भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 153, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 153

[शीर्षक] खं. २ अ. ११ पान २७

निवासा अद्भुता बभुः ॥ १३ ॥ उद्यानानि विचित्राणि देवक्रीडनकानि च । जराशोकहराण्येव जलानि खलु सर्वतः ॥ १४ ॥ कैलासाद्यष्ट शैलेंद्रा दिक्षु तस्य व्यवस्थिताः । तेषु रुद्रादिदेवेंद्रा वसन्ति दिगधीश्वराः ॥ १५ ॥ मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्ठिनः । इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ १६ ॥ तस्य दक्षिणभागे च द्वीपखंडास्त्रयोऽभवन् । उत्तरे च तथा खंडास्त्रयस्तस्य प्रकीर्तिताः ॥ १७ ॥ पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि संमतौ । मध्ये समंततो वर्ष एकस्तस्य प्रजापते ॥ १८ ॥ एवं खंडाः समाख्याता नव द्वीपे च मध्यमे । हिमाचलादयस्तेषु मर्यादागिरयः स्मृताः ॥ १९ ॥ द्विसहस्रं समुत्सेधो योजनानां प्रजापते । अष्टौ चैव प्रविस्तारा महाशैला समंततः ॥ २० ॥ सहस्रं योजनानां च खंडे खंडे च विस्तरः । प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च ॥ २१ ॥ वर्षेषु पर्वताश्चैव नद्यो नानाविधाः स्मृताः । तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः ॥ २२ ॥ अजनाभविहीनाश्च खंडा अष्टौ प्रकीर्तिताः । तेषु स्वाभाविकी सिद्धिः स्थिरभावेन संस्थिता ॥ २३ ॥ सदा यौवनयुक्ताश्च नरा नार्यः सुरूपिणः । देववत्सुखभोक्तारो बभुः साधुगुणान्विताः ॥ २४ ॥ परस्परेषु संसक्ताः समकालप्रभोगिनः । वर्णाश्रमरताः सर्वे धर्मयुक्ता दयान्विताः ॥ २५ ॥ न तत्र युगधर्मश्च सदा सामान्य- धर्मिणाम् । शीतोष्णादिभवं दुःखं नास्ति खंडेसु मानद ॥ २६ ॥ एकादशशतान्येव सहस्रं तेषु कुत्रचित् । शतानि द्वादशाप्येव त्रयोदशशतानि च ॥ २७ ॥ शतानि कुत्रचित्पंच दशाप्येव प्रजापते । शतानि पंचवर्षाणि जीवंति किल मानवाः ॥ २८ ॥ नाभेः खंडोऽजनाभश्च हिमाचलसमीपगः । कर्मात्मकः समाख्यातः सर्वमान्यो बभूव ह ॥ २९ ॥ तत्र कर्माणि कृत्वा तु नरा यांति समंततः । द्वीपेषु खंडेपु तथा तथा पातालभूमिषु ॥ ३० ॥ स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च । तेषु भुक्त्वा पुनह्र्द्यैत्र यांति कर्मार्थमंजसा ॥ ३१ ॥ अथवा पापकर्माणि कृत्वाचैव व्रजंति ते । नरकेषु नरा नार्यः पुनरत्र प्रयांति च ॥ ३२ ॥ अत्र योगेन योगींद्रो भवेद्वै नात्र संशयः । गाणपत्यस्वरूपं च तद्भक्त्या लभंते नरः ॥ ३३ ॥ अतः श्रेष्ठतमः प्रोक्तो वर्षोऽयं च हिमालयः । सर्वदातृत्वमापन्नो मान्यस्तेषां प्रजापते ॥ ३४ ॥ भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः । शीतोष्णादिसमायुक्तो नानारोगसमन्वितः ॥ ३५ ॥ तत्र वर्णाश्च चत्वारस्तेषां वै व्यभिचारतः । वर्णा नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो ॥ ३६ ॥ अस्मिन् युगभवं मानं युगधर्माः समंततः । नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः ॥ ३७ ॥ बहवोऽग्रे बभुः शैला विंध्यसह्याद्रिकादयः । तेभ्यः प्रस्रुता नद्यश्च बह्व्यः