपते तुभ्यं त्रेधामायाप्रसारिणे । भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८ ॥ वेदोपनिषदां लभ्यमहावाक्यमयाय ते । ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९ ॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः । योगिनः शेषमुख्या वै शंकराद्या महेश्वराः ॥ ५० ॥ तथापि तव जातेन दर्शनेन गजानन । स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥५१॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । वेदांतागोचरो गम्यो धन्योऽहं जगतीतले ॥५२॥ धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो । विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥५३॥ इति स्तुत्वा गणाधीशं भक्त्या परमया युतः । सरोमांचोऽभवत्तत्र प्रणनाम पुनः पुनः ॥५४॥ तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् । वरं वृणु महाभाग यस्ते मनसि वर्तते ॥५५॥ कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् । पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥५६॥ पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥५७॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । दृढभक्तिकरं मे च भविष्यति न संशयः ॥५८॥ इति ब्रुवंतं विघ्नेशमुवाच मनुसत्तमः । स्वायंभुवः प्रसन्नात्मा कृतांजलिरुदारधीः ॥५९॥ मनुरुवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्तिं दृढां त्वदीयां मे यया मोहो न विद्यते ॥६०॥ सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् । प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥६१॥ यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा । तव भक्तेषु वासो मे सदा भवतु मानद ॥६२॥ तथेति तमुवाचादावंतर्धानं चकार ह । गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥६३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते स्वायंभुववरप्रदानं नाम पंचमोऽध्यायः ॥

१४

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततः स्वायंभुवो यातो ब्रह्माणं प्रणनाम सः । शतरूपा तथा तं वै जग्मतुस्तौ तदाज्ञया ॥१॥ राज्यं चकार धर्मेण मनुः शस्त्रधरः प्रभुः । धर्मयुक्तो महातेजा गाणपत्यप्रियोऽभवत् ॥२॥ द्वौ पुत्रौ शतरूपायाः कन्यास्तिस्रः प्रजापते । मैथुनेनैव मार्गेण समुत्पाद्य बभौ मनुः ॥३॥ प्रियव्रतोत्तानपादौ पुत्रौ तस्य च धीमतः । आकूतिर्देवहूतिश्च प्रसूतिश्च सुलोचनाः ॥४॥ कन्यास्तिस्रः समाख्याता मनोस्तस्य महात्मनः । प्रसूतिं स ददौ तुभ्यमाकूतिं रुचये तथा ॥५॥ देवहूतिं मनुस्तत्र कर्दमाय ददौ स्वयम् । एवमादि महाराजश्चकार विधिनोदितः ॥६॥ कर्दमस्तपसा विष्णुं तोषयामास यत्नतः । शतवर्षैः प्रसन्नोऽभूद्यौ दातुं वरं द्विजम् ॥७॥ तं ययाचे स पुत्रस्त्वं भव मे जगदीश्वर । वरं दत्त्वा स्वयं विष्णुर्ययौ वैकुंठमंजसा ॥८॥ ततः स देवहूत्यां वै विष्णुः कपिलरूपधृक् । तस्य पुत्रत्वमापन्नो वरदान- प्रभावतः ॥९॥ आकृत्यां मिथुनं जज्ञे रुचेर्वै मानसं परम् । यज्ञश्च दक्षिणा देवी याभ्यां संवर्धितं जगत् ॥१०॥ यज्ञो विष्णुर्महाभागो दक्षिणायां सुतान् शुभान् । द्वादशाजनयच्चैव यामा देवाश्च ते स्मृताः ॥११॥ ततो यज्ञस्तपोयुक्तः सस्त्रीकश्चाभवत् प्रभुः । गणपं योगमार्गेण तोषयामास सर्वदा ॥१२॥ कृत्वा मणिमयीं मूर्तिं गणेशस्य चतुर्भुजाम् । नित्यं मुनिगणैर्युक्तोऽपूजयत् भक्तिभावितः ॥१३॥ ततो गणपतिः प्रीतो ददौ योगं महाद्भुतम् । तेन योगींद्रमुख्योऽसौ गाणपत्यो बभूव ह ॥१४॥ हेरंबेति सदा मंत्रं यज्ञो हर्षाज्जजाप ह । शिष्येभ्यः प्रददौ योगं गाणपत्यं मुदान्वितः ॥१५॥ प्रसूत्यां जनयामास कन्या दक्षः प्रजापतिः । चतुर्विंशति संख्याता शक्त्यंशाः सर्वमातरः ॥१६॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा। बुद्धिर्लज्जा वपुः शांतिः सिद्धिः कीर्तिस्त्रयोदश ॥१७॥ ददौ धर्माय पत्न्यर्थं दक्षो हृष्टमना मुने। ब्रह्मणा नोदितश्चैव तासां सूतिं वदामि ते ॥१८॥ श्रद्धापुत्रः स्मृतः कामोऽर्थश्च लक्ष्मीसुतोऽभवत् । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोषसंज्ञितः ॥१९॥ पुष्ट्यां लाभः सुतो जज्ञे मेधापुत्रः शमः स्मृतः । क्रियायाश्च स्मृतौ पुत्रौ दंडः समय एव च ॥२०॥ बुद्ध्या बोधोऽभवत्पुत्रश्चाप्रमादः प्रकीर्तितः । लज्जाया विनयश्चैव वपुषो व्यवसायकः ॥२१॥ शांतिपुत्रस्तथा क्षेमः सिद्धेः सिद्धः सुतोऽभवत् । यशःकीर्तिसुतः प्रोक्त इत्येते धर्मसूनवः ॥२२॥ कामस्याऽभूत् सुतो हर्ष आनंदश्चापरः स्मृतः । इत्येष सुखरूपस्तु सर्गो धर्मस्य कीर्तितः ॥२३॥ प्रसंगात्तं वदिष्यामि सर्गोऽधर्मस्य दुःखदः । ब्रह्मणः पृष्ठतस्तद्वन्मिथुनं संबभूव ह ॥२४॥ अधर्मश्च तथा हिंसा तयोः पुत्रोऽनृतः स्मृतः । निकृतिश्च सुता प्रोक्ता तयोर्जज्ञे भयं तथा ॥२५॥ नरकश्च

खं. २ अ. ६ पान १५ तथा माया वेदना च सुते स्मृते । भयाज्जज्ञे च मायायां मृत्युः सर्वोपहारकः ॥२६॥ नरकाद्द्नेनायां च दुःखं संसारकारकम् । मृत्योर्व्याधिर्जरा शोकस्तृष्णा क्रोधश्च जज्ञिरे ॥२७॥ दुःखोदर्काः स्मृताः सर्वे ह्यधर्मप्रभवा मुने । नैतेषां प्रसवश्चास्ति सर्वे ते तूर्ध्वरेतसः ॥२८॥ एकादश सुताः शिष्टास्तासां वंशं निबोधय । सतीं ददौ स रुद्राय ख्यातिं च भृगवे तथा ॥२९॥ मरीचये च संभूतिं स्मृतिमंगिरसे ददौ । पुलस्त्याय तथा प्रीतिं क्षमां च पुलहाय वै ॥३०॥ संततिं क्रतवे चासावनसूयां तथाऽत्रये । ददावूर्जां वसिष्ठाय मुने स्वाहां च वह्नये ॥३१॥ पितृभ्यश्च स्वधां देवीं ददौ दक्षः प्रहर्षितः । नियोगाद्ब्रह्मणः साक्षात्तासां वंशं वदामि ते ॥३२॥ सत्यां च शंकराज्जज्ञे कार्तिकेयो महाबलः। देवसेनापतित्वेऽसावभिषिक्तश्च वेधसा ॥३३॥ ख्यातयां भृगोः समुत्पन्ना लक्ष्मीनारायणप्रिया । देवौ धातृविधातारौ मेरोजामातरौ स्मृतौ ॥३४॥ अयतिर्नियतिश्चैव कन्ये मेरोश्च ते मुने । तयोर्धातृविधातृभ्यां जातौ श्रेष्ठौ सुतावुभौ ॥३५॥ मृकंडोऽन्यस्तथा प्राणो मार्कंडेयो मृकंडजः । तथा वेद- शिराः प्रोक्तः प्राणस्य द्युतिमान् सुतः ॥३६॥ मरीचिरपि संभूत्यां पूर्णमासमसूत । कन्याचतुष्टयं चैव सर्वलक्षणमंडितम् ॥३७॥ कृषिर्वृष्टिस्तथा कृष्टिश्चतुर्थ्यपचितिर्मुने । विरजाः पर्वतश्चैव पूर्णमासस्य तौ सुतौ ॥३८॥ क्षमा च सुषुवे पुत्रान् पुलहाच्च प्रजापतेः । कर्मश्रेष्ठं वरीयांसं सहिष्णुं मुनिपुंगवम् ॥३९॥ तथा वनकवीनासं तपस्तेजस्विनं सुतम् । अत्रेर्वंशं प्रवक्ष्यामि शृणु शौनक चादरात् ॥४०॥ अत्रिः संजनयामासानसूयायां सुताञ्छुभान् । सोमं दुर्वाससं चैव दत्तं योगधरं तथा ॥४१॥ त्रयो देवा इमे प्रोक्ता अत्रेः पुत्रा महात्मनः । ब्रह्मा भवश्च विष्णुश्च कलांशेन प्रजाधराः ॥४२॥ स्मृत्यामंगिरसो जज्ञे सिनीवाली सुलोचना । कुहूराका तथा पुत्र्यनुमतिश्च पतिव्रता ॥४३॥ प्रीत्यां पुलस्त्ययोगीशादयोनिरभवत्सुतः। पूर्वजन्मनि विप्रेषोऽगस्त्योऽयं परिकीर्तितः ॥४४॥ देवबाहुस्तथा कन्या सर्वांगैः शोभिनी स्मृता । संतत्यां षष्टिसाहस्रीं पुत्राणाम- सृजत् क्रतुः ॥४५॥ त ऊर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः । सप्त पुत्रान् स ऊर्जायां वसिष्ठोऽजनयत्प्रभुः ॥४६॥ कन्यां कमलपत्राक्षीं चित्रकेतुः सुरोचकः । विरजा मित्रसंज्ञश्च उल्बणो वसुभृत्परः ॥४७॥ द्युमान् शक्त्यादयश्चान्ये सप्तपुत्रा महौजसः । योऽसौ रुद्रात्मको वह्निः स्वाहायां त्रीन् सुतांस्तथा ॥४८॥ जनयामास तेजस्वी तेऽग्नयः परिकीर्तिताः । पावकः पवमानश्च शुचिस्तेऽजनयन् सुतान् ॥४९॥ प्रत्येकं वै पंचदशैकोनपंचाशदग्नयः । सर्वे तेजस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः ॥५०॥ निर्मथ्यः पवमानस्तु ससुतः परिकीर्तितः । वैद्युतः पावकः प्रोक्तः ससुतः शास्त्रसंमतः ॥५१॥ सूर्ये तपति

योऽग्निश्च स पुत्रस्तु शुचिः स्मृतः। सर्वत्रगः स रुद्रात्मा ब्रह्मपुत्रोऽग्निरुच्यते ॥५२॥ अमूर्तयोऽग्निष्वात्ता हि सांगा बर्हिषदः स्मृताः। पितरश्च स्वधा तेभ्योऽसूत द्वे तनये तथा ॥५३॥ मेना च धरणी नाम्नी ते उभे ब्रह्मवित्तमे। असूत मेना मैनाकं क्रौंचं हिमवतो मुने ॥५४॥ गंगां लोकपवित्रां च पार्वतीं परमेश्वरीम्। ते उभे शंकरं देवं लेभाते पतिमुत्तमम् ॥५५॥ तपसा गिरिराजेन मेनयाराधिता सती। वरदानप्रभावेण पार्वती तनयाऽभवत् ॥५६॥ धरणी मेरुशैलस्य पत्नी कन्ये प्रजापते। सुषुवे चायतिं चैव नियतिं कथिते पुरा ॥५७॥ एषा दक्षस्य कन्यासु संततिः कथिता मया। पठते शृण्वते चैव सर्वकामफलप्रदा ॥५८॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते दक्षकन्यावंशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। दक्षकन्याप्रसूतेभ्यः पितरः परमाहृताः। गणेशाराधनं तेभ्यो ददुः प्रत्येक्रमादरात् ॥ १ ॥ नानामंत्रान्यतान्धार्य साधयित्वा च ते वने। गत्वाऽजपंश्च हेरंबं ध्यात्वा तपसि संस्थितः ॥२॥ ततो वर्षसहस्रेण परितुष्टो गजाननः। वरं दातुं ययौ तत्र भक्तिभावेन तोषितः ॥ ३॥ तं दृष्ट्वा तुष्टुवुः सर्वे बद्धांजलिपुटाः प्रभुम्। भक्तिभाव- समायुक्ता गणेशं सर्वसिद्धिदम् ॥ ४॥ ऋषिपुत्रा ऊचुः। नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे। ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥ मनोवागतिरूपाय मनोवाग्गम्यमूर्तये। योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥ निराकाराय विघ्नेश भक्तविघ्ननिवारक। शांतिरूपाय सर्वत्र शांतिदाय नमो नमः ॥ ७॥ सृष्टिरक्षणसंहारकारिणे ते नमो नमः। सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥ मायाविकारहीनाय मायिने मोहदायिने। मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९॥ अनंतविभयायैवानंतोदारपराक्रम। अनंताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १० ॥ वेदांतागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात्। स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११ ॥ धन्यो नो जनको देव वयं धन्यतमा विभो। विद्या व्रतं तपो मंत्रोऽस्माकं गणपदर्शनात् ॥ १२ ॥ वरदश्वेदेकदंत भक्तिं देहि दृढां त्वयि। यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३ ॥ स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन। यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४ ॥ एवमुक्तवा

खं. २ अ. ७ पान १७ पूजयंत उपचारैरनेकंशः । प्रणेमुर्भक्तियुक्तास्तं सरोमांचा बभूविरे ॥ १५ ॥ ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् । तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६॥ भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा । सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । यः शृणोति नरो भक्त्या पठेद्द्वै तस्य सिद्धिदम् ॥ १८॥ एकविंशतिवारं च पठेत्तावद्दिनानि यः । स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २०॥ स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः । सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१॥ शौनक उवाच । अत्रिपुत्रा महाभागा ब्रह्मविष्णुशिवात्मकाः । तच्चरित्रं विस्तरतः श्रोतुमिच्छामि तद्वद ॥ २२॥ सूत उवाच । ब्रह्मणोंऽशसमुद्भूतश्चंद्रस्तपसि संस्थितः । गणेशात्स वरं लब्ध्वाऽमृतरूपो बभूव ह ॥ २३॥ कलाभिः सर्वदेवानां पोषकः स तथा नृणाम् । किरणैरन्नभावस्य वृद्धिकृत् सर्वदाऽभवत् ॥ २४॥ दत्तो विष्णुकलांशेन संभूतो योगधारकः । क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः ॥ २५॥ जडोन्मत्तपिशाचादिबालानंदादिका मुने । अवस्थाः साधयामास नानाभूमिप्रकाशिकाः ॥ २६॥ तं दृष्ट्वा योगिनं सर्वे सेवायामभवन् पराः । द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावतः ॥ २७॥ क्षणं विश्राममत्यंतं न लेभे मुनिसत्तमः । दत्तो विह्वलतां यातः किंकरोमीत्यचिंतयत् ॥ २८॥ ततस्तेन जले विप्र ममज्जे योगधारणात् । प्रतीक्षयंतस्तत्तीरे स्थिताः सर्वेऽभवन् जनाः ॥ २९॥ ततो दत्तेन सिध्या च मोक्षलक्ष्मीः प्रकाशिता । गृहीत्वा वामभागे तां निःसृतो जलामध्यतः ॥ ३०॥ दक्षिणे मद्यकुंभं स हस्ते धृत्वा पपौ स्वयम् । स्त्रिया सह विलासेन भोगयुक्तो बभूव ह ॥ ३१॥ त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः । सुखेन योगमास्थाय संस्थितो- ऽत्रिसमुद्भवः ॥ ३२॥ गते कियति काले च देवासुरसमुद्भवम् । युद्धं दारुणरूपं वै जातं तत्र समीपतः ॥ ३३॥ दैत्यैर्देवास्ततो भग्नाः पलायंत दिशो दश । तत्राऽऽययुः सुसंभीता रक्ष रक्षेति चाब्रुवन् ॥ ३४॥ ततो सुरा ययुः सर्वे नग्नशस्त्रधरा बलात् । तान् दृष्ट्वाऽमरसंघास्ते पलायनपरा बत ॥ ३५॥ दैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपं सुरूपिणीम् । तां गृहीत्वा ययुः सर्वे धृत्वा मोहेन मस्तके ॥ ३६॥ मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु संधृता । तदा तेषां जयप्राप्तिर्जातासीन्नात्र संशयः ॥ ३७॥ अतो निस्तेजसा स्पृष्टा दैत्या देवैः प्रपीडिताः । पलायंत भयात् सर्वे पाताल विविशुः पुनः ॥ ३८॥ मोक्षलक्ष्मीस्ततस्तेषां पश्यतां मुनिसत्तम । अंतर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता ॥ ३९॥ शौनक उवाच । सूत कूटं त्वया प्रोक्तं न बुद्धं तन्मयाधुना ।

ख. २ अ. ७ | पान १८ मोक्षलक्ष्मीः शिरः स्पृष्टा दैत्यानां दुःखदा कथम् ॥४०॥ सूत उवाच । सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि यथा श्रुतम् । व्यासात् सर्वज्ञमुख्याच्च शृणु शौनक यत्नतः ॥४१॥ रजस्तमोयुता दैत्या भोगलक्ष्मीपरायणाः । परद्रव्यहराः सर्वे परस्त्रीगामिनस्तथा ॥४२॥ परापकारकर्तारो जंतुभ्यो दुःखदाः स्मृताः । सदा मद्यादिभिर्युक्ताः पापाचारा विशेषतः ॥४३॥ साधूनां मुनिमुख्यानां देवानां योगिनां तथा । वेदशास्त्रपुराणानां निंदका भयदायकाः ॥४४॥ इत्यादिबहुभिर्दोषैः संयुक्तास्ते महासुराः । सदा भोगप्रिया ज्ञेया मुक्तौ नार्हा अतः कदा ॥४५॥ देहं सर्वक्रियाणां ते कर्तारं प्राप्य दैत्यपाः । सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो दधुः ॥४६॥ अतस्तैश्चरणाघातैर्हता मुक्तिर्विशेषतः । भोगलक्ष्मीः शिरोभिस्तैर्वंदिता तत्र यत्नतः ॥४७॥ देवर्षयः सदा यत्नैर्मुक्तिमिच्छंति सर्वदा । अतस्ते मस्तके देवीं धारयामासुरंजसा ॥४८॥ असुरैर्योगिसंगेन धृता मुक्तिर्यदा मुने । शिरस्यपि शुभा सा न कारणं कथयामि ते ॥४९॥ दुराचारादिसंयुक्ता भोगबुद्धिपरायणाः । तेभ्यः कुतः सा शुभदा कुपिता तान्निहंति वै ॥५०॥ गृहीता विषयासक्तैर्नैच्छिता पश्य शौनक । चरणाघातकैर्देवी ताडिता च तदा भवेत् ॥५१॥ अतो भोगेप्सुभिर्विप्र वंद्या भोगप्रदायिनी । यदि मुक्तिर्दुराचारैर्धृता तान्नाशयिष्यति ॥५२॥ इति ते कथितं सर्वं कारणं मुनिसत्तम । तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता ॥५३॥ यत्र भोगः प्रियो नित्यं तत्र मुक्तिर्न विद्यते । यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुतो भवेत् ॥५४॥ वासनायुक्तरूपा च भोगलक्ष्मीर्न संशयः । निर्वासनमयी मोक्षलक्ष्मीर्जानीहि शौनक ॥५५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं दत्तसयोगेन योगभूमिं समाचरन् । नानाचेष्टायुतो दक्ष अवधूतः प्रकाशते ॥१॥ गोवद्वृक्षणसंयुक्तः पशुवत्पक्षिवत्कदा । मूत्रादिदेहचेष्टां स चकार मुनिसत्तमः ॥२॥ सहजावस्थया युक्तो बभूवांते- ऽत्रिसंभवः । तत्रांतर्यामितां ज्ञात्वा खेदयुक्तो बभूव ह ॥३॥ व्यक्ताव्यक्तसमेत्यादिनानाब्रह्मसुसंस्थितः । योगेन न स शांतो- ऽभूद्ययौ स्वपितरं ततः ॥४॥ प्रणम्य भगवानत्रिं दत्तो योगिसमावृतम् । साक्षाद्ब्रह्ममयं पूर्णं प्रांजलिः पुरतोऽभवत् ॥५॥

यहाँ प्रस्तुत पृष्ठ का संपूर्ण देवनागरी लिप्यंतरण नीचे दिया गया है:

खं. २ अ. ८ पान १९ अत्रिणा मानितः सोऽपि निषसादासने स्वयं । उवाच ब्रह्मपुत्रं तमत्रिं विनयसंयुतः ॥६॥ दत्त उवाच। स्वामिन्नानाविधं ब्रह्म मया योगेन साधितम् । तत्रोपाधिः समादृष्ट उपाधिरहितोऽभवम् ॥७॥ उपाधिं निरुपाधिं च त्यक्त्वा साम्येऽहमास्थितः । तत्त्यक्त्वा तूर्यभूतोऽहं सहजे संस्थितोऽभवम् ॥८॥ तत्र दृष्ट्वा महायोगिन् स्वाधीनत्वं सदा प्रभो । तेन शांतिविहीनोऽहं किं करोमि वदस्व भोः ॥९॥ सहजान्न परं ब्रह्म लभ्यते योगसेवया । अतो मां शांतियोगं त्वं कथयस्व महामुने ॥१०॥ दत्तस्य वचनं श्रुत्वा ब्रह्मपुत्रो महातपाः । अत्रिस्तूवाच तं पुत्रं शांतिमित्छंतमादरात् ॥११॥ शृणु पुत्र प्रवक्ष्यामि शांतियोगं सनातनम् । ब्रह्मणा कथितं मे तं येन शांतोऽहमंजसा ॥१२॥ अस्माकं कुलदेव त्वं प्राप्तो गणपतिः प्रभुः । स वै शिवादिदेवानां कुलदेवः प्रकीर्तितः ॥१३॥ शांतियोगस्वरूपं त्वं तं जानीहि महामते । भजस्व सुप्रयत्नेन तदा शांतिमवाप्स्यसि ॥१४॥ गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत । तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥१५॥ नामरूपात्मकं सर्वं जगद्ब्रह्म प्रकथ्यते । तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥१६॥ तन्नामृतमयं सौरमात्माकारेण संस्थितम् । सद्रूपं तद्विजानीहि ब्रह्म वेदे प्रकीर्तितम् ॥ १७॥ तयोर्भेदतो ब्रह्म समं सर्वत्र संस्थितम् । सदसन्मयमेवं च विष्णुं जानीहि वेदतः ॥१८॥ तेभ्यो विलक्षणं तुर्यं नेति रूपं प्रकीर्तितम् । निर्मोहशिवसंज्ञं च स्वाधीनं ब्रह्म तद् बुधैः ॥१९॥ चतुर्णां ब्रह्मणां योगे स्वानंदः कथ्यते बुधैः । स तु मायामयः साक्षाद्गणेशो वेदवादिभिः ॥२०॥ अंतर्बाह्या क्रिया सर्वा ब्रह्माकारा प्रदृश्यते । कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥२१॥ ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् । तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥२२॥ ज्ञानानां कर्मणां चैवाभेदयोगः समात्मकः । आनंदात्मकरूपो यं द्वैधनाशे स आप्यते ॥२३॥ स्वेच्छया कर्मयोगश्च धृतो येन महात्मना । स्वेच्छया ज्ञानयोगश्च स्वेच्छया- नंदयोगकः ॥२४॥ स्वेच्छया स त्रिभिर्हीनः सहजाख्यः प्रकथ्यते । सदा स्वाधीनरूपश्च स्वेच्छया क्रीडति स्वयम् ॥२५॥ ब्रह्मभूतात्मको योगः स्वानंदाख्यः प्रकीर्तितः । तत्र स्वाधीनता त्रेधा पराधीनकता कुतः ॥२६॥ ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च । उत्थानं नास्ति संयोगात् स्वस्वरूपिणि योगतः ॥२७॥ स्वानंदे सुतसंयोगो जगतां ब्रह्मणां भवेत् । सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥२८॥ अयोगात्मकयोगश्च सदा संयोगवर्जितः । जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥२९॥ सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः। स्वकीया भेदहीनत्वान्निवृत्तिर्योगिभिर्धृता ॥ ३० ॥ ब्रह्म ब्रह्मणि संस्थं

यन्नागतं न गतं पुनः । स्वानंदनाशतो लभ्यं ब्रह्मभूयमयोगकम् ॥ ३१ ॥ ब्रह्मस्वानंदवासी स गणेशः कथ्यते बुधैः । न स्वानंदात्मकः प्रोक्तो वेदै वै वेदवादिभिः ॥३२॥ क्रीडात्मकगणेशानः स्वानंदः परिकीर्तितः । संयोगात्मकरूपेण स्वस्वरूपिणि तिष्ठति ॥३३॥ क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः । निरानंदात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥३४॥ संयोगायोग- योश्चैव तयोर्नाशे गणेश्वरः । शांतियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥३५॥ पूर्णयोगात्मकस्तत्र गणेशः परि- कीर्तितः । मायायुक्तविहीनत्वं भ्रांतिमात्रं प्रकीर्तितम् ॥३६॥ पंचचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक । तत्र मोहकरी सिद्धिर्भ्रांतिदा मोहरूपिणी ॥३७॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते । ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥३८॥ पंचधा चित्तवृत्तिर्या तत्र यद्बिंबितं सुत । तदेव गणराजस्य रूपं बिंबात्मकं परम् ॥३९॥ धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् । ऐश्वर्यं मोहदं जंतोर्यत्र भ्रमति लालसी ॥ ४० ॥ पंचैश्वर्येषु यद्बिंबं तदेव गणपस्य च । जीवं जानीहि पुत्र त्वं शांतियोगस्य सेवया ॥ ४१ ॥ पंचचित्तप्रणाशे व पंचैश्वर्ये लयं गते । अधुना गणराजस्त्वं भविताऽसि न संशयः ॥ ४२ ॥ त्यजावधूतमार्गं त्वं भव मुख्योऽवधूतकः । अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥ ४३ ॥ अतः शांतिं भजस्व त्वं दत्तयोगेन सत्वरम् । ददामि ते महामंत्रं गणेशस्य विधानतः ॥ ४४ ॥ तत एकाक्षरं मंत्रं ददौ पुत्राय भावतः । अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः ॥ ४५ ॥ साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदां वरः । गंगाया दक्षिणे तीरे पूजयामास विघ्नपम् ॥४६॥ त्यक्त्वा भूमिस্বরূপं स शांतिमास्थाय योगवित् । अभजत्तं सुभावेन गणपं हृदि चिंतयन् ॥ ४७ ॥ महायोगी स्वयं दत्तो वर्षेणैकेन शौनक । शांतिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥ ४८ ॥ तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया । भक्तवात्सल्यतो देव आश्रमे सुखशांतिदे ॥ ४९ ॥ तं दृष्ट्वा सहसोत्थाय प्रणाम कृतांजलिः । तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥ ५० ॥ श्रीदत्त उवाच । नमो गणपते तुभ्यं नमो योगस्वरूपिणे । योगिभ्यो योगदात्रे च शांतियोगात्मने नमः ॥ ५१ ॥ सिद्धिबुद्धिपते तुभ्यं पंचचित्तप्रधारक । नानाविहारशीलाय गणेशाय नमो नमः ॥ ५२ ॥ सिद्धिदात्रे नमस्तुभ्यं नानैश्वर्यप्रदायिने । मोहहंत्रे मोहकर्त्रे हेरंबाय नमो नमः ॥ ५३ ॥ स्वानंदवासिने तुभ्यं संयोगाभेदधारिणे । नानामायाविहाराय विघ्नेशाय नमो नमः ॥ ५४ ॥ सांख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते । परादुत्थानरूपाय विदेहाय नमो नमः ॥ ५५ ॥ बोधाय सर्वरूपाय देहदेहिमयाय च । स्वत उत्थानरूपाय प्रकृतिप्रलयाय ते ॥ ५६ ॥ साहंकाराय

खं. २ अ. ८ पान २१


देवाय जगदीशाय ते नमः। महते बिंदुरूपाय जगद्रूपाय ते नमः ॥ ५७ ॥ नादात्मकगुणेशाय नानावेषप्रधारिणे । ब्रह्मणे सृष्टिकर्त्रे ते पितामह नमोऽस्तु ते ॥ ५८ ॥ हरये पालकायैव नानादेहधराय ते । संहर्त्रे शंकरायैव कर्माकाराय भानवे ॥ ५९ ॥ शक्तये च क्रियामूर्ते देवमानवरूपिणे । नागासुरमयायैव ढुंढिराजाय ते नमः ॥ ६० ॥ स्थावराय नमस्तुभ्यं जंगमाय नमो नमः । जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ ६१ ॥ किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् । वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥ ६२ ॥ धन्यो देहो मदीयोद्य पितरौ कुलमेव च । विद्यायोगस्तपश्चैव त्वदंघ्रियुगदर्शनात् ॥ ६३ ॥ इत्युक्त्वा भक्तिभावेन संप्लुतोऽसौ महामुनिः । ननर्त हृष्टरोमासावानन्दाश्रु सृजन्मुहुः ॥ ६४ ॥ ततस्तं स्वकरे धृत्वा गणनाथाः स सस्वजे । उवाच योगिनं पूर्णं वचनं परमाद्भुतम् ॥ ६५ ॥ श्रीगणेश उवाच । धन्योऽसि दत्त योगींद्रो जातोऽसि मदनुग्रहात् । त्वं पूर्णां लभसे शांतिमचलां मयि सर्वदा ॥६६॥ न भेदस्ते कदाचित्ते भविष्यति महामुने । त्वत्प्रीतिसंप्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥ ६७ ॥ गाणेशज्ञानमाहात्म्यं त्वयात्रेञ्च मुखाच्छ्रुतम् । साक्षात्कारकरं तस्माद् विज्ञानक्षेत्रकं त्विदम् ॥ ६८ ॥ विज्ञानगणपो दत्तनाम्नाख्यातो भवाम्यहम् । दर्शनाच्छांतिसंदाता भविष्याम्यत्र मानद ॥ ६९ ॥ अत्र वासं प्रकुर्वंति मदर्थं भक्तिसंयुताः । शांतियोगं सदा तेभ्यो दास्यामि तव सन्निधौ ॥७०॥ पुराऽत्र तु शिवेनैव ज्ञानं साक्षात्कृतं परम् । विज्ञानेश्वरनामेति स मया शंकरः कृतः ॥७१॥ तस्यात्र सन्निधौ स्थित्वा त्वया ज्ञानं प्रसाधितम् । अतः शंकरमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥७२॥ त्वया कृतमिदं स्तोत्रं योगशांतिप्रदं भवेत् । पठतां शृण्वतां नॄणां ब्रह्मभूयकरं तथा ॥७३॥ धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति । सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥७४॥ इत्युक्त्वांतर्दधे तत्र गणेशो भक्तवत्सलः । दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥७५॥ ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः । योगाभेदमयत्वेन जात आत्मनिवेदकः ॥ ७६ ॥ दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् । स्वामिन्यसौ सेवकोपि तदाकारेण संस्थितः ॥७७॥ इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी । दत्तेन साधिता मुख्या शांतियोगप्रयत्नतः ॥७८॥ एतस्मिन्नंतरे तत्र प्रकटोऽभूत् स्वयं शिवः । विज्ञानेश्वरनामाऽसौ दत्तं तं परिषस्वजे ॥७९॥ अहो दत्त महाभाग मम मित्रत्वमागतः । अत्रैवैनं गणेशानमध्यायं योगसेवया ॥८०॥ ततो दत्तं पुरस्कृत्य शंकरो ब्राह्मणैः सह । गणेशं स्थापयामास गंगाया दक्षिणे तटे ॥८१॥ विज्ञानगणराजेति नाम चक्रे

महर्षिभिः । क्षेत्रं तदादेर्विख्यातं बभूव गणपस्य तत् ॥८२॥ विज्ञाननामकं पुण्यं शांतियोगफलप्रदम् । सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥८३॥ ज्येष्ठशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः। अतस्तत्र महोत्साहस्तद्दिने कुर्वते नराः॥८४॥ योगिभिर्देवगंधर्वैः सिद्धैर्नागैश्च मानुषैः । नानाजनैस्तथा दक्षसेवितं क्षेत्रमुत्तमम् ॥८५॥ एतद्दत्तस्य माहात्म्यं यः शृणोति नरोत्तमः । पठेद्वा भविता तस्य सर्वसिद्धिर्न संशयः ॥८६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते दत्तचरितं नामाऽष्टमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सूत उवाच । दुर्वासाः शंकरस्यांशस्तताप परमं तपः । नेति ब्रह्मणि संजातो ब्रह्मभूतो महामुनिः ॥ १ ॥ तमतिकोधसंयुक्तमशांतं शांतिलालसम् । संवीक्ष्य दत्तवज्ज्ञानं ददावत्रिमहामुनिः ॥ २ ॥ मयूरेशक्षेत्रके स गणेशध्यानमास्थितः । स्वभक्त्या गणराजेन शांतियोगयुतः कृतः ॥ ३ ॥ तदारभ्य महायोगी दुर्वासाः शांतिधारकः । क्रोधहीनस्वभावः स संजातो ब्रह्मवित्तमः ॥ ४ ॥ एतदत्रिसुतानां ते चरितं कथितं मया । यथा दक्षाय भो विप्र मुद्गलेन प्रकाशितम् ॥ ५ ॥ अधुना कथयिष्यामि स्वायंभुवजसंततेः । चरितं सर्वपापघ्नं कथितं मुद्गलेन यत् ॥ ६ ॥ शौनक उवाच । कथं मुद्गलविप्रेण कथितं तस्य धीमतः । चरित्रं वद सर्वं मे यथा दक्षेण संश्रुतम् ॥ ७ ॥ सूत उवाच । शापमोहितदक्षस्तु श्रुत्वात्रेयसमुद्भवम् । चरितं योगरूपं स मुद्गलं पुनरब्रवीत् ॥८॥ दक्ष उवाच । धन्योऽत्रियस्य पुत्रा वै गाणपत्या महौजसः । योगिनो योगदातारः श्रुतं तेषां चरित्रकम् ॥ ९ ॥ अधुना वद मे ब्रह्मन् सृष्टिमार्ग पुरातनम् । स्वायंभुवमनोः पुत्रौ चक्रतुः किं महौजसौ ॥१०॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा हर्षयुक्तेन चेतसा । जगाद तं महायोगी मुद्गलः परमार्थवित् ॥ ११॥ मुद्गल उवाच । स्वायंभुवमनोः पुत्रौ संजातौ पूर्णधार्मिकौ । प्रियव्रतोत्तानपादौ नाम्ना ख्यातौ प्रजापती ॥१२॥ जगाम साधनरतो वनं ज्येष्ठः प्रियव्रतः । देहादि नश्वरं मत्वाऽभूत्स खिन्नो मनुस्ततः ॥१३॥ जगाम नारदस्तत्र सहसा तं मनुर्जगौ । पुत्रं प्रियव्रतं विप्र बोधयस्व विधानतः ॥१४॥ तथेति नारदस्तत्र ययौ तस्य महाश्रमम् । तं दृष्ट्वोत्थाय राजर्षिः प्रणाम कृतांजलिः ॥१५॥ स्वकीयाज्ञावशं पुत्रं मानसे वीक्ष्य संस्थितम् । तं जगाद महातेजा नारदो राजसत्तमम् ॥१६॥

खं. २ अ. ९ पान २३ नारद उवाच । शृणु पुत्र महाभाग प्रियव्रत महामते । देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥१७॥ तथापि नरदेहो- ऽयमृणत्रयसमन्वितः । नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥१८॥ सर्वेषामन्नरूपोऽयं नरदेहो न संशयः । तस्य पोषणमत्यंतं कर्तव्यं देहधारिणा ॥१९॥ स्वधर्मपालनेनैव वर्णाश्रमविधानतः । देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥२०॥ यज्ञादिभिर्ऋणं दैवं श्राद्धाद्यैश्चैव पैतृकम् । पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥२१॥ अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः । कुरु राज्यं महाभाग स्वधर्मनिरतो मुदा ॥२२॥ पुत्रेषु राज्यमात्मीयं स्थापयित्वा च शाश्वतम् । पश्चात्त्वं वनमाविश्य योगाभ्यासरतो भव ॥२३॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा हर्षितो राजसत्तमः । उवाच तं मनोः पुत्रः प्रांजलिः श्रद्धयान्वितः ॥२४॥ प्रियव्रत उवाच । स्वामिन्विज्ञापतुमिच्छामि वद मे त्वं महामते । केनोपायेन योगींद्र ब्रह्मभूतो भवेन्नरः ॥२५॥ नारद उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूयपदप्रदम् । मार्गं संसाध्य शांतिं च लभते मानवः स्वयम् ॥२६॥ गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् । ब्रह्मभूतो भवेज्जंतुः साधनेन महामते ॥२७॥ गणशब्दः समूहस्य वाचकः परिकीर्तितः । समूहा योगरूपाश्च बाह्यांतरविभेदतः ॥ २८ ॥ अन्नानां सकलानां च समूहेन्नमयं सुत । कथितं ब्रह्म वेदेषु एवं नानागणाः स्मृताः ॥२९॥ तेषां पतिं गणेशानं तं ज्ञात्वा योगिनः पुरा । शांतिं प्राप्ता विशेषेण शांतियोगमयं परम् ॥३०॥ अस्माकं कुलदेवत्वं संप्राप्तोऽसौ गजाननः । तमाराधय यत्नेन ततः क्षेमं भविष्यति ॥३१॥ गुणेशो गणराजं संपूज्य वै भक्तिभावतः । बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः ॥३२॥ तस्य पुत्राः समाख्याता ब्रह्मविष्णुमहेश्वराः । सूर्यः शक्तिश्च पंचैते तं समाराध्य भोगिनः ॥३३॥ ततस्ते शांतिमत्यंतं प्राप्ता विश्वेश्वराः सुत । ब्रह्मणश्च वयं पुत्रा भजामस्तं गणाधिपम् ॥३४॥ ततो योगींद्रमुख्याश्च वयं जाताः प्रियव्रत । सर्वज्ञानसमायुक्ता बंधहीना विशेषतः ॥३५॥ तथा त्वमपि राजेंद्र गणेशं भज भावतः । तवातः सुलभं सर्वं भविष्यति सदानघ ॥३६॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । गणेशाराधनं सर्वं बोधयामास यत्नतः ॥३७॥ एतस्मिन्नंतरे तत्र ब्रह्मणा सह संगतः । स्वायंभुवो मनुः सुजस्तौ दृष्ट्वा प्रणतौ सुतौ ॥३८॥ ब्रह्मणा बोधितोऽत्यंतं पुनः पौत्रः प्रियव्रतः । मनुना सहराजर्षिर्ययौ स्वनगरे तदा ॥३९॥ पुत्रौ स्वायंभुवो राज्ये समास्थाप्य वनं ययौ । योगेनाराधयामास गणेशं भक्तिसंयुतः ॥४०॥ क्रमेण पंचभूमीनां चित्तस्य परतो गतः । त्यक्त्वा चित्तं महायोगी ब्रह्मभूतो बभूव ह ॥४१॥ शांतियोगं समाश्रित्य ब्रह्मलोकं जगाम ह । तत्रैव

खं. २ अ. १० पान २४ संस्थितोऽभूत्स गणेशभजने रतः ॥४२॥ प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् । धर्मेण नीतिदानेन त्यागेन यश आर्जयत् ॥४३॥ स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः । मुदिताः सत्यशीलाश्च स्थिते राज्ये प्रिय व्रते ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतस्य पुत्राश्च दशोत्पन्ना महौजसः । तेजस्विनो धर्मशीला विख्याता बलवत्तराः ॥१॥ आग्नीध्र इध्मजिह्वश्च यज्ञबाहुस्तथा महान् । वीरो हिरण्यरेताश्च सवनो घृतपृष्ठकः ॥२॥ मेधातिथिर्वीतिहोत्रः कविः पितृसमा बभुः । कविः सवनवीरौ च न राज्ये दधिरे मतिम् ॥३॥ सप्तद्वीपेश्वरास्तेन सप्त पुत्राः कृताः परे । जंबुद्वीपेश्वरं पुत्रं आग्नीध्रमकरोन्नृपः ॥४॥ प्लक्षद्वीपेश्वरस्तेनेध्मजिह्वश्च कृतः सुतः । शाल्मले वै यज्ञबाहुं राजा तमभिषिक्तवान् ॥५॥ हिरण्यरेतसं चक्रे कुशद्वीपेश्वरं सुतम् । क्रौंचद्वीपेश्वरं चैव घृतपृष्ठं चकार ह ॥ ६॥ मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतम् । पुष्करेशं स राजा तु वीतिहोत्रं चकार ह ॥ ७॥ ततः प्रियव्रतो राजा वनं प्राप्तः प्रतापवान् । नारदाद्योगमास्थाय गाणपत्यो बभूव ह ॥८॥ अंते गणेशरूपश्च संजातो योगसेवया । प्रियव्रतसमो राजा न भूतो न भविष्यति ॥ ९॥ पुष्करे वीतिहोत्रस्य द्वौ पुत्रौ संबभूवतुः । रमणो धातकिर्नाम महावीर्यौ सुधर्मिणौ ॥ १०॥ रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः । धातकेश्चापि खंडोऽयं बुधैर्धातकिरुच्यते ॥११॥ एकोद्रिर्मानसाख्यश्च तन्मध्ये वलयाकृतिः । योजनानां सहस्राणि दशोत्सेधः सन्नान्ततः ॥ १२॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । तत्र ब्रह्मा स्वयं साक्षाद् द्वीपे तिष्ठति पुष्करे ॥ १३॥ तं सुरा मानवाद्याश्च पूजयंति निरंतरम् । स्वादूदकेन वै दक्ष वृतो द्वीपः समंततः ॥ १४॥ योजनानां चतुःषष्टिलक्षं सिंधुश्च सोऽद्भुतः । तन्नांते पर्वतो रम्यो लोका- लोकाह्वयः स्मृतः ॥१५॥ एकत्र लोकसंवास एकतो लोकवर्जितः । लोकालोकाचलादत्र प्रकाशश्चंद्रसूर्ययोः ॥ १६ ॥ तस्मात्परश्च भो दक्ष अंधकारः समंततः । लोकालोकाचलस्तेन कथितो मुनिभिः पुरा ॥१७॥ पुष्करे बहवो नद्यो मानसा- चलसंभवाः । स्वादूदकाः पुण्यरूपा निर्मलाः सर्वभावतः ॥ १८ ॥ तासां जलस्य पानेन रोगा नश्यंति दुःखदाः ।

[खं. २ अ. १०] [पान २५]

क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥१९॥ शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् । पवमानस्ततः पूर्वो पुरोजवमनोजवौ ॥२०॥ धूम्रानीकश्चित्ररेफो बहुरूपो जगद्दरः । सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥२१॥ पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते । मनोजवस्य तन्नाम्ना खंडमन्यत्प्रकथ्यते ॥२२॥ पवमानस्य खंडं वै पावमानात्मकं तथा । धौम्रानीकं चतुर्थं वै पंचमं चैत्ररेफकम् ॥२३॥ बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् । पालयामासुरव्यग्राः स्वं स्वं खंडं प्रजापते ॥२४॥ दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् । नराणां दोषहीनानां सदा यौवनशालिनाम् ॥२५॥ दधिमंदोदकाख्येन संवृतो द्वीप उत्तमः । तावन्मानेन युक्तेन योजनानां प्रजापते ॥२६॥ विस्तारो योजनानां च द्वात्रिंशल्लक्षसंमितः । द्वीपस्य च नरास्तत्र यजंते वायुमीश्वरम् ॥२७॥ क्रौंचद्वीपस्य विस्तारो लक्षषोडशकं मुने । योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥२८॥ पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः । अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥२९॥ घृतपृष्ठसुतास्तत्र सप्त खंडेश्वराः स्मृताः । स्वस्वनाम्ना समाख्याताः खंडास्तेषां प्रजापते ॥३०॥ आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः । भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥३१॥ एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् । यजंत्यापोमयं तत्र सदा नारायणं जनाः ॥३२॥ क्षीरोदेन समंताच्च संवृतो द्वीप आदरात् । तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥३३॥ हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः । वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥३४॥ सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः । स्वस्वनाम्ना च तेषां वै खंडाः सप्त प्रजापते ॥३५॥ तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः । नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥३६॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । योजनानां कुशद्वीपश्वाष्टलक्षप्रमाणकः ॥३७॥ घृतोदेनावृतः सम्यक् तावदायाम- रूपिणा । सर्वतस्तत्र देवेशं हव्यवाहं यजंति ते ॥३८॥ शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः । सुरोचनः सौमनस्यो रमणो देववर्षकः ॥३९॥ आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः । तत्तन्नाम्ना च विख्याताः खंडास्तेषां प्रजापते ॥४०॥ नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै । योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥४१॥ सुरोदेनावृतः सोऽपि तावदायामरूपिणा । नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥४२॥ प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा । शिवो यवयसश्चैव शांतक्षेमसुभद्रकाः ॥४३॥ अमृतोऽभयसंज्ञश्च सप्तैते परिकीर्तिताः । स्वस्वनामांकिताः खंडास्तेषां तत्र