मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
[खं. २ अ. १०] [पान २५]
क्लमस्वेदादिकं सर्वं विद्यते न कदाचन ॥१९॥ शाकद्वीपेश्वरस्याथ सप्तपुत्रास्तथाऽभवन् । पवमानस्ततः पूर्वो पुरोजवमनोजवौ ॥२०॥ धूम्रानीकश्चित्ररेफो बहुरूपो जगद्दरः । सप्तखण्डाश्च तद्द्वीपे पर्वताः सप्त मुख्यकाः ॥२१॥ पुरोजवस्य तन्नाम्ना वर्षं प्रथममुच्यते । मनोजवस्य तन्नाम्ना खंडमन्यत्प्रकथ्यते ॥२२॥ पवमानस्य खंडं वै पावमानात्मकं तथा । धौम्रानीकं चतुर्थं वै पंचमं चैत्ररेफकम् ॥२३॥ बहुरूपस्य तन्नाम्ना वैश्वधारं च सप्तमम् । पालयामासुरव्यग्राः स्वं स्वं खंडं प्रजापते ॥२४॥ दशसाहस्रवर्षाणि तत्र वै जीवनं स्मृतम् । नराणां दोषहीनानां सदा यौवनशालिनाम् ॥२५॥ दधिमंदोदकाख्येन संवृतो द्वीप उत्तमः । तावन्मानेन युक्तेन योजनानां प्रजापते ॥२६॥ विस्तारो योजनानां च द्वात्रिंशल्लक्षसंमितः । द्वीपस्य च नरास्तत्र यजंते वायुमीश्वरम् ॥२७॥ क्रौंचद्वीपस्य विस्तारो लक्षषोडशकं मुने । योजनानां समाख्यातः खण्डास्तत्र च सप्त वै ॥२८॥ पर्वताः सप्त तत्रैव नद्यः सप्त प्रकीर्तिताः । अन्याः क्षुद्रस्वरूपाश्च नद्यः सर्वत्र संस्थिताः ॥२९॥ घृतपृष्ठसुतास्तत्र सप्त खंडेश्वराः स्मृताः । स्वस्वनाम्ना समाख्याताः खंडास्तेषां प्रजापते ॥३०॥ आमोमधुरुहः सप्त घृतपृष्ठः सुधात्मकः । भ्राजिष्ठो लोहितो वर्णवनस्पतिरिति स्मृताः ॥३१॥ एकादशसहस्रं तु वर्षाणां जीवनं नृणाम् । यजंत्यापोमयं तत्र सदा नारायणं जनाः ॥३२॥ क्षीरोदेन समंताच्च संवृतो द्वीप आदरात् । तावद्विस्तारभूतश्च श्वेतद्वीपोऽपि स स्मृतः ॥३३॥ हिरण्यरेतसः सप्त कुशद्वीपपतेः सुताः । वसुश्च वसुदानश्च दृढरुचिस्तृतीयकः ॥३४॥ सत्यव्रतो नाभिगुप्तो विविक्तो नाम देवकः । स्वस्वनाम्ना च तेषां वै खंडाः सप्त प्रजापते ॥३५॥ तत्रैव पर्वताः सप्त मर्यादागिरयः स्मृताः । नद्यः सप्त महावेगाः सुजला दुःखहारकाः ॥३६॥ दशसाहस्रवर्षाणि जीवनं तत्र विद्यते । योजनानां कुशद्वीपश्वाष्टलक्षप्रमाणकः ॥३७॥ घृतोदेनावृतः सम्यक् तावदायाम- रूपिणा । सर्वतस्तत्र देवेशं हव्यवाहं यजंति ते ॥३८॥ शाल्मलद्वीपनाथस्य यज्ञबाहोः सुताः स्मृताः । सुरोचनः सौमनस्यो रमणो देववर्षकः ॥३९॥ आप्यायनः पारिभद्रो विज्ञातः सप्तमः स्मृतः । तत्तन्नाम्ना च विख्याताः खंडास्तेषां प्रजापते ॥४०॥ नद्यः सप्त महावेगाः पर्वताः सप्त तत्र वै । योजनानां चतुर्लक्षं विस्तारस्तस्य सर्वतः ॥४१॥ सुरोदेनावृतः सोऽपि तावदायामरूपिणा । नराणां जीवनं तत्राष्टसहस्रसमाः किल ॥४२॥ प्लक्षद्वीपेश्वरस्याथेध्मजिह्वस्य सुतास्तथा । शिवो यवयसश्चैव शांतक्षेमसुभद्रकाः ॥४३॥ अमृतोऽभयसंज्ञश्च सप्तैते परिकीर्तिताः । स्वस्वनामांकिताः खंडास्तेषां तत्र
ख. २ अ. ११ पान २६ प्रकीर्तिताः ॥४४॥ गिरयः सप्त तत्रैव नद्यः सप्त महाजलाः । नराणां जीवनं तत्र पंचवर्षसहस्रकम् ॥४५॥ द्विलक्षयोजनान्येव विस्तारस्तस्य सर्वतः । इक्षूणां च रसोदेन तावता परिसंवृतः ॥४६॥ लक्षद्वीपे यजंते वै सूर्यं धर्मपरायणाः । वृष्टिसंस्राविणं देवं तेजोरूपेण संस्थितम् ॥४७॥ प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपांतिमेषु वै । वर्णाश्रमविभागेन स्वधर्मे संस्थिता जनाः ॥४८॥ पुष्करे सर्वधर्मज्ञा एकमार्गं समाश्रिताः । एकवर्णाश्रमास्तत्र समशीलाः प्रजापते ॥ ४९ ॥ न तेषु युगमानं च युगधर्मः स्वभावतः । सदा समानः कालश्च स्वधर्मस्तादृशः स्मृतः ॥५०॥ न लोभो न च मात्सर्यं परस्परहिते रताः । नरास्ते पुण्यशीला वै स्वदाररततोषिनः ॥५१॥ कर्मणां फलभोक्तारो तेषु द्वीपेषु शौनक । बभूवुर्भाविकाः सर्वे देववत् क्रीडने रताः ॥५२॥ स्वस्वद्वीपस्थितं देवमभजंस्ते ततः सुखम् । संप्रापुस्ते जनाः सर्वे सालोक्यादिचतुष्टयम् ॥५३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरित्रे द्वीपवर्णनं नाम दशमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । जंबुद्वीपेऽश्वरस्याथ नवपुत्रा बभूविरे । नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः ॥ १ ॥ हिरण्मयः कुरु रम्यो भद्राश्वः केतुमालकः । स्वस्वनामांकितान् खंडान् पिता तेभ्यो ददौ स्वयम् ॥२॥ एवं दत्त्वा च सप्तैते प्रियव्रतसुतास्ततः । ययुर्वनं तपस्तप्त्वा गाणपत्या बभूविरे ॥ ३ ॥ ययुर्गाणेश्वरं धाम ते त्वंते ब्रह्मवादिनः । पुनरावृत्तिशून्यं यद्योगाभेदं प्रभावतः ॥ ४ ॥ जंबुद्वीपस्य विस्तार एकलक्षं समंततः । योजनानां तथा दक्ष लवणोदेन संवृतः ॥ ५ ॥ तत्र मध्ये महाशैलो मेरुर्हेममयः शुभः । नानाधातुविचित्रांगो नानौषधिसमन्वितः ॥ ६ ॥ नदीभिः सुजलाभिश्च युतोऽसौ कनकाचलः । गुहाभिश्च तथा दक्ष नानाजंतुसमन्वितः ॥ ७ ॥ लक्षयोजन उत्सेधस्तस्य प्रोक्तो महात्मनः । षष्टिसहस्रमेतस्य योजनानां प्रमाणकम् ॥ ८ ॥ बहिस्थितैस्तथा द्वात्रिंशत्सहस्रमधःस्थितेः । अष्टसाहस्रकं चैव योजनानां समंततः ॥ ९ ॥ अध ऊर्ध्वविभेदेन स्थितोऽसौ कनकाचलः । पद्माकारस्वरूपेण भूमिमध्ये स्थितो बभौ ॥ १० ॥ पद्मपत्रसमानेन ह्याकारेण व्यवस्थिताः । पर्वताः परितस्तस्य नानाधातुमया बभुः ॥ ११ ॥ तेषु सर्वत्र देवानां गुह्यकानां च पक्षिणाम् । योगिनां रक्षसां चैव सिद्धानां च महात्मनाम् ॥ १२ ॥ नागेंद्राणां मुनींद्राणां गंधर्वाणां प्रजापते । पिशाचानां च भूतानां
[शीर्षक] खं. २ अ. ११ पान २७
निवासा अद्भुता बभुः ॥ १३ ॥ उद्यानानि विचित्राणि देवक्रीडनकानि च । जराशोकहराण्येव जलानि खलु सर्वतः ॥ १४ ॥ कैलासाद्यष्ट शैलेंद्रा दिक्षु तस्य व्यवस्थिताः । तेषु रुद्रादिदेवेंद्रा वसन्ति दिगधीश्वराः ॥ १५ ॥ मध्ये स्थानं महारण्यं ब्रह्मणः परमेष्ठिनः । इत्येवं सर्वदेवानां सुखदः स गिरिर्बभौ ॥ १६ ॥ तस्य दक्षिणभागे च द्वीपखंडास्त्रयोऽभवन् । उत्तरे च तथा खंडास्त्रयस्तस्य प्रकीर्तिताः ॥ १७ ॥ पूर्वपश्चिमभागे द्वौ वर्षौ तस्य हि संमतौ । मध्ये समंततो वर्ष एकस्तस्य प्रजापते ॥ १८ ॥ एवं खंडाः समाख्याता नव द्वीपे च मध्यमे । हिमाचलादयस्तेषु मर्यादागिरयः स्मृताः ॥ १९ ॥ द्विसहस्रं समुत्सेधो योजनानां प्रजापते । अष्टौ चैव प्रविस्तारा महाशैला समंततः ॥ २० ॥ सहस्रं योजनानां च खंडे खंडे च विस्तरः । प्रत्येकं भिन्नभावेन तेषु लोका वसन्ति च ॥ २१ ॥ वर्षेषु पर्वताश्चैव नद्यो नानाविधाः स्मृताः । तत्र सर्वे जना दक्ष वसन्ति सुखभोगिनः ॥ २२ ॥ अजनाभविहीनाश्च खंडा अष्टौ प्रकीर्तिताः । तेषु स्वाभाविकी सिद्धिः स्थिरभावेन संस्थिता ॥ २३ ॥ सदा यौवनयुक्ताश्च नरा नार्यः सुरूपिणः । देववत्सुखभोक्तारो बभुः साधुगुणान्विताः ॥ २४ ॥ परस्परेषु संसक्ताः समकालप्रभोगिनः । वर्णाश्रमरताः सर्वे धर्मयुक्ता दयान्विताः ॥ २५ ॥ न तत्र युगधर्मश्च सदा सामान्य- धर्मिणाम् । शीतोष्णादिभवं दुःखं नास्ति खंडेसु मानद ॥ २६ ॥ एकादशशतान्येव सहस्रं तेषु कुत्रचित् । शतानि द्वादशाप्येव त्रयोदशशतानि च ॥ २७ ॥ शतानि कुत्रचित्पंच दशाप्येव प्रजापते । शतानि पंचवर्षाणि जीवंति किल मानवाः ॥ २८ ॥ नाभेः खंडोऽजनाभश्च हिमाचलसमीपगः । कर्मात्मकः समाख्यातः सर्वमान्यो बभूव ह ॥ २९ ॥ तत्र कर्माणि कृत्वा तु नरा यांति समंततः । द्वीपेषु खंडेपु तथा तथा पातालभूमिषु ॥ ३० ॥ स्वर्गेषु भोगप्राप्त्यर्थं कर्मणां फलमेव च । तेषु भुक्त्वा पुनह्र्द्यैत्र यांति कर्मार्थमंजसा ॥ ३१ ॥ अथवा पापकर्माणि कृत्वाचैव व्रजंति ते । नरकेषु नरा नार्यः पुनरत्र प्रयांति च ॥ ३२ ॥ अत्र योगेन योगींद्रो भवेद्वै नात्र संशयः । गाणपत्यस्वरूपं च तद्भक्त्या लभंते नरः ॥ ३३ ॥ अतः श्रेष्ठतमः प्रोक्तो वर्षोऽयं च हिमालयः । सर्वदातृत्वमापन्नो मान्यस्तेषां प्रजापते ॥ ३४ ॥ भोगेषु स्वल्परूपोऽयं सर्वेभ्यः कथितो बुधैः । शीतोष्णादिसमायुक्तो नानारोगसमन्वितः ॥ ३५ ॥ तत्र वर्णाश्च चत्वारस्तेषां वै व्यभिचारतः । वर्णा नानाविधाः प्रोक्ता भिन्नधर्मात्मकाः प्रभो ॥ ३६ ॥ अस्मिन् युगभवं मानं युगधर्माः समंततः । नराः प्रकृतिभिन्नाश्च स्वार्थादिकसमन्विताः ॥ ३७ ॥ बहवोऽग्रे बभुः शैला विंध्यसह्याद्रिकादयः । तेभ्यः प्रस्रुता नद्यश्च बह्व्यः
सर्वत्र संस्थिताः ॥ ३८ ॥ पुण्यदाः स्नानमात्रेण मिष्टतोया महामते । नराः कर्मकरास्तत्र त्रिविधाचारसंयुताः ॥ ३९ ॥ तीर्थानि सर्वदेवानां स्थानानि त्वग्रजन्मनाम् । तत्सेवकानामधिककर्मोत्थफलदानि वै ॥ ४० ॥ एवमाद्यगुणैर्युक्तो जना भो वर्ष एव च । कर्मणां भरणात्सुज्ञैर्भारतोऽयं प्रकीर्तितः ॥ ४१ ॥ एतद्भूhead/एतद्द्भूमंडलं कृत्स्नं कथितं ते समासतः । श्रवणात्पठना- च्चापि पापापहरणं भवेत् ॥ ४२ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरित्रे भूगोलवर्णनं नामैकादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। प्रसङ्गात्सर्वलोकानां वच्मि वै संस्थितिं पराम् । स्वर्गाणामपि संक्षेपान्मुख्यानां कथयामि ते ॥१॥ भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च महो जनः । तपोलोकस्तथासत्यो लोकास्त्वंडोद्भवाः स्मृताः
खं. २ अ. १२ पान २९ चंद्रस्य षोडशो भागो मंडलं भार्गवस्य च । भार्गवात्पादहीनं यत् द्विज तच्च बृहस्पतेः ॥ १७॥ बृहस्पतेः पादहीनं मंडलं भौमसौरयोः । विस्ताराच्च तयोः पादहीनं सौम्यस्य मंडलम् ॥१८॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पंचचत्वारि त्रीणि द्वे योजनानि वै ॥ १९॥ सर्वेभ्योऽपि निकृष्टानि ताराणां मंडलानि तु । योजनाध्यर्धमात्राणि तेभ्यो न्यूनं न विद्यते ॥२०॥ उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोंङ्गिराश्च भौमश्च विज्ञेया मंदगामिनः ॥२१॥ तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥२२॥ अयने द्वे समास्थाय भानुश्चरति सर्वदा । प्रभुः सर्वग्रहाणां स सर्वाधस्तात्प्रसर्पति ॥२३॥ विस्तीर्णं मंडलं कृत्वा चरत्यूर्ध्वं ततः शशी । नक्षत्रमंडलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥२४॥ नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधः स्मृतः । भौमः सोमसुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः ॥२५॥ शनैश्चरस्ततो ह्यूर्ध्वं तस्मात् सप्तर्षिमंडलम् । ऋषीणां चैव सप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः ॥२६॥ नवयोजनसाहस्रो भास्करस्य रथः स्मृतः । ईषादंडस्तथैवास्य द्विगुणो वै प्रजापते ॥ २७ ॥ लक्षप्रमाणमक्षश्च ध्रुवाधारेण संस्थितः । द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले ॥२८॥ चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितम् । गायत्रीमुख्यकास्तस्य सप्त छंदोमया हयाः ॥२९॥ दक्षिणायनमासाद्य क्षिप्रं क्षिप्रं प्रसर्पति । यदोत्तरगतो भानुरक्षिप्रं चैव सर्पति ॥३०॥ मानसोपरि माहेंद्री प्राच्यां दिशि महापुरी । दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे ॥३१॥ उत्तरे तु कुबेरस्य तन्नामानि निबोध मे । अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३२ ॥ ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः । उदये च महेन्द्रस्य नगर्यां स प्रकाशते ॥३३॥ यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्य तु । निशामध्ये च कौबेर्यामेवं चरति भास्करः ॥ ३४ ॥ उदयास्तमयेनायं सर्वकालसमानगः । अशेषासु दिशास्वेव सर्वासु विदिशासु च ॥ ३५ ॥ कुलालचक्रवल्लोके भ्रमत्येवं दिनेश्वरः । स्वस्वबोधसमानं च भिन्नं कालं प्रकाशयन् ॥३६॥ करोत्यहस्तथा रात्रिं किरणैः स्थापयन् प्रजाः । दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ॥ ३७ ॥ जलं स्थलं नभः प्रोक्तं लोकानां स्थानमुत्तमम् । आदित्यमूलमेतच्च त्रिविधं नात्र संशयः ॥ ३८ ॥ भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् । मध्यभागे तदाधारमंते तत्र प्रतिष्ठितम् ॥ ३९ ॥ ब्रह्मविष्णुमहेशेंद्रचंद्रताराग्निनागजम् । वीरुद्विप्रोत्थदकानां यत्तेजस्तद्रविसंभवम् ॥ ४० ॥ द्युतिर्द्युतिमतां
पान ३०
कृत्स्ना यत्तेजः सार्वलौकिकम् । विभज्य स्वयमेवेशः क्रीडति स्म दिवाकरः ॥४१॥ सर्वात्मा सर्वलोकेशो गणेशांशः प्रभाकरः । मूलं त्रिभुवनस्यापि कर्मरूपी च दैवतम् ॥४२॥ ॥ ओमिति श्रीमदान्ते पुराणेपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते सूर्यमंडलवर्णनं नाम द्वादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । रवेः कलांशसंभूता द्वादशान्ये च भानवः । द्वादशस्वेव मासेषु ते तपंति रथस्थिताः ॥१॥ सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिः तथा । गंधवैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥२॥ धातार्यमाऽथ मित्रश्च वरुणः शक्रसंज्ञितः । विवस्वानाथ पूषा च पर्जन्यश्चांशुरेव च ॥३॥ भगस्त्वष्टाऽथ विष्णुश्च द्वादशैते च भानवः । तपंति रथसंस्था वै वसंतादिक्रमेण च ॥४॥ पुलस्त्यः पुलहोऽथात्रिर्वसिष्ठश्चांगिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥५॥ जमदग्निः कोशिकोऽथ मुनयो ब्रह्मवादिनः । स्तुवंति पुरतो देवं छंदोभिर्विविधैस्तस्था ॥६॥ रथकृच्च रथौजा वै रथचित्रः स्वबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥७॥ तार्क्ष्यश्चारिष्टनेमिर्वै रथजित्सत्यजित्तथा । ग्रामण्यो देवदेवस्य कुर्वतेऽभीषुसंग्रहम् ॥८॥ अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथा व्याधो वातो विद्युद्दिवाकरः ॥९॥ ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथापरः । राक्षसप्रवरा एते प्रयांति पुरतः क्रमात् ॥१०॥ वासुकिः कंकनीरश्च तक्षको नागमुख्यकः । एलापत्रः शंखपालस्तथैरावतसंज्ञितः ॥११॥ धनंजयो महापद्मस्तथा कर्कोटकोऽपरः । कंबलाश्वतरौ चैव वहंत्येते प्रभाकरम् ॥१२॥ नागा द्वादशमासेषु प्रजाधीश यथाक्रमम् । तुंबरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ॥१३॥ उग्रसेनो वसुरुचिरवीवसुरुथापरः । चित्रसेनस्तथोर्णायुर्घृत- राष्ट्रः प्रजापते ॥१४॥ सूर्यवर्चा द्वादशैते गंधर्वा गायनाः पुरः । घनस्तनी च रंभा वै तथान्या पुंजिकस्थली ॥१५॥ मेनका सहजन्या च प्रम्लोचाऽथ प्रजापते । अनुम्लोचा घृताची च विश्वाची चोर्वशी परा ॥१६॥ अन्या च पूर्वचित्तिर्या भास्करं च तिलोत्तमा । तांडवैस्तोषयंत्येनं वसंतादिषु वै क्रमात् ॥१७॥ एवं देवा वसंत्यर्के द्वौ द्वौ मासौ क्रमेण तु । सूर्यमाप्याययंत्येते तेजसा तेजसां निधिम् ॥१८॥ ग्रथितैः स्ववचोभिस्तं स्तुवंति मुनयो रविम् ।
खं. २ अ. १३ पान ३१ गंधर्वाप्सरसश्चैनं गेयैर्नृत्यैरुपासते ॥१९॥ ग्रामणीर्यक्षभूतानि कुर्वतेऽभीषुसंग्रहम् । सर्पा वहंति देवेशं यातुधानाः प्रयांति तम् ॥२०॥ वालखिल्या नयंत्यस्तं परिवार्योदयाद्रविम् । एते तपंति वर्षति भांति वांति सृजंति च ॥२१॥ भूतानामशुभं कर्म व्यपोहंत्यनुकीर्तिताः । एते सहैव सूर्येण भ्रमंति दिवि सर्वदा ॥ २२ ॥ विमानेऽधिष्ठिता नित्यं कामगे वातरंहसि । वर्षतश्च तपंतश्च ह्लादयंतः सदा प्रजाः ॥ २३ ॥ गोपायंतीह भूतानि सर्वाण्येते युगक्षये । एतेषां रूपमास्थाय सूर्यस्तपति नित्यशः ॥ २४॥ अहोरात्रव्यवस्थानां कारणं स प्रजापतिः । पितृदेवमनुष्यादि- नित्यमाप्याययेद्रविः ॥२५॥ एवमेष गणेशांशो देवदेवो दिवाकरः । करोति नियतं कालं कालात्मा भगवान् स्वयम् ॥ २६ ॥ अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमंति ते । दिवाकरकरैः पुष्टा तं रविं वातरश्मिभिः ॥ २७॥ रथस्त्रिचक्रः सोमस्य कुंदाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश ते वै क्षपाकराः ॥ २८ ॥ वीथ्याश्रयेण नक्षत्रं चरत्येव रविर्यथा । ह्रासवृद्धिसमायुक्तो ध्रुवाधारेण सर्वदा ॥२९॥ स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते कलामात्रैः सततं वर्धते ततः ॥३०॥ कृष्णे पीतं सुरैः सोममाप्याययति नित्यदा । एकेन रश्मिना दक्ष सुषुम्नाख्येन भास्करः ॥ ३१ ॥ एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । दृश्यते पौर्णमासीस्था संपूर्णा दिवसैः क्रमात् ॥३२॥ संपूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबंति देवताः सर्वाः क्रमेणामृतभोजिनः ॥३३॥ ततः पंचदशे भागे किंचिच्छेषे कलात्मके । पितरश्चापराह्ने तं जघन्यं पर्युपासते ॥३४॥ पिबंति द्विलवं कालं शिष्टा तस्य कला तु या । स्वधामृतमयी पुण्या सा चंद्रस्यामृतात्मिका ॥३५॥ निःसृतं तदमायां तु गभस्तिभ्यः स्वधामृतम् । मासतृप्तिकरं तेषां पितरः संति निर्वृताः ॥३६॥ न सोमस्य विनाशः स्यात्सुधादेवस्य पानतः । एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा ॥३७॥ सोमपुत्रस्य सिंहैश्च चतुर्भिर्वायुवेगिभिः । स्यंदनस्तैः समायुक्त- स्तेनासौ याति सर्वतः ॥३८॥ भार्गवस्य तथाष्टाश्वः स्यंदनो हेमनिर्मितः । अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः ॥३९॥ बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः । रथोऽष्टनीलगुडैश्च मंदस्यायसनिर्मितः ॥ ४० ॥ स्वर्भानोः कृष्णसिंहैश्च युक्तः केतोः कपोतकैः । एते नवग्रहाणां वै समाख्याता महारथाः ॥४१॥ सर्वे ध्रुवे समाबद्धा वातरश्मिभिरादरात् । ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा ॥४२॥ भ्रमति भ्रामयत्येतान् सर्वाशानिलरश्मिभिः । अतो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापते ॥ ४३ ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंड एकदंतचरिते नवग्रहरथादिवर्णनं नाम त्रयोदशोऽध्यायः ॥
खं. २ अ. १४ | पान ३२ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ध्रुवादूर्ध्वं महर्लोकः कोटियोजनदूरगः । कल्पाधिकारिणस्तत्र वसन्ति सुखभोगिनः ॥१॥ जनलोको महर्लोकात् कोटियोजनदूरगः । सनकाद्याः स्थितास्तत्र त्रसरेणुविमानगाः ॥२॥ जनलोकात्तपोलोकः कोटियोजनदूरगः । वैराजास्तत्र वै देवाः स्थिता भयविवर्जिताः ॥३॥ सत्यलोकस्तपोलोकात्कोटियोजनदूरगः । अपुनर्भवरूपा च ब्रह्मणो वसतिः परा ॥४॥ तत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वभावनः । आस्ते स योगिभिर्नित्यं पीत्वा योगमृतं परम् ॥५॥ वसन्ति यतयस्तत्र नैष्ठिका ब्रह्मचारिणः । व्रतिनस्तापसाः सिद्धा याजकाः परमेष्ठिनः ॥६॥ द्वारं तद्योगिनामेकं गच्छतां गणपं परम् । न तद्वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥७॥ तस्मादूर्ध्वं निरालंबं विश्वरूपविवर्जितम् । सत्यलोकांतमेतद्वै वैराटं रूपमुत्तमम् ॥८॥ पंचकोटियुतं पूर्णं तस्माद्दशगुणा मही । ब्रह्माकारा च विज्ञेया पंचाशतकोटि- विस्तरा ॥९॥ विधेर्लोकात्कोटियुग्मे योजनानां प्रजापते । शक्तिलोको निराधारो ज्योतिर्मयविराजितः ॥१०॥ तेजः पुंजमये दक्ष महामायासमाश्रिते । निष्कामाः शक्तिभक्ता ये तत्र गच्छंति योगिनः ॥११॥ दशसाहस्रविस्तारे समंताज्जनसंकुले । योजनानां महाभाग शक्तयस्तत्र संस्थिताः ॥१२॥ स्वतेजसा विनिर्माय पुरुषान् समरूपिणः । तैः समं क्रीडने सक्ताः स्त्रीभावेन जगन्मया ॥१३॥ तस्मात्कोटिचतुष्के च सूर्यलोकः पुरातनः । योजनानां महातेजःपुंजरूपो विराजते ॥१४॥ निराधारे सदा नित्ये निष्कामास्तत्र यांति वै । शुक्लगत्या महाभागाः साक्षाद्भानुनिवासिनः ॥१५॥ अन्ये सूर्यस्य ये भक्ता निष्कामभजने रताः । तत्र गच्छंति ते दक्ष भानुतेजःसमप्रभाः ॥१६॥ तस्यापि विस्तरस्तावन् शक्तिलोकसमेन वै । तत्र क्रीडति यो भानुः पुरुषाकारसंस्थितः ॥१७॥ स्ववामांगाच्च निर्माय मायां कर्ममयीं प्रभुः । संज्ञां तया सदा रेमे पुरुषो ब्रह्मसंज्ञितः ॥१८॥ तस्माद्योजनकोटिष्वष्टासु विष्णुः समास्थितः । सदावैकुंठवासीय आनंदमयमूर्तिमान् ॥१९॥ विस्तारस्तस्य लोकस्य वैकुंठस्य प्रमाणतः । अयुतं योजनानां च समंताच्च विराजते ॥२०॥ निराधारे सदा नित्ये ज्योतीरूपमये परे । तत्र गच्छंति निष्कामा वैष्णवा भक्तितत्पराः ॥२१॥ सदानंदसमायुक्तास्तत्र नित्यसुखे रताः । जनास्तिष्ठंति नार्यश्च स्वेच्छागतिविहारिणः ॥२२॥ वामभागात्स निर्माय भोगलक्ष्मीं प्रजापते । दक्षिणांगात् मुक्तिलक्ष्मीं ताभ्यां क्रीडति सर्वदा ॥२३॥ सदानंदमयः साक्षात् विष्णुः परमधर्मवित् । द्विविधं मायया कृत्वा खेलति स्वेच्छया प्रभुः ॥२४॥ तस्मात्षोडशसंख्यासु योजनानां च कोटिषु । दूरे शंकरलोकश्च कैलासः परमाद्भुतः ॥२५॥
खं. २ अ. १५ पान ३३ निराधारे सदा लोके मोहहीने सुखप्रदे। निष्कामाः शिवभक्ताश्च तत्र गच्छंति मानवाः ॥२६॥ ज्योतिर्मयस्वरूपे च सदा कल्याणदायके। लोके तत्र स्वयं शंभुर्वसति स्वेच्छया मुने ॥२७॥ अयुतं योजनानां च तस्य विस्तार एव च । तत्र योगेन योगज्ञः शंकरः क्रीडति प्रभुः ॥२८॥ वामांगं प्रकृत्याकारं दक्षिणांगं प्रजापते। पुरुषाकारमेतस्य शंकरस्य महात्मनः ॥२९॥ संयोगे च तयोर्दक्ष आनंदः परिकीर्तितः । नारायणमयी शक्तिरर्धनारीनरः शिवः ॥३०॥ सा शक्ति- स्तस्य देवस्य त्रिधा रूपधरा बभौ । कृता भिन्ना शिवेनापि जगदानंददायिनी ॥३१॥ तया व्यक्तो महादेवो मोहहीनः स्वभावतः । क्रीडत्यनारतं दक्ष मायाधारः स्वलोकगः ॥३२॥ तस्याः परं पृथिव्यास्तु ब्रह्म स्वानंदसंज्ञितम् । तत्पदान्न परं किंचिद्वेदादौ सुप्रतिष्ठितम् ॥३३॥ स्वसंवेद्यं हि यद्ब्रह्म चतुर्धा तद्बभौ स्वयम् । चतुर्णां तत्र संयोगस्तन्मयः कथितो बुधैः ॥३४॥ अव्यक्तं शिवसंज्ञं च ब्रह्म निर्मोहरूपकम् । तस्मात् समं तथा ब्रह्म वैष्णवं परिकीर्तितम् ॥३५॥ तस्मादात्मस्वरूपं यत् सूर्याकारं च तत्स्मृतम् । तस्मादसन्मयं ब्रह्म शक्तिरूपेण संस्थितम् ॥३६॥ तेषामभेदसंप्राप्तिः स्वानंदः परिकीर्तितः । एवं तत्त्वेषु सर्वेषु स्वस्वस्वानंद उच्यते ॥३७॥ ब्रह्म नानाविधं प्रोक्तमाकाशादिविभेदतः । तत्र क्रमार्थं स्वानंदः स्वमहिम्नि स्थितोऽभवत् ॥३८॥ अंते पूर्णत्वमापन्नः साक्षाद्गणपतेः स्मृतः । स्वानंदः सर्वसंयोगे समाधिः पूर्व उच्यते ॥३९॥ स्थाने स्थाने निजानंदे गणेशः संस्थितः स्वयम् । कलांशेन विहारार्थं सर्वेषां सर्वसिद्धये ॥४०॥ एवमूर्ध्वस्थलोका ये कथितास्ते प्रजापते । अतिसंक्षेपभावेन श्रवणात् सर्वकामदाः ॥४१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ऊर्ध्वस्थलोकवर्णनं नाम चतुर्दशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अतलं वितलं चैव सुतलं च तलातलम् । महातलं रसातलं पातालं सप्तमं स्मृतम् ॥१॥ अतलं श्यामवर्णं तदधोभूमेः सुसंस्थितम् । अयुते योजनानां वै विस्तारो लक्षयोजनः ॥२॥ मयपुत्रेण संयुक्तं तथा नमुचिपूर्वकैः । तथान्यैर्विविधैर्नागैरतलं शोभितं प्रभो ॥३॥ वितलं श्वेतवर्णं तदधस्तस्मात्तथा स्मृतम् । अयुते योजनानां तद्विवरं चैव संस्थितम् ॥४॥ तत्र नागासुराश्चैव वसन्ति सुखभोगिनः । कंबलः शंखकर्णश्च
[Header: पान २४]
हयग्रीवश्च जृंभकः ॥५॥ सुतलं पीतवर्णं तदधस्तद्भूतप्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥६॥ कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसंति विहारिणः ॥७॥ तलातलं तथा ज्ञेयं शार्करं तत्र वासिनः । मयासुररादयश्चैव बाणांधकमुखाः परे ॥ ८ ॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः। कालकेया महादेहा निवातकवचास्तथा ॥९॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा वसन्ति सुखभोगिनः ॥१०॥ हिरण्यपुरधिष्ण्याश्च दैत्या अन्ये सहस्त्रशः । देवानां भयमुत्सृज्य निवसंति प्रजापते ॥११॥ रसातलं शैलमयमधस्तद्भूत स्थितं महत् । वासुकिप्रमुखैर्नागैर्दैत्यैर्नानाविधैस्तथा ॥१२॥ विवरे सर्वशोभाढ्ये नानासौख्यप्रदे परे । तत्र तेजस्विनस्तीक्ष्णविषोग्राः प्रवसंति वै ॥१३॥ पातालं नीलवर्णं तदधस्तस्मात्प्रतिष्ठितम् । तत्र स्थानं च शेषेण कार्यार्थे च कृतं किल ॥१४॥ तत्र दैत्याः सुरा नागास्तं सदा पर्युपासते । भक्तियुक्ता विवेकेन नागराजं महौकसम् ॥१५॥ पातालविवरेष्वत्र गृहा नानाविधाः कृताः । वनानि च तथा ग्रामा नगराणि प्रजापते ॥१६॥ विचित्रभोगयुक्ताश्च वृक्षा नानाविधाः खगाः । मंदिराणि प्रभावंति सोत्पलानि सरांसि च ॥१७॥ तत्र स्वर्गसमं दक्ष भोगं कुर्वंति जंतवः । हृष्टपुष्टजनाः सर्वे नियुताब्दोपजीविनः ॥१८॥ अपारायुः समायुक्ता महातेजस एव ते । देवादीनां सुदुर्धर्षा वसन्ति च्छंदचारिणः ॥१९॥ तस्मादधः सहस्राणि योजनानि प्रजापते । त्रिंशत्तत्र स्वयं शेषः सदा तिष्ठति नागपः ॥२०॥ गणेशभक्तिसंयुक्तो गणेशांशसमुद्भवः । विष्णोः कलावतारश्च कालरुद्रस्तथा स्मृतः ॥२१॥ सहस्रानन एकोऽसौ महाभागो महाबलः । यस्य विषभवा ज्वाला देहेत्तु सकलं जगत् ॥२२॥ मृत्युवर्जित एकोऽसौ तेनानंतः प्रकीर्तितः । ब्रह्मणो दिवसांते वै लयं कृत्वा स्वयं स्थितः ॥२३॥ अभजन्नागराजास्तं वासुकिप्रमुखाः सदा । असुराश्चैव प्रह्लादमुख्याः सेवापरायणाः ॥ २४॥ उपासते विलीनास्तं तथान्या नागयोषितः । नानाकामप्रसिद्ध्यर्थमनंतं भक्तितत्पराः ॥ २५ ॥ तस्मादधः कच्छपस्य विष्णोश्चैवावतारिणः । स्थानं सहस्र एकस्मिन् योजनानां स्थितं प्रभो ॥२६॥ तत्र तं वरुणाद्याश्च सेवंते भावतत्पराः । साक्षात् कूर्मस्वरूपस्थं नारायणमनामयम् ॥ २७॥ योजनानां ततोऽधस्तात् सहस्रे संस्थितः स्वयम् । वराहरूपधारी च विष्णुः परपुरंजयः ॥ २८ ॥ तं धरित्रीमुखाः सर्वे सेवंते भक्तितत्पराः । महादेवं करालास्यं स्वभक्तेभ्योऽभयप्रदम् ॥२९॥ शेषाधारमिदं सर्वं कूर्माधारः स वै स्मृतः । कूर्मो वराहरूपस्याधारेण समवस्थितः ॥३०॥
खं. २ अ. १६ पान ३५ वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥३१॥ तस्मादधो रौरवाद्या नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२ ॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः । अंधतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३ ॥ लोहदंडस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च इत्याद्या बहवः स्मृताः ॥३४॥ नरकेषु प्रपच्यंते पापकारिण एव ये । एतावान् ब्रह्मगोलस्ते संक्षेपेण निरूपितः ॥३५॥ विस्तरान्नैव शक्यश्च गदितुं वै प्रजापते । शापमोहस्य वेगेन तव भ्रांतिः समागता ॥३६॥ गणेशाराधनेनाद्य भ्रांतिनाशो भविष्यति । तदा त्वं तत्त्वतः सर्वं ज्ञास्यस्यत्र न संशयः ॥३७॥ एवं सर्वेषु सामान्यं ब्रह्मांडेषु बभौ जगत् । अष्टावरणयुक्तेषु गुणेशाधारकेषु वै ॥३८॥ इदं गणपते रूपं ब्रह्मांडात्मकमिस्थितम् । कथितं ते समासेन सर्वसिद्धिप्रदं मया ॥ ३९ ॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य सर्वदम् । भुक्तिमुक्तिकरं भावि पापकंचुकनाशनम् ॥ ४० ॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते सप्तपातालवर्णनं नाम पंचदशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । प्रियव्रतात्मजश्चैवाग्नीध्रस्तस्याभवत्सुतः । नाभिस्तस्य च यज्ञाद्वै समुत्पन्नः सुतः परः ॥१॥ यज्ञरूपः स्वयं विष्णुः कलारूपेण देहभृत् । पुत्रभावसमायुक्तः स्थितस्तस्य च सद्मनि ॥ २ ॥ तस्य पुत्रशतं जज्ञे भरताग्रं प्रजापते । एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसाऽभवन् ॥ ३ ॥ नवयोगिन एवान्येऽभवन् सर्वत्र संमताः । गाणपत्या महाभागाः सर्वदेहविवर्जिताः ॥ ४ ॥ कविर्हरिश्चांतरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥५॥ सदा योगधरा मुख्या ऊर्ध्वरेतस एव च । सर्वगाः सर्वसंमान्या भ्रमंति भुवनेषु च ॥६॥ नव तत्र च राजानो जंबुद्वीपे प्रजापते । खंडेसु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः ॥७॥ सभ्रातृणां नवानां वै सम्राट् भावेन संस्थितः । एवं विभज्य राज्यं स्वमृषभश्च वनं ययौ ॥८॥ तत्र नाना तपः कृत्वा क्रमेण स बभूव च । अवधूतो महाभागो योगमभ्यस्य योगवित् ॥९॥ नानायोगविभेदेन नानाभूमिं विशोधयन् । जडोन्मत्तपिशाचादिं ततः सहजसंस्थितः ॥१०॥ सहजं शांकरं ब्रह्म मोहहीनं चतुर्थकम् । स्वाधीनं नेति रूपं यदव्यक्तं तेन संश्रितम् ॥११॥ तेनासौ शांभवो जातः
शिवमार्गप्रकाशकः। यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् । दृष्ट्वा शांतिं परित्यज्य विस्मितः प्रबभूव सः ॥१३॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न योगींद्रस्ततो भवेत् ॥१४॥ एवं विचार्य विक्षेपाच्छंकरालयमाययौ । तं प्रणम्य स्थितो योगी शिवसंमानितो भृशम् ॥१५॥ तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६ ॥ ततो- ऽवसरमासाद्य शिवं नत्वा कृतांजलिः । जगाद तं स योगींद्रो भक्तियुक्तेन चेतसा ॥ १७॥ ऋषभ उवाच। नमस्ते शंकरायैव नमस्ते योगरूपिणे । नमस्ते जगदाधार ब्रह्माधिपतये नमः ॥१८ ॥ शांतियोगं वद स्वामिन् पूर्णशांतिप्रदायकम् । दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे ॥१९॥ सहजान्न परं ब्रह्म मया ज्ञातं विवेकतः । तत्र स्वाधीनता दृष्टा तया शांतिर्गता च मे ॥ २० ॥ मुद्गल उवाच। ऋषभस्य वचः श्रुत्वा शंकरो हर्षनिर्भरः । जगाद तं महाभक्तं पूर्णपाशुपतं वचः ॥ २१ ॥ शिव उवाच । त्वया पृष्टं महायोगिंस्तारकं योगिनां मतम् । कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः ॥ २२॥ शांतियोगा- त्मकः साक्षाद्वेदेषु कथितः पुरा । गणेशो योगरूपाख्यो योगिभिः सेवितः सदा ॥ २३ ॥ तस्मात् सर्वं समुद्भूतं तदाधारेण संस्थितम् । अंते चेदं तदाकारं योगेन भवति प्रभो ॥ २४ ॥ सामवेदे प्रकथितं शृणु वेदरहस्यकम् । येन त्वं शांतिसंयुक्तो भविष्यसि न संशयः ॥ २५ ॥ मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकम् । गकारात्मकमेतत्तु तत्र ब्रह्म गकारकः ॥ २६ ॥ मनोवाणीविहीनं च संयोगायोगसंस्थितम् । णकारात्मकमेतत्तु णकारस्तत्र संस्थितः ॥ २७॥ विविधानि गकाराच्च प्रसूतानि महामते । ब्रह्माणि तानि कथ्यंते तत्त्वरूपाणि योगिभिः ॥ २८॥ ब्रह्माणि तु णकाराच्च संप्रसूतानि योगिभिः । निरोधा- त्मकरूपाणि कथितानि समंततः ॥ २९ ॥ गकारश्च णकारश्चाह्वये गणपतेः स्थितौ । ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखात् ॥ ३० ॥ तयोः स्वामी गणेशानो योगरूपेण संस्थितः । तं भजस्व विधानेन शांतिमार्गेण पुत्रक ॥ ३१ ॥ मनो- वाणीमयं सर्वं गणेशाकारभावितम् । मनोवाणीविहीनं च तदाकारं प्रभावय ॥३२॥ मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते । मनोवाणीविहीनं यत्तदेव तादृशं मतम् ॥३३॥ चित्तस्य पंच भूमीनां प्रकाशकृदयं स्मृतः । तेन चिंतामणिर्नाम जातोऽसौ गणनायकः ॥ ३४ ॥ तं भजस्व महायोगिन् योगाकारेण संस्थितः । भूमीनां त्यागमार्गेण शांतिं चित्तस्य चाप्स्यसि ॥ ३५ ॥ गणेशस्तु गणेशोऽयं संयोगायोगवर्जितः । मायया भ्रांतिरुत्पन्ना तां त्यक्त्वा सुखमाप्स्यसि ॥ ३६ ॥ इत्युक्त्वा विररामाथ
खं. २ अ. १६ पान ३७ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ शिवः शिवकरः सताम् । ऋषभोडपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७ ॥ कथितं शंकरेणैवमभ्यस्यन् योगमुत्तमम् । क्रमेण पूर्वयोगी स जातो शांतिस्वरूपधृक् ॥ ३८ ॥ तथापि गणपं दक्ष न मुमोच क्षणं मुनिः । तेन तस्य समीपेऽसौ गणेशानः समाययौ ॥ ३९ ॥ आगतं गणपं दृष्ट्वा भक्तिभावेन यंत्रितम् । प्रणाम स साष्टांगं हर्षगद्गदभाषणः ॥ ४० ॥ सरोमांचशरीरश्च साश्रुनेत्रो महायशाः । तुष्टाव तं गणाधीशं प्रांजलिर्हृष्टमानसः ॥४१॥ ऋषभ उवाच । नमस्ते ब्रह्मरूपाय गणेश करुणानिधे । भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२ ॥ निराकाराय नित्याय जगदाकारमूर्तये । अनंताय परेशाय परात्परतराय ते ॥४३॥ आदिमध्यांतहीनाय गुणाकाराय ते नमः । गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४ ॥ नमो नानावताराय भक्तपालनहेतवे । सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५ ॥ योगाय योगदात्रे च योगाकाराय ते नमः । योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६ ॥ सर्वाद्ये गणाध्यक्ष सर्वपूज्याय ढुंढये । सर्वांते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७ ॥ हेरंबाय निजानंदवासिने सिद्धसेवित । सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८ ॥ धर्मार्थकाममोक्षाणां दायकाय नमो नमः । ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९ ॥ किं स्तौमि त्वां गणाधीश योगशांतिमयं प्रभो । यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५० ॥ तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१ ॥ मुद्गल उवाच । इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः । गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२ ॥ जगाद गणनांथः स ऋषभं भक्तमुत्तमम् । शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३ ॥ गणेश उवाच । मदीया भक्तिरत्यंतं भविष्यत्यचलानघ । स्तोत्रं त्वया कृतं मे तु शांतिदं प्रभविष्यति ॥ ५४ ॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । श्रवणान्नात्र संदेहो भावपूर्ण मतं मम ॥ ५५ ॥ इत्युक्त्वांतर्दधे देवो गणेशो गणवल्लभः । ऋषभश्च सदा शांतो योगी गाणेशतां गतः ॥ ५६ ॥ इदं चरित्रं मुख्यं वै यः शृणोति नरोत्तमः । ऋषभस्य महापुण्यं पठेद्वा तस्य सर्वदम् ॥ ५७ ॥ भविष्यति न संदेहो ब्रह्मभूयप्रदायकम् । शांतिदं शांतचित्तेभ्यः कथितं भक्तिसंयुतम् ॥ ५८ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ॥ ❧❦❧ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
ख. २ अ. २७ पान ३८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ऋषभेन कृता चर्या नानायोगप्रकाशिनी । आदौ तां भूमिपो दृष्ट्वा जगृहेऽहंदृहे स्थितः ॥ १ ॥ दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै । पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २ ॥ जैनमार्गः समुत्पन्नस्तदादिश्च प्रजापते । भरतेन स संच्छन्नो कर्ममार्गानुसारिणा ॥ ३ ॥ स एव कलिकालै वै भविष्यति गृहे गृहे । नरास्तं संग्रहीष्यंति कलिदोषेण संयुताः ॥ ४ ॥ ऋषभेन गृहं त्यक्त्वा धृतः संन्यासिना महान् । गृहस्थैः संधृतो मार्गो नरकप्रद उच्यते ॥ ५ ॥ ऋषभस्याग्रजः पुत्रो भरतो धर्मतत्परः । राज्यं चकार धर्मेण रंजयन् सकलाः प्रजाः ॥ ६ ॥ पुत्रे राज्यं समर्प्याऽसौ वनं यातो महायशाः । तत्र देहं क्रमेणैव तपसा शोषयन् स्थितः ॥ ७ ॥ शालिग्रामाश्रमे तिष्ठन्विष्णुध्यानपरायणः । तताप तप उग्रं स राजा परमधर्मवित् ॥ ८ ॥ एकदा स नदीतीरे संस्थितस्तर्पयन् पितॄन् । अकस्मात्सिंहसंनादो बभूव भयदायकः ॥ ९ ॥ तं श्रुत्वा हरिणी तत्रांतर्वत्नी सहसा स्वनम् । उत्पपात नदीं तां वै भयेन च पलायत ॥ १० ॥ उत्पतंत्या नदीतोये गर्भस्तस्याः पपात ह । साऽपि दूरे ययौ दक्ष मृता दुःखेन तत्क्षणात् ॥ ११ ॥ भरतेन मृगो बालो जलस्थः संधृतोऽभवत् । करुणायुतचित्तेन पालितश्च स यत्नतः ॥ १२ ॥ ततो मृगशिशौ तस्य प्रीतिर्जाता महात्मनः । लालयामास भावेन खेलयामास भूमिपः ॥ १३ ॥ क्रमेण प्रगतं सर्वं कर्म तस्य तपोमयम् । मृगे चासक्तचित्तस्य संगदोषमपश्यतः ॥१४॥ एकस्मिन् दिवसे सोऽपि मृगो मृगसमन्वितः । ययौ वनांतरे कुत्र न ज्ञातः साधुनाऽमुना ॥ १५ ॥ भरतस्तं मृगं तत्र न ददर्श यदा प्रभो । तदा दुःखसमायुक्तो बभ्राम स वने वने ॥ १६ ॥ न ददर्श मृगं कुत्र विललाप महीपतिः । नित्यं शोकसमायुक्तः कालेन स ममार च ॥ १७ ॥ मरणे स मृगस्तेन संदृष्टः स्वसमीपगः । बभूव मृगयोनौ स संगदोषप्रभावतः ॥ १८ ॥ तत्र पूर्वतपोभिश्च पूर्वजातिस्मरोऽभवत् । ज्ञानयुक्तः स्वयं संगात्स भीतो विचचार ह ॥ १९ ॥ मृगसंगं परित्यज्य ययौ पूर्वाश्रमे ततः । तत्राऽहिंसासमायुक्तो द्वंद्वभाव- पराङ्मुखः ॥२०॥ शुष्कं तृणादिकं भक्षन् सोऽस्मरद्विष्णुमव्ययम् । तीर्थस्नानं तदा कुर्वन् साधुदर्शनलालसः ॥२१॥ एकदा वनमध्ये स मृगो बभ्राम लीलया । अपश्यत्पूर्वपुण्येन पुलहाश्रममुत्तमम् ॥ २२ ॥ मुनीश्वरास्तत्र केचिद्वसंस्तत्परायणाः । महाभागास्तपोयुक्ता गणेशभजने रताः ॥ २३ ॥ तत्राऽसौ मृगजातिस्थो भरतो मुनिसंनिधौ । वासं चकार संहृष्टः साधुसंगपरायणः ॥ २४ ॥ एकदा ब्रह्मदेवोऽथ जगाम पुलहाश्रमम् । तं दृष्ट्वा पुलहाद्यास्ते प्रणेमुस्तं पितामहम् ॥ २५ ॥
खं. २ अ. १७ पान ३९ तं संपूज्य महाभक्त्या पुलहः सर्वसंयुतः । तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६ ॥ परिपप्रच्छ तं स्तुत्वा पुलहो भावसंयुतः । आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७ ॥ पुलह उवाच । तात दुःखयुताः सर्वे जंतवः केन भोगिनः । मोक्षिणो ब्रह्मभूताश्च जायंते तद्वदस्व मे ॥२८॥ मुद्गल उवाच । पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् । पुत्रं विनयसंयुक्तं कृतप्रांजलिमास्थितम् ॥२९॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् । तत्सर्वं सर्वपापघ्नं शांतिमार्गप्रका- शकम् ॥३०॥ विघ्नराजमनादृत्य नरा दुःखसमन्विताः । जायंते सर्वलोकेषु विघ्नयुक्ता भयातुरः ॥३१॥ यद् यद् दुःखकरं तत्त- द्विघ्नरूपं न संशयः । नरकादि महाघोरं विकर्मफलदं मतम् ॥३२॥ कर्मयुक्तं च सर्वं तत्स्वर्गभोगप्रदं मतम् । तदेव दुःखरूपं त्वं पुत्र जानीहि निश्चितम् ॥३३॥ स्वर्गेषु द्वंद्वभावश्च विद्यते नात्र संशयः । स्त्रीपुंयुक्तं तथा विघ्नं मोहदं पश्य तत् स्थितम् ॥३४॥ दैत्यादिभ्यो भयैर्युक्ता देवास्तत्र वसन्ति ते । भयहीनाश्च तान् हत्वा लये मृत्युभयप्रदम् ॥ ३५ ॥ उत्पत्तिनाशसंयुक्तं ब्रह्मांडं सकलं मतम् । त्रिगुणादि व्यथायुक्तं विघ्नेन ग्रसितं स्मृतम् ॥३६॥ अकर्मणा नरो मोक्षं लभते नात्र संशयः । स एव विघ्नसंयुक्तो मोक्षश्च शृणु तं सुत ॥३७॥ देही देहैश्चतुर्भिश्च मोहितो बंधनं गतः । स एव साधनं कृत्वा बंधहीनः प्रजायते ॥३८॥ मोहेन युक्तो हीनोऽयं देही सर्वत्र संमतः । तदेव विघ्नरूपं च तन्न प्राप्तं महामते ॥३९॥ देहदेहिमये योगे ब्रह्म तत्कल्पनात्मकम् । विकल्पेन द्विधाभूतं स्वत उत्थानसंज्ञकम् ॥४०॥ निर्विकल्पेन योगेन स्वमहिम्नि स्थितं भवेत् । तदेव विघ्नसंयुक्तं विकल्पयुतहीनतः ॥४१॥ सांख्यं ब्रह्मात्मनिष्ठं यत्तत्र बाधो न विद्यते । अस्वातन्निष्ठमन्यच्चेत्तदा स्वात्ममयं भवेत् ॥४२॥ स्वात्मनिष्ठं धृतं येन तस्मादस्वात्मनिष्ठकम् । समुत्पन्नं महाभाग न कृतं त्वपि पुत्रक ॥४३॥ तदेव विघ्नरूपं चाप्यपरोत्थानभावतः । सांख्यं ब्रह्म न संदेहो बीजमुत्थानधारकम् ॥४४॥ सबीजं तद्विनिर्बीजं तदेव भवति स्वयम् । अतो योगिभिरत्यंतं मानितं न कदाचन ॥४५॥ स्वानंदं ब्रह्म यत्प्रोक्तं समाधे रूपधारकम् । तत्र स्वकीयसंयोगस्तदाकारेण जायते ॥४६॥ सर्वाभेदस्वरूपेण संयोगात्मक उच्यते । स्वसंवेद्यात्परं नास्ति संयोगाभेददायकम् ॥४७॥ तदेव योगिभिस्तस्मात्कथितं विघ्नसंयुक्तम् । तस्माज्जातंमिदं तत्र योगेनाभेदतां गतम् ॥४८॥ अन्वयात्मकदोषेण विघ्नरूपं प्रकाशितम् । अतो न मान्यतां प्राप्तं शांतिमार्गेषु सर्वदा ॥४९॥ ततो योगस्वरूपं यत्सदा भिन्नं प्रकीर्तितम् । न तस्य कस्यचियोगस्तत्र कुत्रापि नो भवेत् ॥५०॥ ब्रह्मभिन्नमयोगाख्यमतो विघ्नसमाकुलम् । व्यतिरेकात्मको दोषो
खं. २ अ. १८ पान ४० ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ ह्यशांतिकर उच्यते ॥५१॥ संयोगित्वमयोगत्वं त्यक्त्वा शांतिमवाप्स्यसि । तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥५२॥ चित्तभूमिस्वरूपं यत् पंचधा त्यज विप्रप । योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥५३॥ पंचधा चित्तरूपा वै बुद्धिर्माया प्रकीर्तिता । पंचधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥५४॥ तत्र बिंबं गणेशस्य पतितं योगरूपतः । द्वैधं मायायुतं प्रोक्तं बिंबभावं त्यज प्रभो ॥५५॥ आदौ पुरा मया पुत्र कथितं कुलदैवतम् । गणेशरूपमस्माकं त्वयाराधितमादरात् ॥५६॥ तेन त्वं पात्रभूतश्च योगशांतेर्महामुने । अधुना कथितं पुत्र पूर्णशांतिस्वरूपकम् ॥ ५७॥ शांतियोगेन नित्यं त्वं तं भजस्व विधानतः । भविताऽसि गणेशानस्तदा वै नात्र संशयः ॥५८॥ एवमुक्त्वा स्वयं ब्रह्माऽन्तर्दधे स प्रजापते । पुलहस्तत्र योगं त्वसाधयत्तपसि स्थितः ॥५९॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते पुलहोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । क्रमेण योगशांतिं च प्राप्तोऽसौ पुलहः स्वयम् । नित्यं गणेशमूर्तिं प्रापूजयत् भक्तिसंयुक्तः ॥ १ ॥ ध्याननिष्ठः सदा योगी तमेवाचिंतयत् प्रभुम् । ततः कियति काले तं गणेशानो ययौ मुनिम् ॥ २ ॥ न बुबोध स तं विप्रो ध्याननिष्ठतया यदा । तदा हृदि स्थितो ढुंढिर्गणेशेन प्रलोपितः ॥ ३ ॥ अंतर्हितं हृदिस्थं तं गणेशं न ददर्श ह । तदा भ्रांत इवापश्यद्ददर्श गणपं बहिः ॥४॥ उत्थाय सहसा विप्रस्तं ननाम कृतांजलिः । विधिवत् पूजयामास विनायकमनामयम् ॥ ५ ॥ पूजयित्वा नमस्कृत्य तं तुष्टाव कृतांजलिः । सरोमांचशरीरः सन् हर्षगद्गदया गिरा ॥ ६ ॥ पुलह उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नदात्रे ह्यभक्तानां गणेशाय नमो नमः ॥ ७ ॥ ब्रह्मणे ब्रह्मरूपाय निराकाराय ते नमः । साक्षिणे सर्वसंस्थायानादिसिद्धाय ते नमः ॥ ८ ॥ अनामयाय देवायाऽप्रतर्क्याय महौजसे । वक्रतुंडाय वै तुभ्यं हेरंबाय नमो नमः ॥ ९ ॥ स्वानंदवासिने तुभ्यं भक्तसंरक्षकाय च । योगानां पतये चैव योगदायिन्नमो नमः ॥ १० ॥ शांताय शांतरूपाय शांतीनां पतये नमः । भक्तेभ्यः शांतिदात्रे च योगशांताय ते नमः ॥ ११ ॥ नानावताररूपाय जगदाधारमूर्तये । सुरासुराणामीशाय सर्वगाय नमो नमः ॥ १२ ॥ सर्ववंद्याय वै तुभ्यं सर्वादौ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
खं. २ अ. १८ पान ४१ संस्थिताय च । सर्वांत एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥ आदिमध्यांतहीनाय सृष्टिस्थित्यंतकारिणे । अनंतोदर- संस्थाय लंबोदर नमोऽस्तु ते ॥ १४ ॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु ते ॥ १५ ॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशांकुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥ चतुर्भुजधरायैव चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥१७॥ यं वेदवादिनः स्तोतुं वेदाः सांगाश्च योगिनः । शिवविष्णु- मुखा देवा न समर्था भवंति वै ॥ १८ ॥ तं कथं स्तौमि देवेशं योगरूपमयं प्रभुम् । अतो वै प्रणमामि त्वां प्रसन्नो भव सर्वदा ॥ १९ ॥ वरं मे देहि योगात्मन् तेन तुष्टो भवाम्यहम् । तव भक्तिं दृढां हुंदे व्यभिचारविवर्जिताम् ॥ २० ॥ एवमुक्त्वा मुनिस्तत्र ननर्त प्रेमविह्वलः । तं भक्तिरससंयुक्तमुवाच गणनायकः ॥ २१ ॥ गणेश उवाच । मदीया सुदृढा भक्तिर्व्यभिचारविवर्जिता । भविष्यति महायोगिन् तव चानंददायिका ॥ २२ ॥ यदा मे स्मरणं त्वं वै करिष्यसि महामते । तदा मां द्रक्ष्यसि ब्रह्मन् संस्थितं तव सन्निधौ ॥ २३ ॥ भवत्कृतं मदीयं यत्स्तोत्रं भक्तिप्रदं भवेत् । भुक्तिमुक्तिप्रदं प्रोक्तं शांतियोगप्रदायकम् ॥२४॥ यः पठिष्यति वै मर्त्यः शृणुयात्सर्वसौख्यभाक् । भविष्यति न संदेहो यथा त्वं स तथा भवेत् ॥२५॥ मुद्गल उवाच । एवमुक्त्वा गणाधीशस्तत्रैवांतर्दधे प्रभुः । पुलहस्तत्र संस्तथावभजत्तं गणाधिपम् ॥२६॥ मृगरूपधरस्तत्र भरतः पृथिवीपतिः । संस्थितस्तत्र शुश्राव पूर्णं ज्ञानं विधानतः ॥२७॥ ब्रह्मणा कथितं यच्च पुलहाय सुधीमते । तदेव तेन भूपेन धृतं स्वहृदि सर्वदा ॥२८॥ मनसि ध्यानसंयुक्तो बभूव मृगदेहजः । गणेशस्य सदा दृष्टस्तत्र वासं चकार सः ॥२९॥ ततस्तेन च संगीतं तच्छृणुष्व प्रजापते। अहो विघ्नो महाघोरो मया प्राप्तः सुदुर्जयः ॥३०॥ राज्यं त्यक्त्वा वने नित्यं संस्थितोऽहं हरिं स्मरन् । तत्रापि मृगसंगेन संजातो मृगरूपधृक् ॥३१॥ विष्णुमुख्यामरेशाना विघ्नयुक्ता न संशयः । तत्र कोऽहं मनुष्यो वै जयन् वै विघ्नमुल्बणम् ॥३२॥ विघ्नराजप्रसादेन विघ्नं निघ्नंति दुर्जयम् । शिवविष्ण्वादयः सर्वे जंतवश्च तथा परे ॥३३॥ धन्या भक्तिर्मत्कृता या वैष्णवी परमाद्भुता । यया संस्कारसंयुक्तं संप्राप्तं ज्ञानमुत्तमम् ॥३४॥ गाणपतयो महायोगी दृष्टो वै पुलहो मया । अहो भाग्यमहो भाग्यं मदीयं परमं मतम् ॥३५॥ येनाहं गाणपत्यानां संगे तिष्ठामि नित्यशः । विघ्नहीनः स्वभावेन भजामि गणनायकम् ॥३६॥ एवं गणेशभक्त्या वै संयुतो मृगसत्तमः । कालेन गणपं ध्यात्वा देहत्यागं चकार ह ॥३७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते भरतमृगदेहत्यागो नामाष्टादशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आंगिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥१॥ तत्रापि संगभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २ ॥ तत्र वेदादिषु प्रोक्तं गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं हठं कृतम् ॥३॥ जडवत्संगसंभीतो बभूव ब्राह्मणोत्तमः । चातुर्यं सकलं तेन गोपितं सर्वसंनिधौ ॥४॥ विवाहादिभयात् सर्वं जडत्वं संप्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता ॥५॥ तस्योपवीतदानं स चकारांगिरसो मुनिः । पश्चात् संध्यादिकं कर्म शौचाचारमशिक्षयत् ॥ ६ ॥ पित्रा कथितमत्यंतं न जग्राह महामतिः । अन्यथा स चकारापि ताडितो यदि योगिपः ॥७॥ हस्तं धृत्वा पिता तस्य कारयामास वैदिकम् । सर्वमाचमनाद्यं च तथा तेन कृतं किल ॥८॥ पुनः पित्रा च संपृष्टं न सस्मार तदा स्वयम् । जडवत्सर्व आचारस्त्यक्तस्तेन महात्मना ॥९॥ ततस्तस्य कृतं नाम सर्वैर्लोकैः प्रजापते । जड इत्येव सततं कथ्यते यत्र तत्र तैः ॥१०॥ तत्रादरापमानादि तिरस्कारादिकं महत् । संबभूव च तेनापि जडवत्त्यक्तमेव च ॥११॥ लोकाः सर्वेऽवदंस्तत्र ज्ञानमस्य न निश्चितम् । निंदास्तुत्यादिकं सर्वं महामूर्खेण सह्यते ॥१२॥ जडत्वादिकदोषेण विवाहादिकमस्य च । न कृतं जनकेनैव तेनानंदमवाप सः ॥१३॥ ततः कालेन निधनं गतस्तस्य पिता मुनिः । माता सती गुणयुता सहगा संबभूव ह ॥१४॥ मातुः सपत्नी- जाताश्च भ्रातरो नव चाऽभवन् । तेषामधीनतां यातो द्विजोऽसौ शांतियोगधृक् ॥१५॥ भ्रातृपत्न्यो मदोत्सिक्ताश्चक्रुः स्नेहं न चाल्पकम् । उच्छिष्टं कुत्सितं चान्नं ज्वलितं तद्ददुस्तुषम् ॥१६॥ वस्त्राद्यैर्भ्रातरः सर्वे भाषणैः सत्कृतं न तम् । चक्रुः स्नेहं परित्यज्य कुलपांसुं वदंति ते ॥१७॥ तथाप्यमृतवत्सर्वं कुत्सितं क्लिन्नदग्धकम् । अन्नं बभक्ष योगीशश्चीरवस्त्रैः समावृतः ॥१८॥ तदपि भ्रातृजायास्ता अन्नं तस्मै च नो ददुः । द्वित्रिवासरमध्ये स एकभुक् चाऽभवन्मुनिः ॥१९॥ क्षुधया पीडितो योगी गाणपत्यः प्रजापते । भ्रमन्नन्नार्थमत्यंतं गेहे गेहे विचक्षणः ॥२०॥ तत्र लोकैः स्वकार्यार्थे गृहीतो यत्र तत्र सः । चकार सकलं कार्यं तेषामन्नार्थमादरात् ॥२१॥ ततस्ते हर्षिताः सर्वे वस्त्रान्नादिकमादरात् । ददुः सोऽपि प्रसन्नात्मा कर्मकारोऽभवत् स्वयम् ॥२२॥ ततस्तैर्भ्रातृभिर्दृष्टं तमानीय स्वके गृहे । स्वकर्मकारिणं चक्रुर्भांतरो हर्षसंयुताः ॥२३॥ तदपि भ्रातृजायास्ता कुत्सितान्नं ददुस्तुषम् । सुधासमं बभक्षान्नं सोऽपि भावं प्रदर्शयन् ॥२४॥ कदाचित्पक्वशालीनं क्षेत्रेषु स्थापितो मुनिः । भ्रातृभी रक्षणार्थं स रात्रौ वै दिवसे प्रभो ॥२५॥ तत्राऽयं संस्थितो विद्वांस्तत्तथैव चकार च ।
खं. २ अ. २० पान ४३ अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥२६॥ तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते । चौराणां स्वामिना देवी भद्रकालीति संस्तुता ॥२७॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥२८॥ द्रव्यं तस्य तथा प्राप्तं तेन संप्रेषिताः स्वकाः । चौरा रात्रौ भ्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥ तं गृहीत्वा बलात्सर्वे जग्मुः स्थानं स्वकं खलाः । योगिना देहप्रारब्धं तदा ज्ञातं च तादृशम् ॥३०॥ तत्र चौराधिपेनैव सत्कृतः पूजनादिभिः । भोजनं स चकारापि स्वादु विप्रेन्द्रसत्तमः ॥३१॥ तं पुरस्कृत्य वादित्रैर्निन्दद्भिययौ खलः । देवीसंनिधिमानंदात् पूजितं परमादरात् ॥३२॥ पूजयित्वा महाकाली ततस्तं मुनिपुंगवम् । पुरस्कृत्यासिना हंतुं नग्नं खड्गं चकार सः ॥३३॥ मरणं देहभावस्य दृष्ट्वाऽसौ योगिसत्तमः। न किंचित् क्षुब्धवांस्तत्र सस्मार गणपं हृदि ॥३४॥ अद्यैव पतितो देहोऽथवाऽस्तु चिरजीविकः । तत्र किं कारणं मे वै गजानन नमोऽस्तु ते ॥३५॥ एतस्मिन्नंतरे तत्र देवी कोपसमन्विता । गाणपत्या महाकाली निःसृता मूर्तिमध्यतः ॥३६॥ खड्गं चौराधिपस्याऽपि हस्ताज्जग्राह लीलया । तेन तस्य शिरश्छित्वा पपौ रुधिरमुत्तमम् ॥ ३७ ॥ अन्ये समागताश्चौरास्तेऽपि खड्गेन नाशिताः । चिक्रीड स्वगणैर्देवी गणेशस्तवतत्परा ॥ ३८ ॥ तां प्रणम्य ययौ दक्ष बभ्राम परितस्तु सः । स्वेच्छाचारी महायोगी भिक्षाशी गणपं स्मरन् ॥ ३९ ॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते चौरवधो नामैकोनविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । सिंधुदेशाधिपो राजा रहूगण इति स्मृतः । पूर्वसंस्कारयोगेन ह्यंतर्निष्ठो बभूव ह ॥१॥ राजा शांत्यर्थमत्यंतं यत्नवान् प्राप्त तां न सः । ययौ गंगासमीपस्थं कपिलाश्रममादरात् ॥२॥ गौतम्या दक्षिणे कूले श्रुतवान् द्विजपुंगवात् । निर्जगाम पुराद्राजा शिबिकायां समास्थितः ॥३॥ गच्छन्मार्गे त्वरायुक्तः श्रांतवाहो महीपतिः । धृत्वा- ऽन्यान्योजयामासुर्वाहार्थं स्वजनास्तदा ॥४॥ तत्र दैवप्रसंगेन समालब्धं महामुनिम् । आंगिरसवरं तं ते चक्रुर्वाहकंमजंसा ॥५॥ ज्ञात्वा देहं महायोगी प्रारब्धाधीनमादरात् । वाहको नृपतेर्दक्ष बभूव विगतज्वरः ॥६॥ अहिंसापरमो योगी मार्गे जंतुमवेक्ष्य सः । स्वपादक्षेपणं तत्र चकार प्राणिवर्जिते ॥७॥ तेन सर्वे बभूवुश्च वाहका मंदगामिनः । दोलायिता च
खं. २ अ. २० पान ४४
शिबिका तया राजा सुदुःखितः ॥८॥ ततः क्रोधसमाविष्टो रहूगण उवाच तान् । सम्यक् च शिबिकां वाहा वहध्वं सुप्रयत्नतः ॥९॥ ततो भीताश्च ते सर्वे तमूचुरधुना नृप । आनीतः सुदुरात्मार्यं यथा चलति मद्यपः ॥१०॥ ततो राजा महात्मानमुवाच शठ किं त्वया । उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥११॥ ततो भाविबलेनासावांगिरस उवाच ह । ज्ञात्वा तं योगमिच्छंतं पात्रभूतमनादरात् ॥१२॥ जडभरत उवाच । मायामयमिदं सर्वं भ्रांतिरूपमसत्यकम् । तत्र राजजनानां वै जनः कुत्र प्रदृश्यते ॥१३॥ वयं द्वंद्वं प्रेषयित्वा समभावेन संस्थिताः । शिक्षाकर्ता न भविताऽस्माकं राजा महाबलः ॥१४॥ तेन किं योगमार्गं वै त्यक्त्वा तिष्ठेम सांप्रतम् । तदधीना भवामः किमज्ञानेन वदत्ययम् ॥१५॥ इत्युक्त्वा मौनमास्थाय शिबिकां पूर्ववद्वहन् । आंगिरसो महायोगी चचाल गणपं भजन् ॥१६॥ राजा श्रुतं महावाक्यं योगग्रंथित- मुत्तमम् । भयभीतश्च तेनासावुपपात महीतले ॥१७॥ दृष्ट्वा तं मलिनं विप्रं यज्ञोपवीतसंयुक्तम् । बिभ्राणं चीरवसनं ब्रह्मतेजः सनातनम् ॥१८॥ प्रणाम स साष्टांगं कृतांजलिपुटः स्थितः । जगाद भयभीतो वै रहूगणः स धर्मवित् ॥१९॥ रहूगण उवाच । क्षमापराधमतुलं मम ब्रह्मन् दयानिधे । अज्ञानेन कृतं कर्म किं विप्रोऽसि वदस्व माम् ॥२०॥ अवधूता महात्मानश्चरंति यत्र कुत्र वै । तथा त्वमपि मे भासि यज्ञोपवीतधारक ॥२१॥ कपिलः किं नारदश्चांगिरा पुलहकः क्रतुः । दत्तो वा याज्ञवल्क्यश्च वद मां करुणानिधे ॥२२॥ अहं बिभेमि विप्रेंद्र ब्राह्मणानामधर्षणात् । न ब्राह्मणसमं किंचिद्दैवतं सचराचरे ॥२३॥ साक्षात् परमेश्वरस्याऽपि तनवो ब्राह्मणा मताः । कर्माधाराश्च ज्ञानानामाधारा ब्रह्मधारकाः ॥२४॥ ब्राह्मणस्य मुखेनैव यच्छ्रुतं तत्समागतम् । देवस्थानेषु देवानामुदरे नात्र संशयः ॥२५॥ ब्राह्मणेभ्यश्च यद्दत्तं तदक्षयपद- प्रदम् । उद्धाराय जनानां वै ब्राह्मणाः संमताः किल ॥२६॥ मंत्राधीना देवगणा मंत्रा विप्राधीना मताः । देवानां जीवनं सर्वं द्विजाधीनं च तेन वै ॥२७॥ मंत्रहीनं च यत्कर्म निष्फलं जायते किल । कर्माधीनं जगत् सर्वमतो ब्राह्मणमूलकम् ॥२८॥ कर्मनिष्ठास्तपोनिष्ठा ज्ञाननिष्ठा द्विजोत्तमाः । योगिनश्च भवतीह तारका जगति स्थिताः ॥२९॥ सर्वेषां गुरवो विप्रा ज्ञानदास्तेन संमताः । साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा नात्र संशयः ॥३०॥ तेषां हेलनमात्रेण पतंति शिवमुख्याः । सेवनेन च तेषां वै सर्वं स लभते जनः ॥३१॥ ब्राह्मणानां च शापेन विष्णुमुख्या सुरेश्वराः । पतिता ह्यवतारेषु पुनः संस्थापिता द्विजैः ॥३२॥ अतो बिभेमि विप्रेश वद कस्त्वं महामते । विष्णुशिवादिदेवेभ्यस्तथाऽहं न बिभेमि वै ॥३३॥ एवमुक्त्वा पुनः पादौ गृह्य तं