भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 152, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 152

ख. २ अ. ११ पान २६ प्रकीर्तिताः ॥४४॥ गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः । नराणां जीवनं तत्र पंचवर्षसहस्रकम् ॥४५॥ द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः । इक्षूणां च रसोदेन तावता परिसंवृतः ॥४६॥ लक्षद्वीपे यजंते वै सूर्यं धर्मपरायणाः । वृष्टिसंस्राविणं देवं तेजोरूपेण संस्थितम् ॥४७॥ प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपांतिमेषु वै । वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥४८॥ पुष्करे सर्वधर्मज्ञा एकमार्गं समाश्रिताः । एकवर्णाश्रमास्तत्र समशीलाः प्रजापते ॥ ४९ ॥ न तेषु युगमानं च युगधर्मः स्वभावतः । सदा समानः कालश्च स्वधर्मस्तादृशः स्मृतः ॥५०॥ न लोभो न च मात्सर्यं परस्परहिते रताः । नरास्ते पुण्यशीला वै स्वदाररततोषिनः ॥५१॥ कर्मणां फलभोक्तारो तेषु द्वीपेषु शौनक । बभूवुर्भाविकाः सर्वे देववत् क्रीडने रताः ॥५२॥ स्वस्वद्वीपस्थितं देवमभजंस्ते ततः सुखम् । संप्रापुस्ते जनाः सर्वे सालोक्यादिचतुष्टयम् ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जंबुद्वीपेऽश्वरस्याथ नवपुत्रा बभूविरे । नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः ॥ १ ॥ हिरण्मयः कुरु रम्यो भद्राश्वः केतुमालकः । स्वस्वनामांकितान् खंडान् पिता तेभ्यो ददौ स्वयम् ॥२॥ एवं दत्त्वा च सप्तैते प्रियव्रतसुतास्ततः । ययुर्वनं तपस्तप्त्वा गाणपत्या बभूविरे ॥ ३ ॥ ययुर्गाणेश्वरं धाम ते त्वंते ब्रह्मवादिनः । पुनरावृत्तिशून्यं यद्योगाभेदं प्रभावतः ॥ ४ ॥ जंबुद्वीपस्य विस्तार एकलक्षं समंततः । योजनानां तथा दक्ष लवणोदेन संवृतः ॥ ५ ॥ तत्र मध्ये महाशैलो मेरुर्हेममयः शुभः । नानाधातुविचित्रांगो नानौषधिसमन्वितः ॥ ६ ॥ नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः । गुहाभिश्च तथा दक्ष नानाजंतुसमन्वितः ॥ ७ ॥ लक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः । षष्टिसहस्रमेतस्य योजनानां प्रमाणकम् ॥ ८ ॥ बहिस्थितैस्तथा द्वात्रिंशत्सहस्रमधःस्थितेः । अष्टसाहस्रकं चैव योजनानां समंततः ॥ ९ ॥ अध ऊर्ध्वविभेदेन स्थितोऽसौ कनकाचलः । पद्माकारस्वरूपेण भूमिमध्ये स्थितो बभौ ॥ १० ॥ पद्मपत्रसमानेन ह्याकारेण व्यवस्थिताः । पर्वताः परितस्तस्य नानाधातुमया बभुः ॥ ११ ॥ तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणाम् । योगिनां रक्षसां चैव सिद्धानां च महात्मनाम् ॥ १२ ॥ नागेंद्राणां मुनींद्राणां गंधर्वाणां प्रजापते । पिशाचानां च भूतानां