भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 151, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 151

[खं. २ अ. १०] [पान २५]

क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥१९॥ शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् । पवमानस्ततः पूर्वो पुरोजवमनोजवौ ॥२०॥ धूम्रानीकश्चित्ररेफो बहुरूपो जगद्दरः । सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥२१॥ पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते । मनोजवस्य तन्नाम्ना खंडमन्यत्प्रकथ्यते ॥२२॥ पवमानस्य खंडं वै पावमानात्मकं तथा । धौम्रानीकं चतुर्थं वै पंचमं चैत्ररेफकम् ॥२३॥ बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् । पालयामासुरव्यग्राः स्वं स्वं खंडं प्रजापते ॥२४॥ दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् । नराणां दोषहीनानां सदा यौवनशालिनाम् ॥२५॥ दधिमंदोदकाख्येन संवृतो द्वीप उत्तमः । तावन्मानेन युक्तेन योजनानां प्रजापते ॥२६॥ विस्तारो योजनानां च द्वात्रिंशल्लक्षसंमितः । द्वीपस्य च नरास्तत्र यजंते वायुमीश्वरम् ॥२७॥ क्रौंचद्वीपस्य विस्तारो लक्षषोडशकं मुने । योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥२८॥ पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः । अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥२९॥ घृतपृष्ठसुतास्तत्र सप्त खंडेश्वराः स्मृताः । स्वस्वनाम्ना समाख्याताः खंडास्तेषां प्रजापते ॥३०॥ आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः । भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥३१॥ एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् । यजंत्यापोमयं तत्र सदा नारायणं जनाः ॥३२॥ क्षीरोदेन समंताच्च संवृतो द्वीप आदरात् । तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥३३॥ हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः । वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥३४॥ सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः । स्वस्वनाम्ना च तेषां वै खंडाः सप्त प्रजापते ॥३५॥ तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः । नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥३६॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । योजनानां कुशद्वीपश्वाष्टलक्षप्रमाणकः ॥३७॥ घृतोदेनावृतः सम्यक् तावदायाम- रूपिणा । सर्वतस्तत्र देवेशं हव्यवाहं यजंति ते ॥३८॥ शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः । सुरोचनः सौमनस्यो रमणो देववर्षकः ॥३९॥ आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः । तत्तन्नाम्ना च विख्याताः खंडास्तेषां प्रजापते ॥४०॥ नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै । योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥४१॥ सुरोदेनावृतः सोऽपि तावदायामरूपिणा । नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥४२॥ प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा । शिवो यवयसश्चैव शांतक्षेमसुभद्रकाः ॥४३॥ अमृतोऽभयसंज्ञश्च सप्तैते परिकीर्तिताः । स्वस्वनामांकिताः खंडास्तेषां तत्र