मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 149, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ९ पान २३ नारद उवाच । शृणु पुत्र महाभाग प्रियव्रत महामते । देहादि नश्वरं सर्वं त्वया ज्ञातं महाद्भुतम् ॥१७॥ तथापि नरदेहो- ऽयमृणत्रयसमन्वितः । नरदेहकृतं कर्म तन्मूलं सकलं जगत् ॥१८॥ सर्वेषामन्नरूपोऽयं नरदेहो न संशयः । तस्य पोषणमत्यंतं कर्तव्यं देहधारिणा ॥१९॥ स्वधर्मपालनेनैव वर्णाश्रमविधानतः । देहिना कृतपुण्येनान्नेन विश्वं प्रपोषितम् ॥२०॥ यज्ञादिभिर्ऋणं दैवं श्राद्धाद्यैश्चैव पैतृकम् । पुत्रोत्पादनमार्गेण मानुष्यं नाशमेष्यति ॥२१॥ अधुना ऋणयुक्तस्त्वं वनं कस्मात्समागतः । कुरु राज्यं महाभाग स्वधर्मनिरतो मुदा ॥२२॥ पुत्रेषु राज्यमात्मीयं स्थापयित्वा च शाश्वतम् । पश्चात्त्वं वनमाविश्य योगाभ्यासरतो भव ॥२३॥ मुद्गल उवाच । नारदस्य वचः श्रुत्वा हर्षितो राजसत्तमः । उवाच तं मनोः पुत्रः प्रांजलिः श्रद्धयान्वितः ॥२४॥ प्रियव्रत उवाच । स्वामिन्विज्ञापतुमिच्छामि वद मे त्वं महामते । केनोपायेन योगींद्र ब्रह्मभूतो भवेन्नरः ॥२५॥ नारद उवाच । शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूयपदप्रदम् । मार्गं संसाध्य शांतिं च लभते मानवः स्वयम् ॥२६॥ गणेशं योगरूपं तं ज्ञात्वैव ब्रह्मनायकम् । ब्रह्मभूतो भवेज्जंतुः साधनेन महामते ॥२७॥ गणशब्दः समूहस्य वाचकः परिकीर्तितः । समूहा योगरूपाश्च बाह्यांतरविभेदतः ॥ २८ ॥ अन्नानां सकलानां च समूहेन्नमयं सुत । कथितं ब्रह्म वेदेषु एवं नानागणाः स्मृताः ॥२९॥ तेषां पतिं गणेशानं तं ज्ञात्वा योगिनः पुरा । शांतिं प्राप्ता विशेषेण शांतियोगमयं परम् ॥३०॥ अस्माकं कुलदेवत्वं संप्राप्तोऽसौ गजाननः । तमाराधय यत्नेन ततः क्षेमं भविष्यति ॥३१॥ गुणेशो गणराजं संपूज्य वै भक्तिभावतः । बभूव ब्रह्मभूतश्च भक्त्यास्माकं पितामहः ॥३२॥ तस्य पुत्राः समाख्याता ब्रह्मविष्णुमहेश्वराः । सूर्यः शक्तिश्च पंचैते तं समाराध्य भोगिनः ॥३३॥ ततस्ते शांतिमत्यंतं प्राप्ता विश्वेश्वराः सुत । ब्रह्मणश्च वयं पुत्रा भजामस्तं गणाधिपम् ॥३४॥ ततो योगींद्रमुख्याश्च वयं जाताः प्रियव्रत । सर्वज्ञानसमायुक्ता बंधहीना विशेषतः ॥३५॥ तथा त्वमपि राजेंद्र गणेशं भज भावतः । तवातः सुलभं सर्वं भविष्यति सदानघ ॥३६॥ तत एकाक्षरं मंत्रं ददौ तस्मै महामुनिः । गणेशाराधनं सर्वं बोधयामास यत्नतः ॥३७॥ एतस्मिन्नंतरे तत्र ब्रह्मणा सह संगतः । स्वायंभुवो मनुः सुजस्तौ दृष्ट्वा प्रणतौ सुतौ ॥३८॥ ब्रह्मणा बोधितोऽत्यंतं पुनः पौत्रः प्रियव्रतः । मनुना सहराजर्षिर्ययौ स्वनगरे तदा ॥३९॥ पुत्रौ स्वायंभुवो राज्ये समास्थाप्य वनं ययौ । योगेनाराधयामास गणेशं भक्तिसंयुतः ॥४०॥ क्रमेण पंचभूमीनां चित्तस्य परतो गतः । त्यक्त्वा चित्तं महायोगी ब्रह्मभूतो बभूव ह ॥४१॥ शांतियोगं समाश्रित्य ब्रह्मलोकं जगाम ह । तत्रैव