मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 150, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. १० पान २४ संस्थितोऽभूत्स गणेशभजने रतः ॥४२॥ प्रियव्रतः स्वयं राजा पालयामास मेदिनीम् । धर्मेण नीतिदानेन त्यागेन यश आर्जयत् ॥४३॥ स्वस्वधर्मरताः सर्वे जना वर्णाश्रमान्विताः । मुदिताः सत्यशीलाश्च स्थिते राज्ये प्रिय व्रते ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते प्रियव्रतराज्यप्राप्तिवर्णनं नाम नवमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतस्य पुत्राश्च दशोत्पन्ना महौजसः । तेजस्विनो धर्मशीला विख्याता बलवत्तराः ॥१॥ आग्नीध्र इध्मजिह्वश्च यज्ञबाहुस्तथा महान् । वीरो हिरण्यरेताश्च सवनो घृतपृष्ठकः ॥२॥ मेधातिथिर्वीतिहोत्रः कविः पितृसमा बभुः । कविः सवनवीरौ च न राज्ये दधिरे मतिम् ॥३॥ सप्तद्वीपेश्वरास्तेन सप्त पुत्राः कृताः परे । जंबुद्वीपेश्वरं पुत्रं आग्नीध्रमकरोन्नृपः ॥४॥ प्लक्षद्वीपेश्वरस्तेनेध्मजिह्वश्च कृतः सुतः । शाल्मले वै यज्ञबाहुं राजा तमभिषिक्तवान् ॥५॥ हिरण्यरेतसं चक्रे कुशद्वीपेश्वरं सुतम् । क्रौंचद्वीपेश्वरं चैव घृतपृष्ठं चकार ह ॥ ६॥ मेधातिथिं पतिं चक्रे शाकद्वीपस्य शाश्वतम् । पुष्करेशं स राजा तु वीतिहोत्रं चकार ह ॥ ७॥ ततः प्रियव्रतो राजा वनं प्राप्तः प्रतापवान् । नारदाद्योगमास्थाय गाणपत्यो बभूव ह ॥८॥ अंते गणेशरूपश्च संजातो योगसेवया । प्रियव्रतसमो राजा न भूतो न भविष्यति ॥ ९॥ पुष्करे वीतिहोत्रस्य द्वौ पुत्रौ संबभूवतुः । रमणो धातकिर्नाम महावीर्यौ सुधर्मिणौ ॥ १०॥ रमणस्य स्मृतं वर्षं तन्नाम्ना च महात्मनः । धातकेश्चापि खंडोऽयं बुधैर्धातकिरुच्यते ॥११॥ एकोद्रिर्मानसाख्यश्च तन्मध्ये वलयाकृतिः । योजनानां सहस्राणि दशोत्सेधः सन्नान्ततः ॥ १२॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । तत्र ब्रह्मा स्वयं साक्षाद् द्वीपे तिष्ठति पुष्करे ॥ १३॥ तं सुरा मानवाद्याश्च पूजयंति निरंतरम् । स्वादूदकेन वै दक्ष वृतो द्वीपः समंततः ॥ १४॥ योजनानां चतुःषष्टिलक्षं सिंधुश्च सोऽद्भुतः । तन्नांते पर्वतो रम्यो लोका- लोकाह्वयः स्मृतः ॥१५॥ एकत्र लोकसंवास एकतो लोकवर्जितः । लोकालोकाचलादत्र प्रकाशश्चंद्रसूर्ययोः ॥ १६ ॥ तस्मात्परश्च भो दक्ष अंधकारः समंततः । लोकालोकाचलस्तेन कथितो मुनिभिः पुरा ॥१७॥ पुष्करे बहवो नद्यो मानसा- चलसंभवाः । स्वादूदकाः पुण्यरूपा निर्मलाः सर्वभावतः ॥ १८ ॥ तासां जलस्य पानेन रोगा नश्यंति दुःखदाः ।